TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः १८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १८
श्रीकृष्ण उवाच ।
श्रवणानां वचः श्रुत्वा क्षणं ध्यात्वा पुनस्ततः ।
यत्कृतं तु मनुष्यैश्चपुण्यं पापमहर्निशम् ॥१॥

तत्सर्वं च परिज्ञाय चित्रगुप्तो निवेदयेत् ।
चित्रगुप्तस्ततः सर्वं कर्म तस्मै वदत्यथ ॥२॥

वाचैव यत्कृतं कर्म कृतं चैव तु कायिकम् ।
मानसं च तथा कर्म कृतं भुङ्क्ते शुभाशुभम् ॥३॥

एवं ते कथितस्तार्क्ष्य प्रेतमार्गस्य निर्णयः ।
विश्रान्ति दानि सर्वाणि स्थानानि कथितानि ते ॥४॥

तमुद्दिश्य ददात्यन्नं सुखं याति महाध्वनि ।
दिवा रात्रौ तमुद्दिश्य स्थाने दीपप्रदो भवेत् ॥५॥

अन्धकारे महाघोरे श्वपूर्णे लक्ष्यवर्जिते ।
दीप्तेऽध्वनि च ते यान्ति दीपो दत्तश्च यैर्नरैः ॥६॥

कार्तिके च चतुर्दश्यां दीपदानं सुखाय वै ।
अथ वक्ष्यामि संक्षेपाद्यममार्गस्य निष्कृतिम् ॥७॥

वृषोत्सर्गस्य पुण्येन पितृलोकं स गच्छति ।
एकादशाहपिण्डेन शुद्धदेहो भवेत्ततः ॥८॥

उदकुम्भप्रदानेन किङ्करास्तृप्तिमाप्नुयुः ॥९॥

शय्यादानाद्बिमानस्थो याति स्वर्गेषु मानवः ।
तदह्नि दीयते सर्वं द्वादशाहे विशेषतः ॥१०॥

पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदशे ।
यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ॥११॥

तदाश्रितो महामार्गे वैनतेय स गच्छति ।
एक एवास्ति सर्वत्रे व्यवहारः खगाधिप ॥१२॥

उत्तमाधममध्यानां तत्तदावर्जनं भवेत् ।
यावद्भाग्यं भवेद्यस्य तावन्मार्गेऽतिरिच्यते ॥१३॥

स्वयं स्वस्येन यद्दत्तं तत्तत्राधिकरोति तम् ।
मृते यद्बान्धवैर्दत्तं तदाश्रित्य सुखी भवेत् ॥१४॥

गरुड उवाच ।
कस्मात्पदानि देयानि किंविधानि त्रयोदश ।
दीयते कस्य देवेश तद्वदस्व यथातथम् ॥१५॥

श्रीभगवानुवाच ।
छत्त्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः ।
आसनं भाजनं चैव पदं सप्तविधं स्मृतम् ॥१६॥

आतपस्तत्र यो रौद्रो दह्यते येन मानवः ।
छत्रदानेन सुच्छाया जायते प्रेततुष्टिदा ॥१७॥

असिपत्रवनं घोरं सोऽतिक्रामति वै ध्रुवम् ।
अश्वारूढाश्च गच्छन्ति ददते य उपानहौ ॥१८॥

आसने स्वागते (भोजने) चैव दत्तं तस्मै द्विजायते ।
सुखेन भुङ्क्ते स प्रेतः पथि गच्छञ्छनैः शनैः ॥१९॥

बहुधर्मसमाकीर्णे निर्वाते तोयवर्जिते ।
कमण्डलुप्रदानेन सुखी भवति निश्चितम् ॥२०॥

मृतोद्देशेन यो दद्यादुदपात्रं तु ताम्रजम् ।
प्रपादानसहस्रस्य तत्फलं सोऽश्नुते ध्रुवम् ॥२१॥

यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।
न पीडयन्ति दाक्षिण्याद्वस्त्राभारणदानतः ॥२२॥

सायुधा धावमानाश्च न मार्गे दृष्टिगोचराः ।
प्रयान्ति यमदूतास्ते मुद्रिकायाः प्रदानतः ॥२३॥

भाजनासनदानेन आमान्नभोजनेन च ।
आज्ययज्ञोपवीताभ्यां पदं सम्पूर्णतां व्रजेत् ॥२४॥

एवं मार्गे गच्छमानस्तृषार्तः श्रमपीडितः ।
महिषीरथ (दुग्ध) दानाच्च सुखी भवति निश्चितम् ॥२५॥

गरुड उवाच ।
मृतोद्देशेन यत्किञ्चिद्दीयते स्वगृहे विभो ।
स गच्छति महामार्गे तद्दत्तं केन गृह्यते ॥२६॥

श्रीभगवानुवाच ।
गृह्णाति वरुणो दानं मम हस्ते प्रयच्छति ।
अहं च भास्करे देवे भास्करात्सोऽश्नुते सुखम् ॥२७॥

विकर्मणः प्रभावेण वंशच्छेदे क्षिताविह ।
सर्वे ते नरकं यान्ति यावत्पापस्य संक्षयः ॥२८॥

कस्मिंश्चित्समये पूर्णे महिषासनसंस्थितः ।
नरकान्वीक्ष्य धर्मात्मा नानाक्रन्दसमाकुलान् ॥२९॥

चतुरशीतिलक्षाणां नरकाणां स ईश्वरः ।
तेषां मध्ये श्रेष्ठतमा घोरा या एकविंशतिः ॥३०॥

तामिस्त्रं लोहशङ्कुश्च महारौरवशाल्मली ।
रौरवं कुड्वलं कालसूत्रकं पूतिमृतिका ॥३१॥

सङ्घातं लोहतोदं च सविषं सम्प्रतापनम् ।
महानरककालोलः सजीवनमहापथः ॥३२॥

अवीचिरन्धता मिस्त्रः कुम्भोपाकस्तथैव च ।
असिपत्रवनं चैव पतनश्चैकविंशतिः ॥३३॥

येषां तु नरके घोरे बह्वब्दानि गतानि वै ।
सन्तातर्नैव विद्यते दूतत्वं ते तु (प्रेत्य) यान्ति हि ॥३४॥

यमेन प्रेषितास्ते वै मानुषस्य मृतस्य तु ।
दिनेदिने प्रगृह्णन्ति दत्तमन्नाद्यपानकम् ॥३५॥

प्रेतस्यैव विलुण्ठन्ति मध्ये मार्गे बुभुक्षिताः ।
मासान्ते भोजनं पिण्डमेके यच्छन्ति तत्र वै ॥३६॥

तृप्तिं प्रयान्ति ते सर्वे प्रत्यहं चैव वत्सरम् ।
एवमादिकृतैः पुण्यैः क्रमात्सौरिपुरं व्रजेत् ॥३७॥

ततः संवत्सरस्यान्ते प्रत्यासन्ने यमालये ।
बहुभीतकरे प्रेतो हस्तमात्रं समुत्सृजेत् ॥३८॥

दिवसैर्दशभिर्जातं तं देहं दशपिण्डजम् ।
जामदग्न्यस्येव रामं दृष्ट्वा तेजः प्रसर्पति ॥३९॥

कर्मजं देहमाश्रित्य पूर्वदेहं समुत्सजेत् ।
अङ्गुष्ठमात्रो वायुश्च शमीपत्रंसमारुहेत् ॥४०॥

व्रजंस्तिष्ठन्पदैकेन यथैवैकेन गच्छति ।
यथा तृणजलौकेव देही कर्मानुगोऽवशः ॥४१॥

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥४२॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मदृप्रेतदृश्रीकृष्णगरुड संवादे वृषोत्सर्गनानादानफलयमलोकगमनकर्मजदेहप्राप्तिनिरूपणं नामाष्टादशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:14.3970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

markings

  • न./अ.व. चिन्हे 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.