संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
सप्तभूमिकाः

सर्ववेदसारसंग्रहः - सप्तभूमिकाः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


श्रीगुरुः -

वक्ष्ये तुभ्यं ज्ञानभूमिकाया लक्षणमादितः ।

ज्ञाते यस्मिंस्त्वया सर्वं ज्ञातं स्यात् पृष्टमद्य यत् ॥९३८॥

ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता ।

विचारणा द्वितीया तु तृतीया तनुमानसी ॥९३९॥

सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।

पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥९४०॥

स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः ।

वैराग्यपूर्वमिच्छेति शुभेच्छा चोच्यते बुधैः ॥९४१॥

शास्त्रसज्जनसंपर्कवैराग्याभासपूर्वकम् ।

सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥९४२॥

विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वरक्तता ।

यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥९४३॥

भूमिकात्रितयाभ्यासाच्चित्तेऽर्थविरतेर्वशात् ।

सत्त्वात्मनि स्थिते शुद्धे सत्त्वापतीरुदाहृता ॥९४४॥

दशाचतुष्टयाभ्यासादसंसर्गफला तु या ।

रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥९४५॥

भूमिकापञ्चिकाभ्यासात्स्वात्मारामतया भृशम् ।

आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥९४६॥

परप्रयुक्तेन चिरप्रयत्नेनावबोधनम् ।

पदार्थभावना नाम षष्ठी भवति भूमिका ॥९४७॥

षड्भूमिकाचिराभ्यासाद्भेदस्यानुपलम्भनात् ।

यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥९४८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP