मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे| विराटनगरं रम्यं गच्छमानो ... देवी स्तोत्रे उमाशतकम् अयि गिरिनंदिनि नंदितमेदिन... प्रातः स्मरामि ललितावदनार... विज्ञापनार्हविरलावसरानवाप... जय भगवति देवि नमो वरदे जय... निशुम्भशुम्भमर्दिनीं प्रच... मुद्रा स्वस्ति श्रीमदखिलभ... पाण्डित्यं परमेश्वरि स्तु... श्रीशङ्करगुरुत्तंससमर्चित... प्रातः स्मरामि ललितावदनार... सुवक्षोजकुम्भां सुधापूर्ण... श्रीभारतीतीर्थमहास्वामिभि... विराटनगरं रम्यं गच्छमानो ... सञ्जय उवाच- धार्तराष्ट्रब... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... अम्ब प्रसीद वरदा भव दुःखह... अपराधसहस्राणि क्रियन्तेऽह... आदिलक्ष्मीः द्विभुजाञ्च द... उषसि मागधमंगलगायनैर्झटिति... अयिगिरिनन्दिनि नन्दितमेदि... नमस्ते शरण्ये शिवे सानुकम... विरिञ्च्यादिभिः पञ्चभिर्ल... लक्ष्मीशे योगनिद्रां प्रभ... सिन्दूरारुणकान्तिमब्जवसति... लक्ष्मीशे योगनिद्रां प्रभ... नमस्ते शरण्ये शिवे सानुकम... करवाणि वाणि किं वा जगति प... प्रातः स्मरामि ललितावदनार... ध्यायेत् हेमांबुजारूढां व... हर हर शंभो गौरीश! शिव शिव... उद्यच्चन्दनकुङ्कुमारुणपयो... बन्धूकवर्णामरुणां सुगात्र... सञ्जय उवाच- धार्तराष्ट्रब... कल्याणायुतपूर्णचन्द्रवदना... गौरीं काञ्चनपद्मिनीतटगृहा... विराटनगरं रम्यं गच्छमानो ... ॐ जटाजूटसमायुक्तामर्द्धेन... प्रस्तावना क्षमस्व भगवत्यंब क्षमाशील... कदंबवनचारिणीं मुनिकदम्बका... समुन्मीलन्नीलांबुजनिकरनीर... ॐ अस्य श्रीन्द्राक्षीस्तो... षडाधारपंकेरुहांतर्विराजत्... श्रेयस्करि शमनिवरिणि विद्... अम्ब शशिबिम्बवदने कम्बुग्... नमस्ते शरण्ये शिवे सानुकम... घोररूपे महारावे सर्वशत्रु... याज्ञवल्क्य उवाच— कृपां... श्रीगणेशाय नमः ॥ पद्मे... श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् त्रिपुरसुन्दरीमानसपूजास्तोत्रम् देवीचतुःषष्ट्युपचारपूजास्तोत्रम् चेटी भवन्निखिल केटी कदम्ब... ॥ॐ ॥ ॥श्री दुर्गायै नम... ॥ॐ अस्य श्रीदुर्गासप्तश्ल... श्री॥श्रीचण्डिकाध्यानम् ॐ... ॐ नमश्चण्डिकायै मार्कण्डे... ॐ नमश्चण्डिकायै मार्कण्डे... अथ देव्याः कवचम् हारनूपुरकिरीटकुण्डलविभूषि... प्रातः स्मरामि ललिता वदना... धनदा उवाच देवी देवमुपागम्... अहं रुद्रेभिरित्यादिमन्त्... धनदा उवाच देवी देवमुपागम्... ॥त्यागराजविरचितः कल्याणाम... गणेशः । हरिद्राभंचतुर्वाद... श्रीगुरुचरणसरोजं श्रीकरभव... विबुधाधिपतेजिनीशकान्ते वद... ॐ नमस्ते सते सर्वलोकाश्रय... ॥श्रीगोकर्णनिकेता श्रीविद... जय भगवति देवि नमो वरदे जय... मीनाक्षी सुन्दरेश्वर स्तोत्रम् शिवोमा परमा शक्तिरनन्ता न... भगवतीपद्यपुष्पांजलिस्तोत्र उद्यद्भानु सहस्रकोटिसदृशा... श्रीविद्ये शिववामभागनिलये... गुरुश्च गुरुपुत्रश्च ये च... श्रीदेव्युवाच देवदेव महदे... अम्बा शाम्भवि चन्द्रमौलिर... त्यागराजविरचितः या त्रैलो... पाकामृतांशुमकुटाभरणा भवान... क्षमस्व भगवंत्यव क्षमाशील... लघुषोडशार्णकलाविलासः ॥शक्तिसूत्र ॥ अथ शक्तिसू... त्यागराजविरचितः॥स्वानन्दम... आदिशक्ते जगन्मातर्भक्तानु... का त्वं शुभकरे सुखदुःखहस्... अंभोधरश्यामलकुन्तलायै तटि... आदिलक्ष्मी ॥ सुमनसवन्दित... नमः सर्व स्वरूपे च नमो कल... करकलितचापबाणां कल्हाराङ्घ... श्री शङ्कराचार्य कृतम् । ... अङ्गं हरेः पुलकभूषणमाश्रय... श्रीः॥ कल्याणवृष्टिभिरिव... श्री देवी ध्यानम् जगदवन व... ॐ नमश्चण्डिकायै मार्कण्डे... देवि सुरेश्वरि भगवति गंगे... या देवी सर्वभूतेषु विष्णु... देवी खड्गमाला स्तोत्ररत्नम उपनिषद दुर्गास्तोत्रम् - विराटनगरं रम्यं गच्छमानो ... देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times Tags : devidurgasanskritstotraदुर्गादेवीसंस्कृतस्तोत्र (महाभारतान्तर्गतम् Translation - भाषांतर विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥१॥यशोदा गर्भसंभूतां नारायणवरप्रियाम् ।नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम् ॥२॥कंसविद्रावणकरीमसुराणां क्षयङ्करीम् ।शिलातटविनिक्षिप्तामाकाशं प्रतिगामिनीम् ॥३॥वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् ।दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥४॥भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् ।तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् ॥५॥स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।आमन्त्र्य दर्शनाकांक्षी राजा देवीं सहानुजः ॥६॥नमोऽस्तु वरदे! कृष्णे! कुमारि! ब्रह्मचारिणि ।बालार्कसदृशाकारे! पूर्णचन्द्र्निभानने! ॥७॥चतुर्भुजे! चतुर्वक्त्रे! पीनश्रोणिपयोधरे! ।मयूरपिच्छवलये! केयूराङ्गदधारिणि! ॥८॥भासि देवि! यथा पद्मा नारायणपरिग्रहः ।स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥९॥कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥१०॥पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि ।पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥११॥कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।चन्द्रविस्पर्धिना देवि! मुखेन त्वं विराजसे ॥१२॥मुकुटेन विचित्रेण केशबन्धेन शोभिना ।भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥१३॥विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः ।ध्वजेन शिखिपिच्छानामुछ्रितेन विराजसे ॥१४॥कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ।तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥१५॥त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि! ।प्रसन्ना मे सुरश्रेष्ठे! दयां कुरु शिवा भव ॥१६॥जया त्वं विजया चैव संग्रामे च जयप्रदा ।ममापि विजयं देहि वरदा त्वं च सांप्रतम् ॥१७॥विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् कालि! कालि! महाकालि! शीधुमांसपशुप्रिये ।कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी ॥१८॥भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ।प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ॥न तेषां दुर्लभं किंचित्पुत्रतो धनतोऽपि वा ॥१९॥दुर्गात्तारयसे दुर्गे!तत्वं दुर्गा स्मृता जनैः ।कान्तारेष्ववसन्नानां मग्नानां च महार्णवे।दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥२०॥जलप्रतरणे चैव कान्तारेष्वटवीषु च ।ये स्मरन्ति महदेवि! न च सीदन्ति ते नराः ॥२१॥त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः ।संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिः क्षमा दया ॥२२॥नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ।व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥२३॥सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।प्रणतश्च तथा मूर्ध्ना तव देवि! सुरेश्वरि! ॥२४॥त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ।शरणं भव मे दुर्गे! शरण्ये! भक्तवत्सले! ॥२५॥एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।उपागम्य तु राजानमिदं वचनमब्रवीत् ॥२६॥देव्युवाच-शृणु राजन्! महाबाहो! मदीयं वचनं प्रभो! ।भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥२७॥मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।राज्यं निष्कण्टकं कृत्वा मोक्ष्यसे मेदिनीं पुनः ॥२८॥भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् ।मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥२९॥ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः ।तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥३०॥प्रवासे नगरे वाऽपि संग्रामे शत्रुसङ्कटे ।अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥३१॥ये स्मरिष्यन्ति मां राजन्यथाहं भवता स्मृता ।न तेषां दुर्लभं किंचिदस्मिन्लोके भविष्यति ॥३२॥इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा ।तस्य सर्वाणि कर्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥३३॥मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः ॥३४॥ इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् । रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥३५॥ ॥इति श्री महाभारते विराटपर्वे दुर्गास्तोत्रं संपूर्णम् ॥ N/A References : N/A Last Updated : February 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP