संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
वस्तु-विवेक

सर्ववेदसारसंग्रहः - वस्तु-विवेक

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


ब्रह्मैव नित्यमन्यत्तु ह्यनित्यमिति वेदनम् ।

सोऽयं नित्यानित्यवस्तुविवेक इति कथ्यते ॥१६॥

मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात् ।

घटाद्यनित्यं तत्कार्यं यतस्तन्नाश ईक्ष्यते ॥१७॥

तथैवतज्जगत्सर्वमनित्यं ब्रह्मकार्यतः ।

तत्कारणं परं ब्रह्म भवेन्नित्यं मृदादिवत् ॥१८॥

सर्गं वक्त्यस्य तस्माद्वा एतस्मादित्यपि श्रुतिः ।

सकाशाद्ब्रह्मणस्तस्मादनित्यत्वे न संशयः ॥१९॥

सर्वस्यानित्यत्वे सावयवत्वेन सर्वतःसिद्धे ।

वैकुण्ठादिषु नित्यत्वमतिर्भ्रम एव मूढबुद्धिनाम् ॥२०॥

अनित्यत्वं च नित्यत्वमेवं यच्छृतियुक्तिभिः ।

विवेचनं नित्यानित्यविवेक इति कथ्यते ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP