मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे| पाकामृतांशुमकुटाभरणा भवान... देवी स्तोत्रे उमाशतकम् अयि गिरिनंदिनि नंदितमेदिन... प्रातः स्मरामि ललितावदनार... विज्ञापनार्हविरलावसरानवाप... जय भगवति देवि नमो वरदे जय... निशुम्भशुम्भमर्दिनीं प्रच... मुद्रा स्वस्ति श्रीमदखिलभ... पाण्डित्यं परमेश्वरि स्तु... श्रीशङ्करगुरुत्तंससमर्चित... प्रातः स्मरामि ललितावदनार... सुवक्षोजकुम्भां सुधापूर्ण... श्रीभारतीतीर्थमहास्वामिभि... विराटनगरं रम्यं गच्छमानो ... सञ्जय उवाच- धार्तराष्ट्रब... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... अम्ब प्रसीद वरदा भव दुःखह... अपराधसहस्राणि क्रियन्तेऽह... आदिलक्ष्मीः द्विभुजाञ्च द... उषसि मागधमंगलगायनैर्झटिति... अयिगिरिनन्दिनि नन्दितमेदि... नमस्ते शरण्ये शिवे सानुकम... विरिञ्च्यादिभिः पञ्चभिर्ल... लक्ष्मीशे योगनिद्रां प्रभ... सिन्दूरारुणकान्तिमब्जवसति... लक्ष्मीशे योगनिद्रां प्रभ... नमस्ते शरण्ये शिवे सानुकम... करवाणि वाणि किं वा जगति प... प्रातः स्मरामि ललितावदनार... ध्यायेत् हेमांबुजारूढां व... हर हर शंभो गौरीश! शिव शिव... उद्यच्चन्दनकुङ्कुमारुणपयो... बन्धूकवर्णामरुणां सुगात्र... सञ्जय उवाच- धार्तराष्ट्रब... कल्याणायुतपूर्णचन्द्रवदना... गौरीं काञ्चनपद्मिनीतटगृहा... विराटनगरं रम्यं गच्छमानो ... ॐ जटाजूटसमायुक्तामर्द्धेन... प्रस्तावना क्षमस्व भगवत्यंब क्षमाशील... कदंबवनचारिणीं मुनिकदम्बका... समुन्मीलन्नीलांबुजनिकरनीर... ॐ अस्य श्रीन्द्राक्षीस्तो... षडाधारपंकेरुहांतर्विराजत्... श्रेयस्करि शमनिवरिणि विद्... अम्ब शशिबिम्बवदने कम्बुग्... नमस्ते शरण्ये शिवे सानुकम... घोररूपे महारावे सर्वशत्रु... याज्ञवल्क्य उवाच— कृपां... श्रीगणेशाय नमः ॥ पद्मे... श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् त्रिपुरसुन्दरीमानसपूजास्तोत्रम् देवीचतुःषष्ट्युपचारपूजास्तोत्रम् चेटी भवन्निखिल केटी कदम्ब... ॥ॐ ॥ ॥श्री दुर्गायै नम... ॥ॐ अस्य श्रीदुर्गासप्तश्ल... श्री॥श्रीचण्डिकाध्यानम् ॐ... ॐ नमश्चण्डिकायै मार्कण्डे... ॐ नमश्चण्डिकायै मार्कण्डे... अथ देव्याः कवचम् हारनूपुरकिरीटकुण्डलविभूषि... प्रातः स्मरामि ललिता वदना... धनदा उवाच देवी देवमुपागम्... अहं रुद्रेभिरित्यादिमन्त्... धनदा उवाच देवी देवमुपागम्... ॥त्यागराजविरचितः कल्याणाम... गणेशः । हरिद्राभंचतुर्वाद... श्रीगुरुचरणसरोजं श्रीकरभव... विबुधाधिपतेजिनीशकान्ते वद... ॐ नमस्ते सते सर्वलोकाश्रय... ॥श्रीगोकर्णनिकेता श्रीविद... जय भगवति देवि नमो वरदे जय... मीनाक्षी सुन्दरेश्वर स्तोत्रम् शिवोमा परमा शक्तिरनन्ता न... भगवतीपद्यपुष्पांजलिस्तोत्र उद्यद्भानु सहस्रकोटिसदृशा... श्रीविद्ये शिववामभागनिलये... गुरुश्च गुरुपुत्रश्च ये च... श्रीदेव्युवाच देवदेव महदे... अम्बा शाम्भवि चन्द्रमौलिर... त्यागराजविरचितः या त्रैलो... पाकामृतांशुमकुटाभरणा भवान... क्षमस्व भगवंत्यव क्षमाशील... लघुषोडशार्णकलाविलासः ॥शक्तिसूत्र ॥ अथ शक्तिसू... त्यागराजविरचितः॥स्वानन्दम... आदिशक्ते जगन्मातर्भक्तानु... का त्वं शुभकरे सुखदुःखहस्... अंभोधरश्यामलकुन्तलायै तटि... आदिलक्ष्मी ॥ सुमनसवन्दित... नमः सर्व स्वरूपे च नमो कल... करकलितचापबाणां कल्हाराङ्घ... श्री शङ्कराचार्य कृतम् । ... अङ्गं हरेः पुलकभूषणमाश्रय... श्रीः॥ कल्याणवृष्टिभिरिव... श्री देवी ध्यानम् जगदवन व... ॐ नमश्चण्डिकायै मार्कण्डे... देवि सुरेश्वरि भगवति गंगे... या देवी सर्वभूतेषु विष्णु... देवी खड्गमाला स्तोत्ररत्नम उपनिषद रेणुकास्तोत्रम् - पाकामृतांशुमकुटाभरणा भवान... देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्कल्याण्कारी तसेच दुष्टांचा संहार करणारीही आहे. The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times. Tags : goddessrenukastotraदेवीरेणुकास्तोत्र रेणुकास्तोत्रम् Translation - भाषांतर पाकामृतांशुमकुटाभरणा भवानी शोकापहा नतजनस्य शुभाखिलाङ्गी । कोकाकृतिस्तनभरा कुशलानि नित्यं मूकाम्बिका मम तनोतु मुनीन्द्रवन्द्या ॥ श्लोकस्याद्यन्तयोर्वाग्भवमुच्चार्य पठेदिति संप्रदायः ॥ॐ॥ कालाग्न्यादि शिवावसानमखिलं ते गुल्फदघ्नं शिवे मूर्तिं कीर्तयितुं न कस्य रसना लज्जाम्बुधौ मज्जति । तस्मात् त्वच्चरणैकदेशनखरज्योतिःस्फुलिङ्गा इव स्फूर्जन्ति प्रभविष्णवश्च सततं ते पद्मनाभादयः ॥१॥ कल्पः कोऽपि स शांभवो विजयते मातस्त्वया कल्पितो यत्रानल्पविकल्पजालविमुखः कश्चिद्विपश्चित् परः । सा त्वं सत्त्ववतामपीह सुलभा नैवासि किं स्तूयसे स्वच्छन्दं शिशवो यथा तव पुनः क्रीडन्ति वेदा इमे ॥२॥ लीलाचामरधारिणीसहचरीगत्या महासिद्धयो नूनं वञ्चयितुं स्फुरन्ति भवतीकारुण्यशून्यं जनम् । अम्ब त्वन्नयनाञ्चलं करुणया यस्मिन् परिक्रीडते तस्य द्वारि निवारितोऽपि कुरुते सेवां सुराणां गणः ॥३॥ आ पातालतलात् फणीश्वरशिरोरत्नांशुनीराजिता- दा सर्वज्ञनिकेतनादपि शिखायौतांशुधौताङ्कणात् । एकच्छत्रमवाप्य वैभवमहो दीव्यन्ति ते संततं ये संध्याचलनिश्चलं तव पदं ध्यायन्ति गायन्ति च ॥४॥ ये त्वामम्ब पलाशबिल्वकुसुमैरुल्लासिभिर्मल्लिका- पुष्पैर्वा वनमल्लिकाविरचितैरुद्दामभिर्दामभिः । मुग्धोन्मीलितमालतीभिरभितः संपूजयन्त्यादरात् तेषामुद्धृतसौरभा प्रतिदिनं व्याजृम्भते भारती ॥५॥ त्वां सह्याचलमौलिसुस्थितपदां श्री- एकवीराम्बिके ये लिम्पन्ति सचन्द्रचन्दनरसैस्तेषां सुधास्राविणी । वाणीविस्मयवर्ण्यमानगिरिशव्यालोलगङ्गाजल- स्वच्छन्दोर्मितपरंपराविजयिनी वाणी नरीनृत्यति ॥६॥ ये त्वां ब्राह्ममुहूर्तनिर्मलधियस्त्वाधारतश्चिन्तय- न्त्यूर्ध्वं मूर्ध्नि सरोरुहेऽतिधवले पीयूषधारावृते । ते मृत्युं सहसा विजित्य रचयन्त्युच्चैर्गतिं नित्यशः प्रत्यादिष्टपुरःसुधाकरसुधाहंभावसंभाविताः ॥७॥ यस्त्वां पश्यति तस्य नश्यति महापापान्धकारः क्षणात् किं चार्धादपरे पुराणपुरुषप्राणप्रिये पार्वति । मूर्ध्नस्तस्य ततो भवेत् कृतधियः श्री- एकवीराम्बिके दृश्यन्ते न मनागपीह यदियं प्रत्यक्षमुद्योतसे ॥८॥ किं योगेन किमर्चनेन किमथ ज्ञानेन किं कर्मणा किं ध्यानेन किमिज्यया किमथवा दानेन किं दीक्षया । दृश्यन्ते यदि सह्यशैलशिखरश्रीगर्विताः सर्वदा मातः पार्वति रेणुके तव पदाम्भोजप्रभाविभ्रमाः ॥९॥ हे सह्याचलनित्यकेलिरसिके कर्पूरकस्तूरिका- विन्यस्तागरुकुङ्कुमैर्मलयजैस्त्वं चर्चिताभ्यर्चिता । ते दीव्यन्ति सुरेन्द्रमुख्यविबुधश्रेणीकिरीटस्फुर- न्माणिक्यप्रतिबिम्बितारुणपदस्थाः संप्रदाः संपदाम् ॥१०॥ हे सह्याद्रिविनिद्रलिङ्गवपुषि श्री- एकवीराम्बिके त्वां कृष्णागरुगुग्गुलुप्रभृतिभिर्ये धूपयन्त्यादरात् । ते कैलासनिवासिनीभिरभितः संचारितैश्चारुभि- र्लीलाचामरमारुतैश्चिरतरं नन्दन्ति रुद्रा इव ॥११॥ मातः शांभवि जृम्भितामृतशिलालिङ्गात्मिके रेणुके त्वां सह्याद्रिशिरोविहारसुलभां नीराजयन्त्यादरात् । ते बृन्दारकबृन्दवन्दितपदाश्चन्द्रार्कचूडामणि- ज्योतिर्मेदुरमन्दिराङ्कणभुवो भूतिं लभन्तेऽद्भुताम् ॥१२॥ दूरादङ्गणरङ्गसंगतरजोराजीविराजद्वपु- स्तुभ्यं यः प्रणिपत्तिमम्ब कुरुते कश्चित् कदाचित् क्वचित्। संप्राप्य श्रियमिन्दुसुन्दरयशःसंदोहनिष्यन्दिनी- मन्ते निर्विषयं स्वयं प्रविशति श्रीशांभवं वैभवम् ॥१३॥ त्वामुद्दिश्य कदापि कोऽपि किमपि क्वापि प्रपद्यन् नरो भक्त्यावेशवशीकृतो जपति वा यो यज्जुहोत्यादरात् । तत् तस्याक्षयमेव देवि भवति स्वर्गापवर्गप्रदं त्वन्नामस्मरणं गतो विजयते सर्वोऽपि शर्वो जनः ॥१४॥ मातस्त्वच्चरणेन यास्यति चिरं रुद्रोऽपि भद्राशय- श्चूडाचन्द्रकलामरीचिनिचयैराचान्तरत्नासनैः । तत्त्वानामुपरि स्थितो विजयते वामादिभिर्नामभिः श्रीकामेश्वरि दक्षपुत्रि गिरिजे त्वं रेणुके रक्ष माम् ॥१५॥ मातर्भैरवि भर्गपत्नि गिरिजे गायत्रि गोत्रात्मिके दुर्गे गौरि सरस्वति त्रिणयने श्रीसिद्धलक्ष्मी धृते । नित्ये मृत्युविकारहारिणि शिवे श्री- एकवीराम्बिके सोऽहं ते शरणागतः करुणया त्वं रेणुके रक्ष माम् ॥१६॥ इति श्रीरेणुकास्तोत्रं समाप्तः॥पाकामृतांशुमकुटाभरणा भवानी शोकापहा नतजनस्य शुभाखिलाङ्गी । कोकाकृतिस्तनभरा कुशलानि नित्यं मूकाम्बिका मम तनोतु मुनीन्द्रवन्द्या ॥ श्लोकस्याद्यन्तयोर्वाग्भवमुच्चार्य पठेदिति संप्रदायः ॥ॐ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP