संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
सूक्ष्मदेहः

सर्ववेदसारसंग्रहः - सूक्ष्मदेहः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि ।

स्थूलान्यपि च भूतानि चान्योन्यंशविमेलनात् ॥३३८॥

अपञ्चीकृतभूतेभ्यो जातं सप्तदशाङ्गकम् ।

संसारकारणं लिङ्गमात्मनो भोगसाधनम् ॥३३९॥

श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम् ।

प्राणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥३४०॥

श्रोत्रवक्चक्षुर्जिव्हाघ्राणानि पञ्च जातानि ।

आकाशादीनां सत्त्वांशेभ्यो धीन्द्रियाण्यनुक्रमतः ॥३४१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP