TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ३३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ३३
गरुड उवाच ।
उत्पत्तिलक्षणं जन्तोः कथितं मयि पुत्त्रके ।
यमलोकः कियन्मात्रस्त्रैलोक्ये सचराचरे ।
विस्तरं तस्य मे ब्रूहि अध्वा चैव कियान् स्मृतः ॥१॥

कैश्च पापैः कृतैर्देव केन वा शुभकर्मणा ।
गच्छन्ति मानवास्तत्र कथयस्व विशेषतः ॥२॥

श्रीभगवानुवाच ।
षटशीतिसहस्राणि योजनानां प्रमाणतः ।
यमलोकस्य चाध्वानमन्तरा मानुषस्य च ॥३॥

ध्मातताम्रमिवातप्तो ज्वलद्दुर्गो महापथः ।
तत्र गच्छन्ति पापिष्ठा मानवा मूढचेतसः ॥४॥

कण्टकाश्च सुतीक्ष्णा वै विविधा घोरदर्शनाः ।
तैस्तुवालुक्षितिर्व्याप्ता हुताशश्च तथोल्बणः ॥५॥

वृक्षच्छाया न तत्रास्ति यत्र विश्रमते नरः ।
गृहीतः कालपाशैश्च कृतैः कर्मभिरुल्बणैः ॥६॥

तस्मिन्मार्गे न चान्नाद्यं येन प्राणान् प्रपोषयेत् ।
न जलं दृश्यते तत्र तृषा येन विलीयते ॥७॥

क्षुधया पीडितो याति तृष्णया च महापथे ।
शीतेन कम्पते क्वापि यममार्गेऽतिदुर्गमे ॥८॥

यद्यस्य यादृशं पापं स पन्थास्तस्य तादृशः ।
सुदीनाः कृपणा मूढा दुः खैर्व्याप्तास्तरन्ति तम् ॥९॥

रुदन्ति दारुणं केचित्केचिद्द्रोहं वदन्ति च ।
आत्मकर्मकृतैर्देषैः पच्यमाना मुहुर्मुहुः ॥१०॥

ईदृग्विधः स वै पन्था विज्ञेयो दारुणः खग ।
वितृष्णा ये नरा लोके सुखं तस्मिन् व्रजन्ति ते ॥११॥

यानियानि च दानानि दत्तानि भुवि मानवैः ।
तानितान्युपतिष्ठन्ति यमलोके पुरः पथि ॥१२॥

पापिनो नोपतिष्ठन्ति दाहश्राद्धजलाञ्जलि ।
भ्रमन्ति वायुभूतास्ते ये क्षुद्राः पापकर्मिणः ॥१३॥

ईदृशं वर्त्म तद्रौद्रं कथितं तव सुव्रत ।
पुनश्च कथयिष्यामि यममार्गस्य या स्थितिः ॥१४॥

याम्यनैरृतयोर्मध्ये पुरं वैवस्वतस्य तु ।
सर्वं वज्रमयं दिव्यमभेद्यं तत्सुरासुरैः ॥१५॥

चतुरश्रं चतुर्द्वारं सप्तप्राकारतोरणम् ।
स्वयं तिष्ठति वै यस्यां यमो दूतैः समन्वितः ॥१६॥

योजनानां सहस्रं वै प्रमाणेन तदुच्यते ।
सर्वरत्नमयं दिव्यं विद्युज्ज्वालार्कतैजसम् ॥१७॥

तद्गुहं धर्मराजस्य विस्तीर्णं काञ्चनप्रभम् ।
योजनानां पञ्चशतप्रमाणेन समुच्छ्रितम् ॥१८॥

वृतं स्तम्भसहस्रैस्तु वैदूर्यमणिमण्डितम् ।
मुक्ताजालगवाक्षं च पताकाशतभूषितम् ॥१९॥

घण्टाशतनिनादाढ्यं तोरणानां शतैर्वृतम् ।
एवमादिभिरन्यैश्च भूषणैर्भूषितं सदा ॥२०॥

तत्रस्थो भगवान् धर्म आसने तु समे शुभे ।
दशयो जनविस्तीर्णे नीलजीमूतसन्निभे ॥२१॥

धर्मज्ञो धर्मशीलश्च धर्मयुक्तो हितो यमः ।
भयदः पापयुक्तानां धार्मिकाणां सुखप्रदः ॥२२॥

मन्दमारु तसंयोगैरुत्सवैर्विविधैस्तथा ।
व्याख्यानैर्विविधैर्युक्तः शङ्खवादित्रनिः स्वनैः ॥२३॥

पुरमध्यप्रवेशे तु चित्रगुप्तस्य वै गृहम् ।
पञ्चविंशतिसंख्यानां योजनानां सुविस्तरम् ॥२४॥

दशोच्छ्रितं महादिव्यं लोहप्राकारवोष्टितम् ।
प्रतोलीशतसंचारं पतताकाशतशोभितम् ॥२५॥

दीपिकाशतसङ्कीर्णं गीतध्वनिसमाकुलम् ।
विचित्रचित्रकुशलैश्चित्रगुप्तस्य वै गृहम् ॥२६॥

मणिमुक्तामये दिव्ये आसने परमाद्भुते ।
तत्रस्थो गणयत्यायुर्मानुषेष्वितरेषु च ॥२७॥

न मुह्यति कदाचित्स सुकृते दुष्कृतेऽपि वा ।
यद्येनोपार्जितं यावत्तावद्वै वेत्ति तस्य तत् ॥२८॥

दशाष्टदोषरहितं कृत कर्म लिखत्यसौ ।
चित्रगुप्तालयाताच्यां ज्वरस्यास्ति महागृहम् ॥२९॥

दक्षिणे चापि शूलस्य लताविस्फोटकस्य च ।
पश्चिमे काल पाशस्य अजीर्णस्यारुचेस्तथा ॥३०॥

मध्यपीठोत्तरे ज्ञेयो तथा चान्या विषचिका ।
ऐशन्यां वै शिरोऽर्तिश्च आग्नेय्याञ्चैव मृकता ॥३१॥

अतिसारश्च नैरृत्यां वायव्यां दाहसंज्ञकः ।
एभिः परिवृतो नित्यं चित्रगुप्तः स तिष्ठति ॥३२॥

यत्कर्म कुरुते कश्चित्तत्सर्वं विलखत्यसौ ।
धर्मराजगृहद्वारि दूतास्तार्क्ष्य तथा निशि ।
तिष्ठन्ति पापकर्माणः पच्यमाना नराधमाः ॥३३॥

यमदूतैर्महापाशैर्हन्यमानाश्च मुद्गरैः ।
वध्यन्ते विविधैः पापैः पूर्वकर्मकृतैर्नराः ॥३४॥

नानाप्रहारणाग्रैश्च नानायन्त्रैस्तथा परे ।
छिद्यन्ते पापकर्माणः क्रकचैः काष्ठवद्द्विधा ॥३५॥

अन्ये ज्वलद्भिरङ्गारैर्वेष्टिताः परितो भृशम् ।
पूर्वकर्मविपाकेन ध्मायन्ते लोहपिण्डवत् ॥३६॥

क्षिप्त्वान्ये च धरापृष्ठे कुठारेणावकर्तिताः ।
क्रन्दमानाश्च दृश्यन्ते पूर्वकर्मविपाकतः ॥३७॥

केचिद्गुडमयैः पाकैस्तैलपाकैस्तथा परे ।
पीड्यन्ते यमदूतैश्च पापिष्ठाः सुभृशं नराः ॥३८॥

क्षणाह्नि प्रार्थयन्त्यन्ये देहिदेहीति कोटिशः ।
यमलोके मया दृष्टा ममस्वं भक्षितं त्वया ॥३९॥

इत्येवं बहुशस्तार्क्ष्य नरकाः पापिनां स्मृताः ।
कर्मभिर्बहुभिः प्रोक्तैः सर्वशास्त्रेषु भाषितैः ।
दानोपकारं वक्ष्यामि यथा तत्र सुखं भवेत् ॥४०॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रतकल्पे श्रीकृष्णगरुडसंवादे यमलोकविस्तृतिदृवर्णनं नाम त्रयस्त्रिंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:15.2570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

recording sytem

  • अभिलेखन प्रणाली 
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.