TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ३२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ३२
तार्क्ष्य उवाच ।
कथमुत्पद्यते जन्तुर्भूतग्रामे चतुर्विधे ।
त्वचा रक्तं तथा मांसं मेदो मज्जास्थि जीवितम् ॥१॥

पादौ पाणी तथा गुह्यं जिह्वाकेशनखाः शिरः ।
सन्धिमार्गाश्च बहुशो रेखा नैकविधास्तथा ॥२॥

कामः क्रोधो भयं लज्जा मनो हर्षः सुखासुखम् ।
चित्रितं छिद्रितञ्चापि नानाजालेन वेष्टितम् ॥३॥

इन्द्रजालमिदं मन्ये संसारेऽसारसागरे ।
कर्ता कोऽत्र हृषीकेश संसारे दुः खसंकुले ॥४॥

श्रीविष्णुरुवाच ।
कथयामि परं गोप्यं कोशस्यास्य विनिर्णयम् ।
यस्य विज्ञानमात्रेण सर्वज्ञत्वं प्रज्यते ॥५॥

साधु पृष्टं त्वया लोके सदयं जीवकारणम् ।
वैनतेय शृणुष्व त्वमेकाग्रकृतमानसः ॥६॥

ऋतुकाले च नारीणां वर्ज्यं दिनचतुष्टयम् ।
यतस्तस्मिन् ब्रह्महत्यां पुरा वृत्रसमुत्थिताम् ॥७॥

ब्रह्मा शक्रात्समुत्तार्य चतुर्थांशेन दत्तवान् ।
तावन्नालोक्यते वक्त्रं पापं यावद्वपुः स्थितम् ॥८॥

प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ।
तृतीये रजकी ज्ञेया चतुर्थेऽहनि शुध्यति ॥९॥

सप्ताहात्पितृदेवानां भवेद्योग्या कृतार्चने ।
सप्ताहमध्ये यो गर्भस्तत्संम्भूतिर्मलिम्लुचा ॥१०॥

निषकसमये पित्रोर्यादृक्चित्तविकल्पना ।
तादृग्गर्भसमुत्पत्तिर्जायते नात्र संशयः ॥११॥

युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
पूर्वसप्तममुत्सृज्य तस्माद्युग्मासु संविशेत् ॥१२॥

षोडशर्तुर्निशाः स्त्रीणां सामान्यात्समुदाहृतः ।
या चतुर्दशमी रात्रिर्गर्भस्तिष्ठति तत्र चेत् ॥१३॥

गुणभाग्यनिधिः पुत्रस्तत्र जायेत धार्मिकः ।
सा निशा तत्र सामान्यैर्न लभ्येत खगाधिप ॥१४॥

प्रायशः सम्भवत्यत्र गर्भस्त्वष्टाहमध्यतः ।
पञ्चमेऽहनि नारीणां कार्यं माधुर्यभोजनम् ॥१५॥

कटुक्षारञ्च तीक्ष्णञ्च त्याज्यमुष्णञ्च दूरतः ।
तत्क्षेत्रमोषधीपात्रं बीजञ्चाप्यमृतायितम् ॥१६॥

तस्मिन्नुप्त्वा नरः स्वामी सम्यक्फलमवाप्नुयात् ।
तस्याश्चैवातपो वर्ज्य शीतलं केवलं चरेत् ॥१७॥

ताम्बूलपुष्पश्रीखण्डैः संयुक्तः शुचिवस्त्रभृत् ।
धर्ममादाय मनसि सुतल्पं संविशेत्पुमान् ॥१८॥

निषेकसमये यादृङ्नरचित्तविकल्पना ।
तादृक्स्वभावसम्भूतिर्जन्तुर्विशति कुक्षिगः ॥१९॥

शुक्रसोणितसंयोगे पिण्डोत्पत्तिः प्रजायते ।
वर्धते जठरे जन्तुस्तारापतिरिवाम्बरे ॥२०॥

चैतन्यं बीजरूपं हि शुक्रे नित्यं व्यवस्थितम् ।
कामश्चित्तञ्च शुक्रञ्च यदा ह्येकत्वमाप्नुयुः ॥२१॥

तदा द्रावमवाप्नोति योषागर्भाशये नरः ।
रक्ताधिक्ये भवेन्नारी शुक्राधिक्ये भवेत्पुमान् ॥२२॥

शुक्रसोणितयो साम्ये गर्भाः षण्डत्वमाप्नुयुः ।
अहोरात्रेण कलिलं बुद्वदं पञ्चभिदिनैः ॥२३॥

चतुर्दशे भवेन्मांसं मिश्रधातुसमन्वितम् ।
घनं मांसञ्च विंशाहे गर्भस्थो वर्धते क्रमात् ॥२४॥

पञ्चविंशतिमे चाह्नि बलं पुष्टिश्च जायते ।
तथा मासे तु सम्पूर्णे पञ्चतत्त्वं निधारयेत् ॥२५॥

मासद्वये तु सञ्जाते त्वचा मेदश्च जायते ।
मज्जास्थीनि त्रिभिर्मासैः केशाङ्गुल्यश्चतुर्थके ॥२६॥

कर्णौ च नासिके वक्षो जायेरन्मासि पञ्चमे ।
कण्ठरन्ध्रोदरं षष्ठे गुह्यादिर्मासि सप्तमे ॥२७॥

अङ्गप्रत्यङ्गसम्पूर्णो गर्भो मासैरथाष्टभिः ।
अष्टमे चलते जीवो धात्रीगर्भे पुनः पुनः ।
नवमेमासि सम्प्राप्ते गर्भस्थौजौ दृढं भवेत् ॥२८॥

चिकित्सा जायते तस्य गर्भवासपरिक्षये ।
नारी वाथ नरो वाथ नपुंस्त्वं वाभिजायते ॥२९॥

शक्तित्रयं विशालाक्षं षाट्कौशिकसमायुतम् ।
पञ्चेन्द्रियसमोपेतं दशनाडीविभूषितम् ॥३०॥

दशप्राणगुणोपेतं यो जानाति स योगवित् ।
मज्जास्थिशुक्रमांसानि रोम रक्तं बलं तथा ॥३१॥

षाट्कौशिकमिदं पिण्डं स्याज्जन्तोः पाञ्चभौतिकम् ।
नवमे दशमे मासि जायते पाञ्चभौतिकः ॥३२॥

सूतिवातैः समाकृष्टः पीडया विह्वलीकृतः ।
पुष्टो नाड्याः सुषुम्णाया योषिद्गर्भस्थितस्त्वरन् ॥३३॥

क्षितिर्वारि हविर्भोक्ता पवनाकाशमेव च ।
एभिर्भूतैः पीडितस्तु निबद्धः स्नायुबन्धनैः ॥३४॥

मूलभूता इमे प्रोक्ताः सप्त नाड्यन्तरे स्थिताः ।
त्वचास्थिनाड्यो रोमाणि मांसञ्चैवात्र पञ्चमम् ॥३५॥

एते पञ्च गुणाः प्रोक्ता मया भूमेः खगेश्वर ।
यथा पञ्च गुणाश्चापस्तथा तच्छृणु काश्यप ॥३६॥

लाला मूत्रं तथा शुक्रं मज्जार रक्तञ्च पञ्चमम् ।
आपः पञ्चगुणाः प्रोक्ता ज्ञातव्यास्ते प्रयत्नतः ॥३७॥

क्षुधा तृषा तथा निद्रा आलस्यं कान्तिरेव च ।
तेजः पञ्चगुणं प्रोक्तं तार्क्ष्य सर्वत्रयोगिभिः ॥३८॥

रागद्वेषौ तथा लज्जा भयं मोहस्तथैव च ।
इत्येतत्कथितं तार्क्ष्य वायुजं गुणपञ्चकम् ॥३९॥

आकुञ्चनं धावनञ्च लङ्घनञ्च प्रसारणम् ।
निरोधः पञ्चमः प्रोक्तो वायोः पञ्च गुणाः स्मृताः ॥४०॥

घोषश्चिन्ता च गाम्भीर्यं श्रवणं सत्यसंक्रमः ।
आकाशस्य गुणाः पञ्च ज्ञात व्यास्तार्क्ष्य यत्नतः ॥४१॥

श्रोत्रं त्वक्चक्षुषी जिह्वा नासा बुद्धीन्द्रियाणि च ।
पाणी पादौ गुदं प्राक्च गुह्यं कर्मेन्द्रियाणि च ॥४२॥

इडाच पिङ्गला चैव सुषुम्णा च तृतीयका ।
गान्धारी गजजिह्वा च पूषा चैव यसा तथा ॥४३॥

अलम्वुशा कुहूश्चैव शङ्खिनी दशमी स्मृता ।
पिण्ड मध्ये स्थिता ह्येताः प्रधाना दश नाडयः ॥४४॥

प्राणापानौ समानश्च उदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥४५॥

इत्येते वायवः प्रोक्ता दश देहेषु सुस्थिताः ।
केवलं भुक्तमन्नञ्च पुष्टिदं सर्वदेहिनाम् ॥४६॥

नयते प्राणदो वायुः शरीरे सर्वसन्धिषु ।
आहारो भुक्तमात्रस्तु वायुना क्रियते द्विधा ॥४७॥

स प्रविश्य गुहे सम्यक्पृथगन्नं पृथग्जलम् ।
ऊर्ध्वमग्नेर्जलं कृत्वा तदन्नञ्च जलोपरि ॥४८॥

अग्नेश्चाधः स्वयं प्राणस्तमग्निञ्च धमेच्छनैः ।
वायुना धम्यमानोऽग्निः पृथक्किट्टं पृथग्रसम् ॥४९॥

मलैर्द्वादशभिः किट्टं भिन्नं देहात्पृथग्भवेत् ।
कर्णाक्षिनासिका जिह्वा दन्तनाभिवपुर्गुदम् ॥५०॥

नखा मलाश्रया ह्येते विण्मूत्रञ्चेत्यनन्तकम् ।
शुक्रशोणितसंयोगादेतत्षाट्कौशिकं स्मृतम् ॥५१॥

रोम्णां कोट्यस्तथा तिस्रोऽप्यर्धकोटि समन्विताः ।
द्वात्रिंशद्दशनाः प्रोक्ताः सामान्याद्विनतासुत ॥५२॥

सप्त लक्षाणि केशाः स्युर्नखाः प्रोक्तास्तु विंशतिः ।
मांसं पलसहस्रैकं सामान्याद्देहसंस्थितम् ॥५३॥

रक्तं पलशतं तार्क्ष्यं बुद्धमेव पुरातनैः ।
पलानि दश मेदश्च त्वचा चैव तु तत्समा ॥५४॥

पलद्वादशकं मज्जा महारक्तं पलत्रयम् ।
शुक्रं द्विकुडवं ज्ञेयं शोणितं कुडवं स्मृतम् ॥५५॥

श्लेष्माणश्च षडूर्ध्वञ्च विण्मूत्रं तत्प्रमाणतः ।
अस्थ्नां हि ह्यधिकं प्रोक्तं षष्ट्युत्तरशतत्रयात् ॥५६॥

एवं पिण्डः समाख्यातो वैभवं सम्प्रचक्ष्महे ।
सुखं दुः खं भयं क्षेमं कर्मणैव हि प्राप्यते ॥५७॥

अधोमुखं चोर्ध्वपादं गर्भाद्वायुः प्रकर्षति ।
तले तु करयोर्न्यस्य वर्धते जानुपार्श्वयोः ॥५८॥

अङ्गुष्ठौ चोपरि न्यस्तौ जान्वारेथ कराङ्गुली ।
जानुपृष्ठे तथा नेत्रे जानुमध्ये च नासिका ॥५९॥

एवं वृद्धिं क्रमाद्याति जन्तुः स्त्रीगर्भसंस्थितः ।
काठिन्यमस्थीन्यायान्ति भुक्तपीतेन जीवति ॥६०॥

नाडी वाप्यायनी नाम नाभ्यां तत्र निबध्यते ।
स्त्रीणां तथान्त्रसुषिरे स निबद्धः प्रजायते ॥६१॥

क्रामन्ति भुक्तपीतानि स्त्रीणां गर्भोदरे तथा ।
तैराप्यायितदेहोऽसौ जन्तुर्वृद्धिमुपैति च ॥६२॥

स्मृत्यस्तत्र प्रयान्त्यस्य बह्व्यः संसारभूतयः ।
ततो निर्वेदमायाति पीड्यमान इतस्ततः ॥६३॥

पुनर्नैवं करिष्यामि भुक्तमात्र इहोदरात् ।
तथातथा यतिष्यामि गर्भं नाप्नोम्यहं यथा ॥६४॥

