मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे| समुन्मीलन्नीलांबुजनिकरनीर... देवी स्तोत्रे उमाशतकम् अयि गिरिनंदिनि नंदितमेदिन... प्रातः स्मरामि ललितावदनार... विज्ञापनार्हविरलावसरानवाप... जय भगवति देवि नमो वरदे जय... निशुम्भशुम्भमर्दिनीं प्रच... मुद्रा स्वस्ति श्रीमदखिलभ... पाण्डित्यं परमेश्वरि स्तु... श्रीशङ्करगुरुत्तंससमर्चित... प्रातः स्मरामि ललितावदनार... सुवक्षोजकुम्भां सुधापूर्ण... श्रीभारतीतीर्थमहास्वामिभि... विराटनगरं रम्यं गच्छमानो ... सञ्जय उवाच- धार्तराष्ट्रब... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... अम्ब प्रसीद वरदा भव दुःखह... अपराधसहस्राणि क्रियन्तेऽह... आदिलक्ष्मीः द्विभुजाञ्च द... उषसि मागधमंगलगायनैर्झटिति... अयिगिरिनन्दिनि नन्दितमेदि... नमस्ते शरण्ये शिवे सानुकम... विरिञ्च्यादिभिः पञ्चभिर्ल... लक्ष्मीशे योगनिद्रां प्रभ... सिन्दूरारुणकान्तिमब्जवसति... लक्ष्मीशे योगनिद्रां प्रभ... नमस्ते शरण्ये शिवे सानुकम... करवाणि वाणि किं वा जगति प... प्रातः स्मरामि ललितावदनार... ध्यायेत् हेमांबुजारूढां व... हर हर शंभो गौरीश! शिव शिव... उद्यच्चन्दनकुङ्कुमारुणपयो... बन्धूकवर्णामरुणां सुगात्र... सञ्जय उवाच- धार्तराष्ट्रब... कल्याणायुतपूर्णचन्द्रवदना... गौरीं काञ्चनपद्मिनीतटगृहा... विराटनगरं रम्यं गच्छमानो ... ॐ जटाजूटसमायुक्तामर्द्धेन... प्रस्तावना क्षमस्व भगवत्यंब क्षमाशील... कदंबवनचारिणीं मुनिकदम्बका... समुन्मीलन्नीलांबुजनिकरनीर... ॐ अस्य श्रीन्द्राक्षीस्तो... षडाधारपंकेरुहांतर्विराजत्... श्रेयस्करि शमनिवरिणि विद्... अम्ब शशिबिम्बवदने कम्बुग्... नमस्ते शरण्ये शिवे सानुकम... घोररूपे महारावे सर्वशत्रु... याज्ञवल्क्य उवाच— कृपां... श्रीगणेशाय नमः ॥ पद्मे... श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् त्रिपुरसुन्दरीमानसपूजास्तोत्रम् देवीचतुःषष्ट्युपचारपूजास्तोत्रम् चेटी भवन्निखिल केटी कदम्ब... ॥ॐ ॥ ॥श्री दुर्गायै नम... ॥ॐ अस्य श्रीदुर्गासप्तश्ल... श्री॥श्रीचण्डिकाध्यानम् ॐ... ॐ नमश्चण्डिकायै मार्कण्डे... ॐ नमश्चण्डिकायै मार्कण्डे... अथ देव्याः कवचम् हारनूपुरकिरीटकुण्डलविभूषि... प्रातः स्मरामि ललिता वदना... धनदा उवाच देवी देवमुपागम्... अहं रुद्रेभिरित्यादिमन्त्... धनदा उवाच देवी देवमुपागम्... ॥त्यागराजविरचितः कल्याणाम... गणेशः । हरिद्राभंचतुर्वाद... श्रीगुरुचरणसरोजं श्रीकरभव... विबुधाधिपतेजिनीशकान्ते वद... ॐ नमस्ते सते सर्वलोकाश्रय... ॥श्रीगोकर्णनिकेता श्रीविद... जय भगवति देवि नमो वरदे जय... मीनाक्षी सुन्दरेश्वर स्तोत्रम् शिवोमा परमा शक्तिरनन्ता न... भगवतीपद्यपुष्पांजलिस्तोत्र उद्यद्भानु सहस्रकोटिसदृशा... श्रीविद्ये शिववामभागनिलये... गुरुश्च गुरुपुत्रश्च ये च... श्रीदेव्युवाच देवदेव महदे... अम्बा शाम्भवि चन्द्रमौलिर... त्यागराजविरचितः या त्रैलो... पाकामृतांशुमकुटाभरणा भवान... क्षमस्व भगवंत्यव क्षमाशील... लघुषोडशार्णकलाविलासः ॥शक्तिसूत्र ॥ अथ शक्तिसू... त्यागराजविरचितः॥स्वानन्दम... आदिशक्ते जगन्मातर्भक्तानु... का त्वं शुभकरे सुखदुःखहस्... अंभोधरश्यामलकुन्तलायै तटि... आदिलक्ष्मी ॥ सुमनसवन्दित... नमः सर्व स्वरूपे च नमो कल... करकलितचापबाणां कल्हाराङ्घ... श्री शङ्कराचार्य कृतम् । ... अङ्गं हरेः पुलकभूषणमाश्रय... श्रीः॥ कल्याणवृष्टिभिरिव... श्री देवी ध्यानम् जगदवन व... ॐ नमश्चण्डिकायै मार्कण्डे... देवि सुरेश्वरि भगवति गंगे... या देवी सर्वभूतेषु विष्णु... देवी खड्गमाला स्तोत्ररत्नम उपनिषद लक्ष्मीलहरि: - समुन्मीलन्नीलांबुजनिकरनीर... देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे. The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times Tags : godgoddessstotraदेवतादेवीस्तोत्र श्रीगणेशाय नम: ॥ Translation - भाषांतर समुन्मीलन्नीलांबुजनिकरनीराजितरुचा मपांगानां भङ्गैरमृतलहरीश्रेणिमसृणै: । ह्रिया हीनं दीनं भृशुमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १ ॥ समुन्मीलत्वंत:करणकरुणोद्गारचतुर: करिप्राणत्राणप्रणयिनि दृगन्तस्तवमयि । यमासाद्योन्माद्यद्द्विपनियुतगंडस्थलगलन्मदक्लिन्नद्वारो भवति सुखसारो नरपति: ॥ २ ॥ उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनस: पतंति स्वर्बाला: स्मरशरपराधीनमनस: । सुरास्तं गायंति स्फुरिततनुगंगाधरमुखास्तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३ ॥ समीपे संगीतस्वरमधुरभंगी मृगदृशां विदूरे दानांधद्विरदकलभोद्दामनिनद: । बहिर्द्वारे तेषां भवति हयहेषाकलकलो दृगेषा ते येषामुपरि कमले देवि सदया ॥ ४ ॥ अगण्यैरिन्द्राद्यैरपि परमपुण्यै: परिचितो जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुण: । उदंचत्पीयूषांबुधिलहरिलीलामनुहरन्नपांगस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥ ५ ॥ नमन्मौलिश्रेणित्रिपुरपरिपंथिप्रतिलसत्कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकित: । लसत्फुल्लांभोजम्रदिमहरण: कोऽपि चरणश्चिरं चेतश्चारी मम भवतु वारीशदुहितु: ॥ ६ ॥ प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां नियंत्री बन्धुकद्युतिनिकरबंधुकृतिपटु: । नृणामंतर्ध्वांतं निविडमपहर्तं तव किल प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥ ७ ॥ प्रभातप्रोन्मीलत्कमलवनसंचारसमये शिखा: किंजल्कानां विदधति रुजं यत्र मृदुल: । तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुण कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥ ८ ॥ स्मितज्योत्स्नामज्जद्द्विजमणिमयूखामृतझरैर्निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति य: । अमंदं स्यंदन्ते वदनकमलादस्य कृतिनो विविक्तौ वैकल्पा: सततमधिकल्पा नवगिर: ॥ ९ ॥ शरौ मायाबीजौ हिमकरकलाक्रांतशिरसौ विधायोर्ध्वं बिंदूं स्फुरितमिति बीजं जलधिजे । जपेद्य: स्वच्छन्दं स हि पुनरमंदं गजघटामदभ्राम्यद्भृंगैर्मुखरयति वेश्मानि विदुषाम् ॥ १० ॥ स्मरो नामं नामं त्रिजगदभिरामं तव पदं प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु । यया पातं पातं पदकमलयो: पर्वतचरो हरो हा रोषार्द्रामनुनयति शैलेंद्रतनयाम् ॥ ११ ॥ हरंतो नि:शंकं हिमकरकलानां रुचिरतां किरंत: स्वच्छंदं किरणमयपीयूषनिकरम् । विलुंपंतु प्रौढा हरिह्रदयहारा: प्रियतमा ममांतस्संतापं तव चरणशोणांबुजनखा ॥ १२ ॥ मिषान्माणिक्यानां विगलितनिमेषं निमिषताममन्दं सौंदर्य तव चरणयोरंबुधिसुते । पदालंकाराणां जयति कलनिक्काणनपटुरुदंचन्नुद्दाम: स्तुतिवचनलीलाकलकल: ॥ १३ ॥ मणिज्योत्स्नाजालैर्निजतनुरुच: मांसलतया जटालं ते जंघायुगलमघभङ्गाय भवतु । भ्रमन्ती यन्मध्ये दरदलितशोणांबंजरुचां दृशां माला नीराजनमिव विधत्ते मुररिपो: ॥ १४ ॥ हरद् गर्वं सर्वं करिपतिकराणां मृदुतया भृशं भाभिर्दंभं कनकमयरंभावनिरुहाम् । लसज्जानुज्योत्स्नातरणिपरिणद्धं जलनिधे तवोरुद्वंद्वं न: श्लथयतुभयोरुज्वरभयम् ॥ १५ ॥ कलववाणां कांचीं मणिगणजटालामधिवहन्वसान: कौसुंभं वसनमसनं कौस्तुभरुचाम् । मुनिव्रातै: प्रात: शुचिवचनजतैरतिनुतं नितंबस्ते बिंबं हसति नवमंबांबरमणे: ॥ १६ ॥ जगन्मिथ्याभूतं मम निगदतां वेदवचसामभिप्रायो नाद्यावधि ह्रदयमध्याविशदयम् । तदानीं विश्वेषां जनकमुदरं ते विमृशतो विसन्देहं चेतोऽजनि गरुडकेतो: प्रियतमे ॥ १७ ॥ अनल्पैर्वादीन्द्रैरगणितमहायुक्तिनिवहैर्निरस्ता विस्तारं क्वचिदकलयंती तनुमपि । असत्ख्यातिव्याख्यादिकचतुरिमाख्यातमहिमावलग्ने लग्नेयं सुगतमतसिद्धान्तसरणि: ॥ १८ ॥ निदानं श्रृङ्गारप्रकरमकरंदस्य कमले महानेवालंबो हरि नयनरोलंबवरयो: । निधानं शोभानां निधनमनुतापस्य जगतो जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥ १९ ॥ गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां विगाढुं ते नाभीविमलसरसीं गौर्मम मनाक् । पदं धावन्न्यस्यत्यहह विनिमग्नैव सहसा न हि क्षेम सुते गुरुमहिमसूतेष्वविनय: ॥ २० ॥ कुचौ ते दुग्धाभोनिधिकुलशिखामंडनमणेर्हरेते सौभाग्यं यदि पुरगिरेश्चित्रमिह किम् । त्रिलोकीलावण्याहरननवलीलानिपुणयोर्ययोर्दत्ते भूय: करमखिलनाथो मधुरिपु: ॥ २१ ॥ हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां दधत्कोकद्वंद्वद्युतिदमनदीक्षाधिगुरुताम् । तवैतद्वक्षोजद्वितयमरविंदाक्षमहिले मम स्वांतध्वांतं किमपि च नितांतं गमयतु ॥ २२ ॥ अनेकब्रह्मांडस्थितिनियमलीलाविलसिते दयापीयूषांभोनिधिसहजसंवासभवने । विधोश्चित्तायामे ह्रदयकमले ते तु कमले मनाङ मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥ २३ ॥ मृणालीनां लीला: सहजलवणिम्नां लघयतां चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु क: । लुठंति स्वच्छंदं मरकतशिलामांसलरुच: श्रुतीनां स्पर्धां ये दधत इव कंठे मधुरिपो: ॥ २४ ॥ अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता तथापि त्वद्धस्ते निवसदरविंदं विकसितम् । कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥ २५ ॥ अनल्पं जल्पंतु प्रतिहतधिय: पल्लवतुलां रसज्ञामज्ञानां क इव कमले मंथरयतु । तपन्तु श्रीभिक्षावितरणवशीभूतजगतां कराणां सौभाग्यं तव तुलयितुं तुंगरसना ॥ २६ ॥ समाहार:श्रीणां विरचितविहारो हरिदृशां परीहारो भक्तप्रभवभवसंतापसरणे: । प्रहार: सर्वासामपि च विपदां विष्णुदयिते ममोद्धारोपायं तव सपदि हारो विमृशतु ॥ २७ ॥ अलंकुर्वाणानां मणिगणघृणीनां लवणिमा यदीयाभिर्भाभिर्भजति महिमानं लघुरपि । सुपर्वश्रेणीनां जनितपरसौभाग्यविभवास्तवांगुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥ २८ ॥ तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् । ह रि: कंबुं चुंबत्यथ वहति पाणौ किमधिकं वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति ॥ २९ ॥ अभेदप्रत्यूह: सकलहरिदुल्लासनविधिर्विलोनी लोकानां स हि नयनतापोऽपि कमले । तवास्मिन्पीयूषं किरति वदने रम्यवदने कुतो हेतोश्चेतो विधुरयमुदेति स्म जलधे: ॥ ३० ॥ मुखांभोजे मंदस्मितमधुरकांत्या विकसतां द्विजानां ते हीरावलिविहितनीराजनरुचाम् । इयं ज्योत्स्ना काऽपि स्रवदमृतसंदोहसरसा ममोद्यद्दारिद्र्यज्वरतरुणतापं तिरयतु ॥ ३१ ॥ कुलै: कस्तूरीणां भृशमनिशमालास्यमपि च प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् । वहन्त: सौरभ्यं मृदुगतिविलासा मम शिवं तव श्वासा नासापुटविहितवासा विदधताम् ॥ ३२ ॥ कपोले ते दोलायितललितलोलालकवृते विमुक्ताद्धम्मिल्लाल्लसति नवमुक्तावलिरियम् । स्वकीयानां बंदीकृतमसहमानैरिव बलान्निबध्योर्ध्वं कृष्टातिमिरनिकुरंबैर्विधुकसा ॥ ३३ ॥ प्रसादो यस्यायं नमदमितगीर्वाणमुकुटप्रसर्पज्ज्योत्स्नाभिश्चरणतलपीठार्चितविधि: । दृगंभोजं तत्ते गतिहसितमत्तेभगमने वने लीनैर्दीनै: कथय कथमीयादिह तुलाम् ॥ ३४ ॥ दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा । दहती दारिद्र्यद्रुमकुलमुदारद्रविणदा त्वदीया दृष्टिमे जननि दुरदृष्टं दलयतु ॥ ३५ ॥ तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी सदैव श्रीनारायणगुणगणौघप्रणयिनी । रवैर्दीनां लीनामनिशमवधानातिशयिनीं ममाप्येतां वाचं जलधितनये गोचरयताम् ॥ ३६ ॥ प्रभाजालै: प्राभातिकदिनकराभापनयनं तवेदं खेदं मे विघटयतु ताटंकयुगलम् । महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां जगत्पायं पायं स्वपिति निरपायं तव पति: ॥ ३७ ॥ निवासो मुक्तानां निबिडतरनीलांबुदनिभस्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् । भृशं यस्मिन्कालागरुबहुलसौरम्यनिवहै: पतंति श्रीभिक्षार्थि न इव मदांधामधुलिह: ॥ ३८ ॥ विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ करोन्नीतैरंचन्मणिकलशमुग्धास्यगलितै: । निषिंचंतौ मुक्तामणिगणचयैस्त्वां जनगणैर्नमस्यामो दामोदरगहिणि दारिद्र्यदलिता: ॥ ३९ ॥ अये मातर्लक्ष्मि त्वदरुणपदांभोजनिकटे लुठंतं बालं मामविरलगलद्वाष्पजटिलम् । सुधासेकस्निग्धैरतिमसृणमुग्धै: करतलै: स्पृशंती मारोदीरिति वद समाश्वास्यसि कदा ॥ ४० ॥ रमे पद्मे लक्ष्मि प्रणतजन कल्पद्रुमलते सुधांभोधे: पुत्रि त्रिदशनिकरोपास्तचरणे । परे नित्यं मातर्गुणमयि परब्रह्ममहिले जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥ ४१ ॥ इति पंडितश्रीजगन्नाथविरचिता लक्ष्मीलहरि: समाप्ता । N/A N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP