TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ५
श्रीकृष्ण उवाच ।
एवं दग्ध्वा नरं प्रेतं स्नात्वा कृत्वा तिलोदकम् ।
अग्रतः स्त्रीजनो गच्छेद्व्रजेयुः पृष्ठतो नराः ॥१॥

प्राशयेन्निम्बपत्राणि रुदन्तो नामपूर्वकम् ।
विधातव्यं चाचमनं पाषाणोपरि संस्थिते ॥२॥

ते प्रविश्य गृहं सर्वे सुताद्याश्च सपिण्डकाः ।
भवेयुर्दशरात्रं वै यत आशौचकं खग ॥३॥

क्रीतलब्धाशनाः सर्वे स्वपेयुस्ते पृथक्पृथक् ।
अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् ॥४॥

अमांसभोजनाश्चाधः शयीरन्ब्रह्मचारिणः ।
परस्परं न संस्पृष्टा दानाध्ययनवर्जिताः ॥५॥

मलिनाश्चाधोमुखाश्च दीना भोगविवर्जिताः ।
अङ्गसंवाहनं केशमार्जनं वर्जयन्ति ते ॥६॥

मृन्मये पत्रजे वापि भुञ्जीरंस्ते च भाजने ।
उवासन्तु ते कुर्युरेकाहमथ वा त्र्यहम् ॥७॥

गरुड उवाच ।
आशौचिन इति प्रोक्तमाशौचस्य च वै प्रभो ।
लक्षणं किं कियत्कालं भाव्यं वा तद्युतैर्नरैः ॥८॥

शृकृष्ण उवाच ।
अपनोद्यन्त्विदं कालादिभिराशु निषेधकृत् ।
पिण्डाध्ययनदानादेः पुङ्गतोऽतिशयो हि तत् ॥९॥

दशाहं शावमाशौचं सपिण्डेषु विधीयते ।
जननेऽप्येवमेव स्यान्निपुणं शुद्धिमिच्छताम् ॥१०॥

जन्मन्येकोदकानान्तुत्रिरात्राच्छुद्धिरिष्यते ।
शावस्य शेषाच्छुध्यन्ति त्र्यहादुदकदायिनः ॥११॥

आदन्तजननत्सद्य आ चौलान्नैशिकी स्मृता ।
त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥१२॥

आशौचं ते समाख्यातं संक्षेपात्प्रकृतं ब्रुवे ।
जलं त्रिदिवमाकाशे स्थाप्यं क्षीरञ्च मृन्मये ॥१३॥

अत्र स्नाहि पिबात्रेति मन्त्रेणानेन काश्यप ।
काष्ठत्रये गुणैर्बद्धे प्रीत्यै रात्रौ चतुष्पथे ॥१४॥

प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा ।
अस्थिसंचयनं कार्यं दिने तद्गोत्रजैः सह ॥१५॥

तदूर्ध्वमङ्गसंस्पर्शः सपिण्डानां विधीयते ।
योग्याः सर्वक्रियाणां च समानसलिलास्तथा ॥१६॥

प्रेतपिण्डं बहिर्दद्याद्दर्भमात्रविवर्जितम् ।
प्रागुदीच्यां चरुं कृत्वा स्नात्वा प्रयतमानसः ॥१७॥

भूमावसंस्कृतानां च संस्कृतानां कुशेषु च ।
नवभिर्दिवसैः पिण्डान्नव दद्यात्समाहितः ॥१८॥

दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेत् ।
असगोत्रः सगोत्रो वा यदि स्त्री यति वा पुमान् ॥१९॥

प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ।
शालिना सक्तुभिर्वापि शाकैर्वाप्यथ निर्वपेत् ॥२०॥

प्रथमेऽहनि यद्द्रव्यं तदेव स्याद्दशाहिकम् ।
यावदाशौचमेकैकस्याञ्जलेर्दानमुच्यते ॥२१॥

यद्वा यस्मिन्दिने दानं तस्मिंस्तद्दिनसंख्यया ।
दशाहेऽञ्जलयः पक्षिन्पञ्चाशदन्तिमे ॥२२॥

द्विवृद्ध्या वा भवेत्पक्षिन्नञ्जलीनां शतं पुनः ।
यदाहि त्र्यहमाशौचं तदा वाञ्जलयो दश ॥२३॥

त्रयोऽञ्जलय एवं तु प्रथमेऽहनिवै तदा ।
चत्वारस्तु द्वितीयेऽह्नि तृतीये स्युस्त्रयस्तथा ॥२४॥

शताञ्जलि यदा पक्षिन्नाद्ये त्रिंशत्तदाहनि ।
चत्वारिंशद्द्वितीयेऽह्नि त्रिंशदह्नि तृतीयके ॥२५॥

एवं जलस्याञ्जलयो विभाज्याः पक्षयोर्द्वयोः ।
सर्वेषु पितृकार्येषु पुत्रो मुक्योऽधिकारवान् ॥२६॥

पिण्डप्रसेकस्तूष्णीञ्च पुष्पधूपादिकं तथा ।
दशमेऽहनि सम्प्राप्ते स्नानं ग्रामाद्वहिश्चरेत् ॥२७॥

तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ।
विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्त्रियो वाहनं तथा ॥२८॥

वैश्यः प्रतोदं रश्मीन्वा शूद्रो यष्टिं कृतक्रियः ।
मृतादल्पवयोभिश्च सपिण्डैः परिवापनम् ॥२९॥

कार्यन्तु षोडशी षड्भिः पिण्डैर्दशभिरैव च ।
प्रथमा मलिना ह्येतैरादशाहं मृतेर्भवेत् ॥३०॥

दिनानि दश यान्षिण्डान्कुर्वन्त्यत्र सुतादयः ।
प्रत्यहं ते विभज्यन्ते चतुर्भागैः खगोत्तम ॥३१॥

भागद्वयेन देहः स्यात्तृतीयेन यमानुगाः ।
तृप्यन्ति हि चतुर्थेन स्वयमप्युपजीवति ॥३२॥

अहोरात्रैस्तु नवभिर्देहो निष्पत्तिमाप्नुयात् ।
शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते तथा ॥३३॥

द्वितीयेन तु कर्णाक्षिनासिकं तु समासतः ।
गलांसभुजवक्षश्च तृतीयेन तथा क्रमात् ॥३४॥

चतुर्थेन च पिण्डेन नाभिलिङ्गगुदं तथा ।
जानुजङ्घं तथा पादौ पञ्चमेन तु सर्वदा ॥३५॥

सर्वमर्माणि षष्ठेन सप्तमेन तु नाडयः ।
दन्तलोमान्यष्टमेन वीर्यन्तु नवमेन च ॥३६॥

दशमेन तु पूर्णत्वं तृप्तता क्षुद्विपर्ययः ।
मध्यमां षोडशीं वच्मि वैनतेय शृणुष्व मे ॥३७॥

विष्णवादिविष्णुपर्यन्तान्येकादश तथा खग ।
श्राद्धानि पञ्च देवानामित्येषां मध्यषीडशी ॥३८॥

निमित्तं दुर्मतिं कृत्वा यदि नारायणो बलिः ।
एकादशाहे कर्तव्यो वृषोत्सर्गोऽपि तत्र वै ॥३९॥

एकादशाहे प्रेतस्य यस्यात्सृज्येत नो वृषः ।
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥४०॥

अकृत्वा यद्वृषोत्सर्गं कृतं वै पिण्डपातनम् ।
निष्फलं सकलं विद्यात्प्रमीताय न तद्भवेत् ॥४१॥

वृषोत्सर्गादृते नान्यत्किञ्चिदस्ति महीतले ।
पुत्रः पत्न्यथ दौहित्रः पिता वा दुहिताथ वा ॥४२॥

मृतादनन्तरं तस्य ध्रुवं कार्यो वृषोत्सवः ।
चतुर्वत्सतरीयुक्तो यस्योत्सृज्येत वा वृषः ॥४३॥

अलङ्कृतो विधानेन प्रेतत्वं तस्य नो भवेत् ।
एकादशेऽह्नि सम्प्राप्ते वृषालाभो भवेद्यदि ॥४४॥

दर्भैः पिष्टैस्तु सम्पाद्य तं वृषं मोचयेद्वुधः ।
वृषोत्सर्जनवेलायां वृषाभाव (लाभ) कथञ्चन ॥४५॥

मृत्तिकाभिस्तु दर्भैर्वा वृषं कृत्वा विमोचयेत् ।
यदिष्टं जीवतस्तस्य दद्यादेकादशेऽहनि ॥४६॥

मृतमुद्दिश्य दातव्यं शय्याधेन्वादिकं तथा ।
विप्रान्बहून् भोजयीत प्रेतस्य क्षुद्विशान्तये ॥४७॥

तृतीयां षोडशीं वच्मि वैनतेय शृणुष्व ताम् ।
द्वादश प्रतिमास्यानि आद्यं षाण्मासिकं तथा ॥४८॥

सपिण्डीकरणं चैव तृतीया षोडशी मता ।
द्वादशाहे त्रिपक्षे च षण्मासे मासिकेऽब्दिके ॥४९॥

तृतीयां षोडशीमेनां वदन्ति मतभेदतः ।
यस्यैता नि न दत्तानि प्रेतश्राद्धानि षोडश ॥५०॥

पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि ।
एकादशे द्वादशे वा दिने आद्यं प्रकीर्तितम् ॥५१॥

मासादौ प्रतिमासञ्च शुद्धं मृततिथौ खग ।
एकेनाह्ना त्रिभिर्वापि हीनेषु विनतासुत ॥५२॥

मासषण्मासवर्षेषु त्रिपक्षेषु भवन्ति हि ।
श्राद्धान्यथस्यात्सापिण्ड्यं पूर्णे वर्षे तदर्धके ॥५३॥

त्रिपक्षेऽभ्युदये वापि द्वादशाहेऽथ वा नृणाम् ।
आनन्त्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् ॥५४॥

अस्थिरत्वाच्छरीरस्य द्वादशाहे प्रशस्यते ।
सपिण्डीकरणेष्वेवं विधिं पक्षीन्द्र मे शृणु ॥५५॥

एकोद्दिष्टविधानेन कार्यं तदपि काश्यप ।
तिलगन्धोदकैर्युक्तं कुर्यात्पात्रचतुष्टयम् ॥५६॥

पात्रं प्रेतस्य तत्रैकं पित्र्यं पात्रत्रयं तथा ।
सेचयेत्पितृपात्रेषु प्रेतपात्रं खग त्रिषु ॥५७॥

चतुरो निर्वपेत्पिण्डान्पूर्वन्तेषु समापयेत् ।
ततः प्रभृति वै प्रेतः पितृसामान्यमश्नुते ॥५८॥

ततः पितृत्वमापन्ने तस्मिन्प्रेते खगेश्वर ।
श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितॄन् ॥५९॥

एकचित्यारोहणे च एकाह्नि मरणे तथा ।
सापिण्ड्यन्तु स्त्रिया नास्ति मृते भर्तुः स्त्रियो भवेत् ॥६०॥

पाकैक्यमथ कालैक्यं कर्त्रैक्यञ्च भवेत्खग ।
श्राद्धादौ सह दाहे च पतिपत्न्योर्न संशयः ॥६१॥

भर्तुर्मृततिथेरन्यतिथौ चितिमथारुहेत् ।
तांमृताहनि तु सम्प्राप्ते पृथक्पिण्डेन योजयेत् ॥६२॥

प्रत्यब्दञ्च युगपत्तु समापयेत् ॥६३॥

यस्य संवत्सरादर्वाक्सपिण्डीकरणं भवेत् ।
मासिकञ्चोदकुम्भञ्च देयं तस्यापि वत्सरम् ॥६४॥

नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश ।
एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥६५॥

पितामहीभिः सापिण्ड्यं तथा मातामहैः सह ।
उक्तं भर्त्रापि सापिण्ड्यं स्त्रिया वेषयभेदतः ॥६६॥

नवश्राद्धस्य ते कालं वक्ष्यामि शृणु काश्यप ।
मरणाह्नि मृतिस्थाने श्राद्धं पक्षिन्प्रकल्पयेत् ॥६७॥

द्वितीयञ्च ततो मार्गे विश्रामो यत्र कारितः ।
ततः सञ्चयनस्थाने तृतीयं श्राद्धमुच्यते ॥६८॥

पञ्चमे सप्तमे तद्वदष्टमे नवमे तथा ।
दशमैकादशे चैव नव श्राद्धानि वै खग ॥६९॥

श्राद्धानि नव चैतानि तृतीया षोडशी स्मृता ।
एकोद्दिष्टविधानेन कार्याणि मनुजैस्तथा ॥७०॥

प्रथमेऽह्नि तृतीये वा पञ्चमे सप्तमे तथा ।
नवमैकादशे चैव नवश्राद्धं प्रकीर्तितम् ॥७१॥

उच्यन्ते षडिमानीह नव स्युरपि यागेतः ।
उक्तानि ते मया तानि ऋषीणां मतभेदतः ॥७२॥

रूढिपक्षो ममाभीष्टो योगः कैश्चिदिहेष्यते ।
आद्ये द्वितीये दातव्यस्तथैवैकं पवित्रकम् ॥७३॥

प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु ।
प्रश्रस्तत्राभिरण्येति यजमानद्विजन्मना ॥७४॥

अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा ।
एकोद्दिष्टं मे निबोध चेत्थमावत्सरं स्मृतम् ॥७५॥

सपिण्डीकरणादूर्ध्वं यानि श्राद्धानि षोडश ।
एकोद्दिष्टविधानेन चरेद्वा पार्वणादृते ॥७६॥

प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ।
एकादशे द्वादशेऽह्नि प्रेतो भुङ्क्ते दिनद्वयम् ॥७७॥

योषितः पुरुषस्यापि पिण्डं प्रेतेति निर्वपेत् ।
सापिण्ड्ये तु कृते तस्य प्रेतशब्दो निवर्तते ॥७८॥

दीपदानं प्रकर्तव्यमावर्षन्तु गृहाद्बहिः ।
अन्नं दीपो जलं वस्त्रमन्यद्वादीयते च यत् ॥७९॥

तृप्तिदं प्रेतशब्देन सपिण्डीकरणावधि ।
अब्दकृत्यं मयोक्तन्ते समासाद्विनतासुत ॥८०॥

वैवस्वतगृहे यानं यथा तत्तु निबोधमेः ।
त्रयोदशेऽह्नि श्रवणाकर्मणोनन्तरन्तु सः ॥८१॥

त्वग्गृहीताहिवत्तार्क्ष्य गृहीतो यमकिङ्करैः ।
तस्मिन्मार्गे व्रजत्येको गृहीत इव मर्कटः ॥८२॥

वाय्वग्रसारिवद्रूपं देहमन्यत्प्रपद्यते ।
तत्पिण्डजं पातनार्थमन्यत्तु पितृसम्भवम् ॥८३॥

तत्प्रमाणवयोऽवस्थासंस्थानां प्रग्भवो यथा ।
षडशीति सहस्राणि योजनानां प्रमाणतः ॥८४॥

अध्वान्तरालिको ज्ञेयो यममानुषलोकयोः ।
साधिकार्धक्रोशयुतं योजनानां शतद्वयम् ॥८५॥

चत्वारिं शत्तथा सप्त प्रत्यहं याति तत्र सः ।
अष्टाचत्वारिंशता च त्रैंशता दिवसैरिति ॥८६॥

वैवस्वतपुरं याति कृष्यमाणो यमानुगैः ।
एवं क्रमेण यातब्ये मार्गे पापरतैस्तु यत् ॥८७॥

जायते सप्रपञ्चं तच्छृणु त्वमरुणानुज ।
त्रयोदशदिने दत्तः पाशैर्बद्ध्वातिदारुणैः ॥८८॥

यमस्याङ्कुशहस्तो वै भृकुटीकुटिलाननः ।
दण्डप्रहारसम्भ्रान्तः कृष्यते दक्षिणां दिशम् ॥८९॥

कुशकण्टकवल्मीकशङ्कुपाषाणकर्कशे ।
तथा प्रदीप्तज्वलने क्वचिच्छ्वभ्रशतोत्कटे ॥९०॥

प्रदीप्तादित्यतप्ते च दह्यमानः सदंशके ।
कृष्यते यमदूतैश्च शिवावन्नादभीषणैः ॥९१॥

प्रयातिः दारुणे मार्गे पापकर्मा यमालये ।
कलेवरे दह्यमाने महान्तं क्षयमृच्छति ॥९२॥

भक्ष्यमाणे तथैवाङ्गे भिद्यमाने च दारुणम् ।
छिद्यमाने चिरतरं जन्तुर्दुः खमवाप्नुते ॥९३॥

स्वेन कर्मवि पाकेन देहान्तरगतोऽपि सन् ।
पुराणि षोडशामुष्मन्मार्गे तानि च मे शृणु ॥९४॥

याम्यं सौरिपुरं नगेद्वभवनं गन्धर्वशैलागमौ क्रौञ्चं क्रूरपुरं विचित्रभवनं बह्वापदं दुः खदम् ।
नानाक्रन्दपुरं सुतप्तभवनं रौद्रं पयोवर्षणं शीताढ्यं बहुभीतिषोडशपुराण्येतान्यदृष्टनि ते ॥९५॥

तत्र याम्य पुरं गच्छन्पुत्रपुत्रेति च ब्रुवन् ।
हाहेति क्रन्दते नित्यं स्वकृतं दुष्कृतं स्मरन् ॥९६॥

अष्टादशोदिने तार्क्ष्य तत्पुर प्राप्नुयादसौ ।
पुष्पभद्रा नदी यत्र न्यग्रोधः प्रियदर्शनः ॥९७॥

विश्रामेच्छां करोत्यत्र कारयन्ति न ते भटाः ।
क्षितौ दत्तं सुतैस्तस्य स्नेहाद्वा कृपया तथा ॥९८॥

मासिकं पिण्डमश्नाति ततः सौरिपुरं व्रजेत् ।
व्रजन्नेवं प्रलपते मुद्गराहतिपीडितः ॥९९॥

जलाशयो नैव कृतो मया तदा मनुष्यतृप्त्यै पशुपक्षितृप्तय ।
गोतृप्तिहेतोर्न च गोचरः कृतः शरीर हे निस्तर यत्त्वया कृतम् ॥१००॥

तत्र नाम्ना तु राजासौ जङ्गमः कामरूपधृक् ।
भयात्तद्दर्शनाज्जाताद्भुङ्क्ते पिण्डं स शङ्कितः ॥१०१॥

त्रिपक्षे जलसंयुक्तं क्षितौ दत्तं ततो व्रजेत् ।
व्रजन्नेवं प्रलपते खड्गाघातप्रपीडितः ॥१०२॥

न नित्यदानं न गवाह्निकं कृतं पुस्तं च दत्तं न हि वेदशास्त्रयोः ।
पुराणदृष्टो न हि सेवितोऽध्वा शरीर हे निस्तर यत्त्वया कृतम् ॥१०३॥

नगेन्द्रनगरं गत्वा भुक्त्वा चान्नं तथाविधम् ।
मासि द्वितीये यद्दत्तं बान्धवैस्तु ततो व्रजेत् ॥१०४॥

व्रजन्नेवं प्रलपते कृपाणत्सरुताडितः ।
पराधानमभूत्सर्वंमम मूर्खशिरोमणेः ॥१०५॥

महता पुण्ययोगेन मानुष्यं लब्धवानहम् ।
तृतीये मासि सम्प्राप्ते गन्धर्वनगरे शुभम् ॥१०६॥

तृतीयमासिकं पिण्डं तत्र भुक्त्वा ब्रजत्यसौ ।
व्रजन्नेवं विलपते तदग्रेणाहतः पथि ॥१०७॥

मया न दत्तं न हुतं हुताशने तपो न तप्तं हिमशैलगह्वरे ।
न सेवितं गाङ्गमहो महाजलं शरीर हे निस्तर यत्त्वया कृतम् ॥१०८॥

तुर्ये शैलागमं मासि प्राप्नुयात्तत्र वर्षणम् ।
तस्योपरि भवेत्पक्षिन्पाषाणानां निरन्तरम् ॥१०९॥

चतुर्थमासिकं श्राद्धं भुक्त्वा तत्र प्रसर्पति ।
स पतन्नेव विलपन्पाषाणाद्यतिपीडितः ॥११०॥

न ज्ञानमार्गो न च योगमार्गो न कर्ममार्गो न च भक्तिमार्गः ।
न साधुसङ्गात्किमपि श्रुतं मया शरीर हे निस्तर यत्त्वया कृतम् ॥१११॥

ततः क्रूरपुर मासि पञ्चमे याति काश्यप ।
भुवि दत्तं पिण्डजलं भुक्त्वा क्रूरपुरं व्रजेत् ॥११२॥

व्रजन्नेवं विलपते पट्टिशैः पातितः पथि ।
हा मातर्हापितर्भ्रातः सुता हा हा मम स्त्रियः ॥११३॥

युष्माभिर्नोपदिष्टोऽहमवस्थां प्राप्त ईदृशीम् ।
एवं लालप्यमानं ते यमदूता वदन्तिहि ॥११४॥

क्व माता क्व पिता मूढ क्व जाया क्व सुतः सुहृत् ।
स्वकर्मोपार्जिते भुङ्क्ष्वं मूर्ख याताश्चिरं पथि ॥११५॥

जानासि शम्बलमलं बलमध्वगानां नोऽशम्बलः प्रयतते परलोकगत्यै ।
गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण येन न भवेत्क्रयविक्रयोऽपि ॥११६॥

ऊनषाण्मासिके क्रौञ्चे भुक्त्वा पिण्डन्तु सोदकम् ।
घटीमात्रन्तु विश्रम्य विचित्रनगरं व्रजेत् ॥११७॥

व्रजन्नेवं विलपते शूलाग्रेण विदारितः ॥११८॥

कुत्र यामि न हि गामि जीवितं हा मृतस्य मरणं पुनर्न वै ।
इत्थमेव विलपन् प्रयात्यसौ यातनार्हधृतविग्रहः पति ॥११९॥

विचित्रनगरे तत्र विचित्रो नाम पारिथिवः ।
तत्र षण्मासपिण्डेन तृप्तः सन् व्रजते पुरः ॥१२०॥

व्रजन्नेवं विलपते प्रासाग्रेण प्रपीडितः ॥१२१॥

माता भ्राता पिता पुत्रः कोऽपि मे वर्तते न वा ।
यो मामुद्धरते पापं पतन्तं दुः खसागरे ॥१२२॥

व्रजतस्तत्र मार्गे तु तत्र वैतरणी शुभा ।
शतयोजनविस्तीर्णा पूयशोणितसंकुला ॥१२३॥

आयाति तत्र दृश्यन्ते नाविका धीवरादयः ।
ते वदन्ति प्रदत्ता गौर्यदि वैतरणी त्वया ।
नावमेनां समारोह सुकेनोत्तर वै नदीम् ॥१२४॥

तत्र येन प्रदत्ता गौः स सुखेनैव तां तरेत् ।
अदायी तत्र घृष्येत करग्राहन्तु नाविकैः ॥१२५॥

उखैः काकैर्बकोलूकैस्तीक्ष्णतुण्डैर्वितुद्यते ।
मनुजानां हितं दानमन्ते वैतरणी खग ॥१२६॥

दत्ता पापं दहेत्सर्वं मम लोकन्तु सा नयेत् ।
मप्तमे मासि सम्प्राप्ते पुरं बह्वापदं मृतः ॥१२७॥

व्रजेत्तु सोदकं भुक्त्वा पिण्डं वै सप्तमासिकम् ।
व्रजन्नेवं विलपते परिघाहतिपीडितः ॥१२८॥

न दत्तं न हुतं तप्तं न स्नातं न कृतं हितम् ।
यादृशं चरितं कर्म मूढात्मन् भुङ्क्ष्व तादृशम् ॥१२९॥

मास्यष्टमे दुः खदे तु परे भुक्त्वाथ सोदकम् ।
पिण्डं प्रयात्सयौ तार्क्ष्य नानाक्रन्दपुरं ततः ॥१३०॥

प्रयाणे च प्रवदते मुसलाघातपीडितः ।
क्व जायाचटुलैश्चाटुपटुभिर्वचनैर्मम ॥१३१॥

भोजनं भल्लभल्लीभिर्मुसलैश्च क्व मारणम् ।
नवमे मासि दत्तं वै नानाक्रन्दपुरे ततः ॥१३२॥

पिण्डमश्राति करुणं नानाक्रन्दान् करोत्यपि ।
दशमे मासि दत्तं वै सुतप्तभवनं ततः ॥१३३॥

सरन्नेवं विलपते हलाहतिहतः पथि ।
क्व सूनुपेशलकरैः पादसंवाहनं मम ॥१३४॥

क्व दूतवज्रप्रतिमकैर्मत्पदकर्षणम् ।
दशमे मासि पिण्डादि तत्र भुक्त्वा प्रसर्पति ॥१३५॥

मासे चैकादशे पूर्णे पुरं रौद्रं स गच्छति ।
गच्छन्नेव विलपते यथा पृष्ठे प्रपीडितः ॥१३६॥

क्वाहं सतूलीशयने परिवर्तन् क्षणे क्षणे ।
भटहस्तभ्रष्टयष्टिकृष्टपृष्ठः क्व वा पुनः ॥१३७॥

क्षितौ दत्तञ्च पिण्डादि भुक्त्वा तत्र ततो व्रजेत् ।
पयोवर्षणमित्येतन्नामकं पुरमण्डज ॥१३८॥

व्रजन्नेवं विलपते कुठारैर्मूर्ध्नि ताडितः ।
क्व भृत्यकोमलकरैर्गन्धतैलावसेचनम् ॥१३९॥

क्व कीनाशानुगैः क्रोधात्कुठारैः शिरसि व्यथा ।
ऊनाब्दिकञ्च यच्छ्राद्धं तत्र भुङ्क्ते सुदुः खितः ॥१४०॥

संपूर्णे तु ततो वर्षे शीताढ्यं नगरं व्रजेत् ।
गच्छन्नेवं छुरिकया च्छिन्नजिह्वस्तु रोदिति ॥१४१॥

प्रियालापैः क्व च ससमधुरत्वस्य वर्णनम् ।
उक्तमात्रेऽसिपत्रादिजिह्वाच्छेदः क्व चैव हि ॥१४२॥

वार्षिकं पिण्डदानादि भुक्त्वा तत्र प्रसर्पति ।
बहुभीतिकरं तत्तत्पिण्डजं देवमास्थितः ॥१४३॥

प्रकाशयति पाप्पानमात्मानञ्च विनिन्दति ।
योषिदप्येवमेतस्मिन्मार्गे वै परिदेवति ॥१४४॥

ततो याम्यं नातिदूरे नगरं स हि गच्छति ।
चत्वारिंशद्योजनानि चतुर्युक्तानिविस्तृतम् ॥१४५॥

त्रयोदश प्रतीहाराः श्रवणा नाम तत्र वै ।
श्रवणाकर्मतस्तुष्यन्त्यन्यथा क्रोधमाप्नुयुः ॥१४६॥

ततस्तत्राशु रक्ताक्षं भिन्नाञ्जनचयोपमम् ।
मृत्युकालान्तकादीनां मध्ये पश्यति वै यमम् ॥१४७॥

दंष्ट्राकरालवदनं भृकुटीदारुणाकृतिम् ।
विरूपैर्भोषणैर्वक्त्रैर्वृतं व्याधिशतैः प्रभुम् ॥१४८॥

दण्डासक्तमहाबाहुं पाशहस्तं सुभैरवम् ।
तन्निर्दिष्टां ततो जन्तुर्गतिं याति शुभाशुभाम् ॥१४९॥

पापी पापां गतिं याति यथा ते कथितं पुरा ।
छत्रोपानहदातारो ये च वेश्मप्रदायकाः ॥१५०॥

ये तु पुण्यकृतस्तत्र ते पश्यन्ति यमं तदा ।
सौम्याकृतिं कुण्डलिनं मौलिमन्तं धृतश्रियम् ॥१५१॥

एकादशे द्वादशे हि षण्मासे आब्दिके तथा ।
विप्रान् बहून् भोजयेत्तत्र यन्महती क्षुधा ॥१५२॥

जीवन् पुत्रकलत्रादिप्रदिष्टमितरैः खग ।
यो न साधयति स्वार्थमेवं पश्चाद्धिखिद्यते ॥१५३॥

एतत्ते सर्वमाख्यातं संयमिन्यां यथागति ।
प्रोक्तमावर्षकृत्यं ते किमन्यच्छ्रोतुमिच्छसि ॥१५४॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वर्षकृत्ययमलोकमार्गयातनादिनिरूपणं नाम पञ्चमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:13.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

लावकि

  • n. विश्वामित्रकुलोत्पन्न एक गोत्रकार । 
RANDOM WORD

Did you know?

lagn lagat astana navarichi aai tulshila pani ghalte..te kashasathi..??? tya magcha udeshshy kay asto..?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.