इति सञ्चिन्तयञ्जीवो स्मृत्वा जन्मशतानि वै ।
यानि पूर्वानुभूतानि देवभूतात्मजानि वै ॥६५॥

ततः कालक्रमाज्जन्तुः परिवर्त्यत्वधोमुखः ।
नवमे दशमे वापि मासि संजायते ततः ॥६६॥

निष्क्रम्यमाणो वातेन प्राजापत्येन पीड्यते ।
निष्क्रमते च विलपंस्तदा दुःखनिपीडितः ॥६७॥

निष्क्रामंश्चोदरान्मूर्छामसह्यां प्रतिपद्यते ।
प्राप्नोति चेतनां चासौ वायुस्पर्शसुखान्वितः ॥६८॥

ततस्तं वैष्णवी माया समास्कन्दति मोहिनी ।
तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुते ॥६९॥

भ्रष्टज्ञानं बालभावे ततो जन्तुः प्रपद्यते ।
ततः कौमारकावस्थां यौवनं वृद्धतामपि ॥७०॥

पुनश्च तद्वन्मरणं जन्म प्राप्नोति मानवः ।
ततः संसारचक्रेऽस्मिन् भ्राम्यते घटयन्त्रवत् ॥७१॥

कदाचित्स्वर्गमाप्नोति कदाचिन्निरयं नरः ।
स्वर्गं च निरयं चैव स्वकर्मफलमश्नुते ॥७२॥

कदाचिद्भुक्तकर्मा च भुवं स्वल्पेन गच्छति ।
स्वर्लोके नरके चैव भुक्तप्राये द्विजोत्तमाः ॥७३॥

नरकेषु महद्दुःखमेतद्यत्स्वर्गवासिनः ।
दृश्यते नात्र मोदन्ते पात्यमानास्तु नारकैः ॥७४॥

स्वर्गेऽपि दुः खमतुलं यदारोहणकालतः ।
प्रभृत्यहं पतिष्यामीत्येतन्मनसि वर्तते ॥७५॥

नार कांश्चैव सम्प्रेक्ष्य महद्दुः खमवाप्यते ।
एवं गतिमहं गन्तेत्यहर्निशमनिर्वृतः ॥७६॥

गर्भवासे महद्दुः खं जायमानस्य योनिजम् ।
जातस्य बालभावेऽपि वृद्धत्वे दुःखमेव च ॥७७॥

कामेर्ष्याक्रोधसम्बन्धाद्यौवनेऽपि च दुः सहम् ।
दुःस्वप्नं या वृद्धता च मरणे दुः खमुत्कटम् ॥७८॥

कृष्यमाणश्च याम्यैः स नरकेऽपि च यात्यधः ।
पुनश्च गर्भाज्जन्म स्यान्मरणं दुष्करं तथा ॥७९॥

एवं संसारचक्रेऽस्मिज्जन्तवो घटयन्त्रवत् ।
भ्राम्यन्ते प्राक्तनैर्बधैर्बद्धा विध्यन्ति चासकृत् ॥८०॥

नास्ति पक्षिन्सुखं किञ्चित्क्षेत्रे दुः खशताकुले ।
विनतासुत मोक्षाय यतितव्यं ततो नरैः ॥८१॥

एतत्ते सर्वमाख्यातं यथा गर्भस्य संस्थितिः ।
कथयामि क्रमप्रश्रं पृष्टं वा वर्तते स्पृहा ॥८२॥

गरुड उवाच ।
मध्ये कृतमहाप्रश्रद्वयस्याप्तं मयोत्तरम् ।
प्रश्रस्यापि तृतीयस्य उत्तरं च विधीयताम् ॥८३॥

श्रीकृष्ण उवाच ।
म्रियमाणस्य किं कृत्यमिति त्वं पृष्टवानसि ।
शृणु तत्रोत्तरं तूक्तं कथयामि समासतः ॥८४॥

आसन्नमरणं ज्ञात्वा पुरुषं स्नापयेत्ततः ।
गोमूत्रगोमयसुमृत्तीर्थोदककुशोदकैः ॥८५॥

वाससी परिधार्याथ धौते तु शुचि नी शुभे ।
दर्भाण्यादौ समास्तीर्य दक्षिणाग्रान्विकीर्य च ॥८६॥

तिलान् गोमयलिप्तायां भूमौ तत्र निवेशयेत् ॥८७॥

प्रागुदक्शिरसं वापि मुखे स्वर्णं विनिः क्षेपेत् ।
शालग्रामशिला तत्र तुलसी च खगेश्वर ॥८८॥

विधेया सन्निधौ सर्पिर्दीपं प्रज्वालयेत्पुनः ।
नमो भगवते वासुदेवायेति जपस्तथा ॥८९॥

आदौ तु प्रणवं कृत्वा पूजादाने ततः स्मृते ।
समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः ॥९०॥

प्रणिपातैः स्तवैः पुण्यैर्ध्या नयोगेन पूजयेत् ।
दत्त्वा दानं च विप्रेभ्यो दीनानाथेभ्य एव च ॥९१॥

पुत्त्रे मित्रे कलत्रे च क्षेत्रधान्यधनादिषु ।
निवर्तयेन्ममत्वं च विष्णोः पादौ हृदि स्मरन् ॥९२॥

उच्चैः पुरुषसूक्तं च यदि श्रेष्ठापदस्तदा ।
पुत्त्राद्याः प्रपठेयुस्ते म्रियमाणे निजे जने ॥९३॥

एतत्ते सर्वमाख्यातं कृत्यं मृत्यावुपस्थिते ।
फलमप्यस्य कृत्स्नस्य समासात्ते वदाम्यहम् ॥९४॥

स्नानेन शुचिताप्राप्तिरपावित्र्यहृतिस्ततः ।
ततो विष्णोः स्मृतिस्तस्य ज्ञानात्सर्वफलप्रदा ॥९५॥

दर्भतूली नयेत्स्वर्गमातुरं तु न संशयः ।
तिलैर्दर्भैश्च निः क्षिप्तैः स्नानं क्रतुमयं भवेत् ॥९६॥

ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशस्तथैव च ।
मण्डले चोपतिष्ठन्ति तस्मात्कुर्वीत मण्डलम् ॥९७॥

प्रागुदग्वा कृतेनेह शिरसा लोकमुत्तमम् ।
व्रजते यदि पापस्याल्पत्वं पुंसो भवेत्खग ॥९८॥

पञ्चरत्ने मुखे मुक्ते जिवे ज्ञानं प्ररोहति ।
तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग ॥९९॥

पञ्च प्रवहणान्येव भवाब्धौ मज्जतां नृणाम् ।
विष्णुरेकादशी गीता तुलसी विप्रधेनवः ॥१००॥

असारे दुर्गसंसारे षट्पदी भक्तिदायिनी ।
नमो भगवते वासुदेवायेति जपन्नरः ॥१०१॥

ओङ्कारपूर्वं सायुज्यं प्राप्नुयान्नात्र संशयः ।
पूजयापि च मल्लोकप्राप्तिराराद्दिवं व्रजेत् ॥१०२॥

बन्धाभावे ममत्वेतु ज्ञानं पुरुषसूक्ततः ।
यस्ययस्याधिकत्वं तु साधनेष्वेषु काश्यप ॥१०३॥

तत्तत्फलस्याप्याधिक्यं भवतीत्यवधारय ।
दातव्यानि यथाशक्त्या प्रीतोऽसौ सर्वदा भवेत् ॥१०४॥

एतत्ते सर्वमाख्यातं स्नानादिषु फलं मया ।
ब्रह्माण्डे ये गुणाः सन्ति शरीरे ते व्यवस्थिताः ॥१०५॥

पातालभूधरा लोकास्तथान्ये द्वीपसागराः ।
आदित्यादिग्रहाः सर्वे पिण्डमध्ये व्यवस्थिताः ॥१०६॥

पादाधस्तु तलं ज्ञेयं पादोर्ध्वं वितलं तथा ।
जानुभ्यां सुतलं विद्धि सक्थिदेशे महातलम् ॥१०७॥

तथा तलातलञ्चोरौ गुह्यदेशे रसातलम् ।
पातालं कटिसंस्थन्तु पादादौ लक्षयेद्बुधः ॥१०८॥

भूर्लोकं नाभिमध्ये तु भुवर्लोकं तदूर्ध्वतः ।
स्वर्गलोकं हृदये विद्यात्कण्ठदेशे महस्तथा ॥१०९॥

जनलोकं वक्त्रदेशे तपोलोकं ललाटके ।
सत्यलोकं महारन्ध्रे भुवनानि चतुर्दश ॥११०॥

त्रिकोणे संस्थितो मेरुरधः कोणे च मन्दरः ।
दक्षिणे चेव कैलासो वामभागे हिमाचलः ॥१११॥

निषधश्चोर्ध्वभागे च दक्षिणे गन्धमादनः ।
मलयो (रमणो) वामरेखायां सप्तैते कुलपर्वताः ॥११२॥

अस्थिस्थाने स्थितो जम्बूः शाको मज्जासु संस्थितः ।
कुशद्वीपः स्थितो मांसे क्रौञ्चद्वीपः शिरास्थितः ॥११३॥

त्वचायां शाल्मलिद्वापो प्लक्षः रोम्णां च सञ्चये ।
नखस्थः पुष्करद्वीपः सागरास्तदनन्तरम् ॥११४॥

क्षारोदश्च तथा मूत्रे क्षारे क्षीरोदसागरः ।
सुरोदधिश्च श्लेष्मस्थः मज्जायां घृतसागरः ॥११५॥

रसोदधिं रसे विद्याच्छोणिते दधिसगरम् ।
स्वादुलं लम्बिकास्थाने गर्भोदं शुक्रसंस्थितम् ॥११६॥

नादचक्रे स्थितः सूर्यो बिन्दुचक्रे च चन्द्रमाः ।
लोचनस्थः कुजो ज्ञेयो हृदये च बुधः स्मृतः ॥११७॥

विष्णुस्थाने गुरुं विद्याच्छ्रुक्रे शुक्रो व्यवस्थितः ।
नाभिस्थाने स्थितो मन्दो मुखे राहुः स्थितः सदा ॥११८॥

पायु (द) स्थाने स्थितः केतुः शरीरे ग्रहमण्डलम् ।
विभक्तञ्च समाख्यातमापादतलमस्तकम् ॥११९॥

उत्पन्ना ये हि संसारे म्रियन्ते ते न संशयः ।
बुभुक्षा च तृषा रौद्रा दाहोद्भूता च मूर्छना ॥१२०॥

यत्र पीडास्त्विमा रौद्रास्ता वै वृश्चिकदंशजाः ।
विनाशः पूर्णकाले च जायते सर्वदेहिनाम् ॥१२१॥

अग्रे अग्रे हि धावन्ति यमलोकगतस्यवै ।
तप्तवालुकमध्येन प्रज्वलद्वह्निमध्यतः ॥१२२॥

केशग्राहैः समाक्रान्ता नीयन्ते यमकिङ्करैः ।
पापिष्ठास्त्वधमास्तार्क्ष्य दयाधर्मविविर्जिताः ॥१२३॥

यमलोके वसन्त्येते कुट्यां जन्म न विद्यते ।
एवं सञ्जायते तार्क्ष्य मर्त्ये जन्तुः स्वकर्मभिः ॥१२४॥

उत्पन्ना ये हि संसारे म्रियन्ते ते न संशयः ।
आयुः कर्म च वित्तञ्च विद्या निधनमेव च ॥१२५॥

पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ।
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ॥१२६॥

सुखं दुः खं भयं क्षेमं कर्मणैवाभिपद्यते ।
अधोमुखं चोर्ध्वपादं गर्भाद्वायुः प्रकर्षति ॥१२७॥

जन्मतो वैष्णवी माया संमोहयति सत्वरम् ।
स्वकर्मकृतसम्बन्धो जन्तुर्जन्म प्रपद्यते ॥१२८॥

सुकृतादुत्तमो भोगभोग्यवान् सुकुले भवेत् ।
यथायथा दुष्कृतं तत्कुले हीने प्रजायते ॥१२९॥

दरिद्रो व्याधितो मूर्खः पापकृद्दुः खभाजनम् ।
अतः परं किमर्थं ते कथयामि खगेश्वर ॥१३०॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धर्मदृप्रेतदृश्रीकृष्णगरुडसंवादे जन्तूत्पत्तितद्गधात्वादिविभागभुवनादिविभागवर्णनं नाम द्वात्रिंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:15.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

recurved

  • Bot.(bent or curved backwards) पुनर्वक्र 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.