TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
समाधिलक्षणम्

सर्ववेदसारसंग्रहः - समाधिलक्षणम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


समाधिलक्षणम्

समाधिसुप्त्योर्ध्यानं चाज्ञानं सुप्त्यात्र नेष्यते ।

सविकल्पो निर्विकल्पः समाधिर्द्वाविमौ हृदि ॥८२७॥

मुमुक्षोर्यत्नतः कार्यौ विपरीतनिवृत्तये ।

कृतेऽस्मिन्विपरीताया भावनाया निवर्तनम् ॥८२८॥

ज्ञानस्याप्रतिबद्धत्त्वं सदानन्दश्च सिद्ध्यति ।

दृश्यानुविद्धः शब्दानुविद्धश्चेति द्विधा मतः ॥८२९॥

सविकल्पस्तयोर्यत्तलक्षणं वच्मि तच्छृणु ।

कामादिप्रत्ययैर्दृश्यैः संसर्गो यत्र दृश्यते ॥८३०॥

सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः ।

अहंममेदमित्यादिकामक्रोधादिवृत्तयः ॥८३१॥

दृश्यन्ते येन संदृष्टा दृश्याः स्युरहमादयः ।

कामादिसर्ववृत्तीनां द्रष्टारमविकारणम् ॥८३२॥

साक्षिणं स्वं विजानीयाद्यस्ताः पश्यति निष्क्रियः ।

कामादीनामहं साक्षी दृश्यन्ते ते मया ततः ॥८३३॥

इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम् ।

दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥८३४॥

नाहं देहो नाप्यसुर्नाक्षवर्गो

नाहंकारो नो मनो नापि बुद्धिः ।

अन्तस्तेषां चापि तद्विक्रियाणां

साक्षी नित्यः प्रत्यगेवाहमस्मि ॥८३५॥

वाचः साक्षी प्राणवृत्तेश्च साक्षी

बुद्धेः साक्षी बुद्धिवृत्तेश्च साक्षी ।

चक्षुःश्रोत्रादीन्द्रियाणां च साक्षी

साक्षी नित्यः प्रत्यगेवाहमस्मि ॥८३६॥

नाहं स्थूलो नापि सूक्ष्मो न दीर्घो

नाहं बालो नो युवा नापि वृद्धः ।

नाहं काणो नापि मूको न षण्डः

साक्षी नित्यः प्रत्यगेवाहमस्मि ॥८३७॥

नास्म्यागन्ता नापि गन्ता न हन्ता

नाहं कर्ता न प्रयोक्ता न वक्ता ।

नाहं भोक्ता नो सुखी नैव दुःखी

साक्षी नित्यः प्रत्यगेवाहमस्मि ॥८३८॥

नाहं योगी नो वियोगी न रागी

नाहं क्रोधी नैव कामी न लोभी ।

नाहं बद्धो नापि युक्तो न मुक्तः

साक्षी नित्यः प्रत्यगेवाहमस्मि ॥८३९॥

नान्तःप्रज्ञो नो बहिःप्रज्ञको वा

नैव प्रज्ञो नापि चाप्रज्ञ एषः ।

नाहं श्रोता नापि मन्ता न बोद्धा

साक्षी नित्यः प्रत्यगेवाहमस्मि ॥८४०॥

न मेऽस्ति देहेन्द्रियबुद्धियोगो

न पुण्यलेशोऽपि न पापलेशः ।

क्षुधापिपासादिषडूर्मिदूरः

सदा विमुक्तोऽस्मि चिदेव केवलः ॥८४१॥

अपाणिपादोऽहमवागचक्षुषी

अप्राण एवास्म्यमना ह्यबुद्धिः ।

व्योमेव पूर्णोऽस्मि विनिर्मलोऽस्मि

सदैकरूपोऽस्मि चिदेव केवलः ॥८४२॥

इति स्वमात्मानमवेक्षमाणः

प्रतीतदृश्यं प्रविलापयन्सदा ।

जहाति विद्वान्विपरीतभावं

स्वाभाविकं भ्रान्तिवशात्प्रतीतम् ॥८४३॥

विपरीतात्मतास्फूर्तिरेव मुक्तिरितीर्यते ।

सदा समाहितस्यैव सैषा सिद्ध्यति नान्यथा ॥८४४॥

न वेषभाषाभिरमुष्य मुक्ति -

र्या केवलाखण्डचिदात्मना स्थितिः ।

तत्सिद्धये स्वात्मनि सर्वदा स्थितो

जह्यादहंतां ममतामुपाधौ ॥८४५॥

स्वात्मतत्त्वं समालम्ब्य कुर्यात्प्रकृतिनाशनम् ।

तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ॥८४६॥

ज्ञात्वा देवं सर्वपाशापहानिः

क्षीणैः क्लेशैर्जन्ममृत्युप्रहानिः ।

इत्येवैषा वैदिकी वाग्ब्रवीति

क्लेशक्षत्यां जन्ममृत्युप्रहानिम् ॥८४७॥

भूयो जन्माद्यप्रसक्तिर्विमुक्तिः

क्लेशक्षत्यां भाति जन्माद्यभावः ।

क्लेशक्षत्या हेतुरात्मैकनिष्ठा

तस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः ॥८४८॥

क्लेशाः स्युर्वासना एव जन्तोर्जन्मादिकारणम् ।

ज्ञाननिष्ठाग्निना दाहे तासां नो जन्महेतुता ॥८४९॥

बीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः ।

ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः ॥८५०॥

तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः ।

निःशेषवासनाक्षत्यै विपरीतनिवृत्तये ॥८५१॥

ज्ञाननिष्ठातत्परस्य नैव कर्मोपयुज्यते ।

कर्मणो ज्ञाननिष्ठाया न मिध्यति सहस्थितिः ॥८५२॥

परस्परविरुद्धत्वात्तयोर्भिन्नस्वभावयोः ।

कर्तृत्वभावनापूर्वं कर्म ज्ञानं विलक्षणम् ॥८५३॥

देहात्मबुद्धेर्विच्छित्त्यै ज्ञानं कर्म विवृद्धये ।

अज्ञानमूलकं कर्म ज्ञानं तु भयनाशकम् ॥८५४॥

ज्ञानेन कर्मणो योगः कथं सिद्ध्यति वैरिणा ।

सहयोगो न घटते यथा तिमिरतेजसोः ॥८५५॥

निमेषोन्मेषयोर्वापि तथैव ज्ञानकर्मणोह् ।

प्रतीचिं पश्यतः पुंसां कुतः प्रचीविलोकनम् ।

प्रत्यक्प्रवणचित्तस्य कुतः कर्मणि योग्यता ॥८५६॥

ज्ञानैकनिष्ठानिरतस्य भिक्षो -

र्नैवावकाशोऽस्ति हि कर्मतन्त्रे ।

तदेव कर्मास्य तदेव सन्ध्या

तदेव सर्वं न ततोऽन्यदस्ति ॥८५७॥

बुद्धिकल्पितमालिन्यक्षालनं स्नानमात्मनः ।

तेनैव शुद्धिरेतस्य न मृदा न जलेन च ॥८५८॥

स्वस्वरूपे मनःस्थानमनुष्ठानं तदिष्यते ।

करणत्रयसध्यं यत्तन्मृषा तदसत्यतः ॥८५९॥

विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः ।

सा सन्ध्या तदनुष्ठानं तद्दानं तद्धि भोजनम् ॥८६०॥

विज्ञातपरमार्थानां शुद्धसत्त्वात्मनां सताम् ।

यतीनां किमनुष्ठानं स्वानुसन्धिं विनापरम् ॥८६१॥

तस्मात्क्रियान्तरं त्यक्त्वा ज्ञाननिष्ठापरो यतिः ।

सदात्मनिष्ठया तिष्ठेन्निश्चलस्तत्परायणः ॥८६२॥

कर्तव्यं स्वोचितं कर्म योगमारोढुमिच्छता ।

आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥८६३॥

योगं समारोहति यो मुमुक्षुः

क्रियान्तरं तस्य न युक्तमीषत् ।

क्रियान्तरासक्तमनाः पतत्यसौ

तालद्रुमारोहणकर्तृवद्ध्रुवम् ॥८६४॥

योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः ।

नास्त्येव हि बहिर्दृष्टिः का कथा तत्र कर्मणाम् ।

दृश्यानुविद्धः कथितः समाधिः सविकल्पकः ॥८६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:14.0700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

VIKARṆA II(विकर्ण)

RANDOM WORD

Did you know?

हिंदू स्त्रियांच्या मंगळसूत्रातील काळ्या मण्यांचे महत्त्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.