TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
वाच्यार्थानुपपत्तिः

सर्ववेदसारसंग्रहः - वाच्यार्थानुपपत्तिः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


वाच्यार्थानुपपत्तिः

लक्षणा उपगन्तव्या ततो वाक्यार्थसिद्धये ।

वाच्यार्थानुपपत्त्यैव लक्षणाभ्युपगम्यते ॥७३३॥

संबद्धानुपपत्त्या च लक्षणेति जगुर्बुधाः ।

गङ्गायां घोष इत्यादौ या जहल्लक्षणा मता ॥७३४॥

न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते ।

गङ्गाया अपि घोषस्याधाराधेयत्वलक्षणम् ॥७३५॥

सर्वो विरुद्धवाक्यार्थस्तत्र प्रत्यक्षतस्ततः ।

गङ्गासंबन्धवत्तीरे लक्षणा संप्रवर्तते ॥७३६॥

तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे ।

विवक्षिते तु वाक्यार्थेऽपरोक्षत्वादिलक्षणः ॥७३७॥

विरुध्यते भाग्यमात्रो न तु सर्वो विरुध्यते ।

तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥७३८॥

वाच्यार्थस्य तु सर्वस्य त्यागे न फलमीक्ष्यते ।

नालिकेरफलस्येव कठिनत्वधिया नृणाम् ॥७३९॥

गङ्गापदं यथा स्वार्थं त्यक्त्वा लक्षयते तटम् ।

तत्पदं त्वंपदं वापि त्यक्त्वा स्वार्थं यथाखिलम् ॥७४०॥

तदर्थं वा त्वमर्थं वा यदि लक्षयति स्वयम् ।

तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥७४१॥

न शङ्कनीयमित्यार्यैज्ञार्तार्थे न हि लक्षणा ।

तत्पदं त्वंपदं वापि श्रूयते च प्रतीयते ॥७४२॥

तदर्थे च कथं तत्र संप्रवर्तेत लक्षणा ।

अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥७४३॥

अजहल्लक्षणा वापि सा जहल्लक्षणा यथा ।

गुणस्य गमनं लोके विरुद्धं द्रव्यमन्तरा ॥७४४॥

अतस्तमपरित्यज्य तद्गुणाश्रयलक्षणः ।

लक्ष्यादिर्लक्ष्यते तत्र लक्षणासौ प्रवर्तते ॥७४५॥

वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके ।

परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ॥७४६॥

एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् ।

न सिद्ध्यति यतस्तस्मान्नाजहल्लक्षणा मता ॥७४७॥

तत्पदं त्वंपदं चापि स्वकीयार्थविरोधिनम् ।

अंशं सम्यक्परित्यज्य स्वाविरुद्धांशसंयुतम् ॥७४८॥

तदर्थं वा त्वमर्थं वा सम्यग्लक्षयतः स्वयम् ।

भागलक्षणया साध्यं किमास्तीति न शङ्क्यताम् ॥७४९॥

अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् ।

एकं पदं लक्षणया संलक्षयितुमर्हति ॥७५०॥

पदान्तरेण सिद्धायां पदार्थप्रमितौ स्वतः ।

तदर्थप्रत्ययापेक्षा पुनर्लक्षणया कुतः ॥७५१॥

तस्मात्तत्त्वमसीत्यत्र लक्षणा भागलक्षणा ।

वाक्यार्थसत्त्वाखण्डैकरसतासिद्धये मता ॥७५२॥

भागं विरुद्धं संत्यज्याविरोधो लक्ष्यते यदा ।

सा भागलक्षणेत्याहुर्लक्षणज्ञा विचक्षणाः ॥७५३॥

सोऽयं देवदत्त इति वाक्यं वाक्यार्थ एव वा ।

देवदत्तैकरूपस्ववाक्यार्थानवबोधकम् ॥७५४॥

देषकालादिवैशिष्ट्यं विरुद्धांशं निरस्य च ।

अविरुद्धं देवदत्तदेहमात्रं स्वलक्षणम् ॥७५५॥

भागलक्षणया सम्यग्लक्षयत्यनया यथा ।

तथा तत्त्वमसीत्यत्र वाक्यं वाक्यार्थ एव वा ॥७५६॥

परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ।

एकत्वरूपवाक्यार्थविरुद्धांशमुपस्थितम् ॥७५७॥

परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् ।

बुद्ध्यादिस्थूलपर्यन्तमाविद्यकमनात्मकम् ॥७५८॥

परित्यज्य विरुद्धांशं शुद्धचैतन्यलक्षणम् ।

वस्तु केवलसन्मात्रं निर्विकल्पं निरञ्जनम् ॥७५९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:13.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

District Probation Officer

  • जिल्हा परिवीक्षा अधिकारी 
RANDOM WORD

Did you know?

what is the history behind " HARI MERE HALAR KI LAKARI" made by Surdasji?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.