मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे| सञ्जय उवाच- धार्तराष्ट्रब... देवी स्तोत्रे उमाशतकम् अयि गिरिनंदिनि नंदितमेदिन... प्रातः स्मरामि ललितावदनार... विज्ञापनार्हविरलावसरानवाप... जय भगवति देवि नमो वरदे जय... निशुम्भशुम्भमर्दिनीं प्रच... मुद्रा स्वस्ति श्रीमदखिलभ... पाण्डित्यं परमेश्वरि स्तु... श्रीशङ्करगुरुत्तंससमर्चित... प्रातः स्मरामि ललितावदनार... सुवक्षोजकुम्भां सुधापूर्ण... श्रीभारतीतीर्थमहास्वामिभि... विराटनगरं रम्यं गच्छमानो ... सञ्जय उवाच- धार्तराष्ट्रब... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... अम्ब प्रसीद वरदा भव दुःखह... अपराधसहस्राणि क्रियन्तेऽह... आदिलक्ष्मीः द्विभुजाञ्च द... उषसि मागधमंगलगायनैर्झटिति... अयिगिरिनन्दिनि नन्दितमेदि... नमस्ते शरण्ये शिवे सानुकम... विरिञ्च्यादिभिः पञ्चभिर्ल... लक्ष्मीशे योगनिद्रां प्रभ... सिन्दूरारुणकान्तिमब्जवसति... लक्ष्मीशे योगनिद्रां प्रभ... नमस्ते शरण्ये शिवे सानुकम... करवाणि वाणि किं वा जगति प... प्रातः स्मरामि ललितावदनार... ध्यायेत् हेमांबुजारूढां व... हर हर शंभो गौरीश! शिव शिव... उद्यच्चन्दनकुङ्कुमारुणपयो... बन्धूकवर्णामरुणां सुगात्र... सञ्जय उवाच- धार्तराष्ट्रब... कल्याणायुतपूर्णचन्द्रवदना... गौरीं काञ्चनपद्मिनीतटगृहा... विराटनगरं रम्यं गच्छमानो ... ॐ जटाजूटसमायुक्तामर्द्धेन... प्रस्तावना क्षमस्व भगवत्यंब क्षमाशील... कदंबवनचारिणीं मुनिकदम्बका... समुन्मीलन्नीलांबुजनिकरनीर... ॐ अस्य श्रीन्द्राक्षीस्तो... षडाधारपंकेरुहांतर्विराजत्... श्रेयस्करि शमनिवरिणि विद्... अम्ब शशिबिम्बवदने कम्बुग्... नमस्ते शरण्ये शिवे सानुकम... घोररूपे महारावे सर्वशत्रु... याज्ञवल्क्य उवाच— कृपां... श्रीगणेशाय नमः ॥ पद्मे... श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् त्रिपुरसुन्दरीमानसपूजास्तोत्रम् देवीचतुःषष्ट्युपचारपूजास्तोत्रम् चेटी भवन्निखिल केटी कदम्ब... ॥ॐ ॥ ॥श्री दुर्गायै नम... ॥ॐ अस्य श्रीदुर्गासप्तश्ल... श्री॥श्रीचण्डिकाध्यानम् ॐ... ॐ नमश्चण्डिकायै मार्कण्डे... ॐ नमश्चण्डिकायै मार्कण्डे... अथ देव्याः कवचम् हारनूपुरकिरीटकुण्डलविभूषि... प्रातः स्मरामि ललिता वदना... धनदा उवाच देवी देवमुपागम्... अहं रुद्रेभिरित्यादिमन्त्... धनदा उवाच देवी देवमुपागम्... ॥त्यागराजविरचितः कल्याणाम... गणेशः । हरिद्राभंचतुर्वाद... श्रीगुरुचरणसरोजं श्रीकरभव... विबुधाधिपतेजिनीशकान्ते वद... ॐ नमस्ते सते सर्वलोकाश्रय... ॥श्रीगोकर्णनिकेता श्रीविद... जय भगवति देवि नमो वरदे जय... मीनाक्षी सुन्दरेश्वर स्तोत्रम् शिवोमा परमा शक्तिरनन्ता न... भगवतीपद्यपुष्पांजलिस्तोत्र उद्यद्भानु सहस्रकोटिसदृशा... श्रीविद्ये शिववामभागनिलये... गुरुश्च गुरुपुत्रश्च ये च... श्रीदेव्युवाच देवदेव महदे... अम्बा शाम्भवि चन्द्रमौलिर... त्यागराजविरचितः या त्रैलो... पाकामृतांशुमकुटाभरणा भवान... क्षमस्व भगवंत्यव क्षमाशील... लघुषोडशार्णकलाविलासः ॥शक्तिसूत्र ॥ अथ शक्तिसू... त्यागराजविरचितः॥स्वानन्दम... आदिशक्ते जगन्मातर्भक्तानु... का त्वं शुभकरे सुखदुःखहस्... अंभोधरश्यामलकुन्तलायै तटि... आदिलक्ष्मी ॥ सुमनसवन्दित... नमः सर्व स्वरूपे च नमो कल... करकलितचापबाणां कल्हाराङ्घ... श्री शङ्कराचार्य कृतम् । ... अङ्गं हरेः पुलकभूषणमाश्रय... श्रीः॥ कल्याणवृष्टिभिरिव... श्री देवी ध्यानम् जगदवन व... ॐ नमश्चण्डिकायै मार्कण्डे... देवि सुरेश्वरि भगवति गंगे... या देवी सर्वभूतेषु विष्णु... देवी खड्गमाला स्तोत्ररत्नम उपनिषद दुर्गास्तोत्रम् - सञ्जय उवाच- धार्तराष्ट्रब... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : devidurgasanskritstotraदुर्गादेवीसंस्कृतस्तोत्र महाभारतान्तर्गतम्, महाभारत युद्ध सुरू करण्यापूर्वी अर्जुनाने केलेली दुर्गा स्तुती. Translation - भाषांतर सञ्जय उवाच-धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम् ।अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ॥१॥श्री भगवानुवाच-शुचिर्भूत्वा महाबाहो ! संग्रामाभिमुखे स्थितः ।पराजयाय शत्रूणां दुर्गास्तोत्रमुदीरय ॥२॥सञ्जय उवाच-एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता ।अवतीर्य रथात्पार्थः स्तोत्रमाह कृताञ्जलिः ॥३॥अर्जुन उवाच-नमस्ते सिद्धसेनानि! आर्ये! मन्दरवासिनि !कुमारि! कालि! कापालि! कपिले! कृष्णपिङ्गले ॥४॥भद्रकालि! नमस्तुभ्यं महाकालि! नमोऽस्तु ते ।चण्डिचण्डे! नमस्तुभ्यं तारिणि! वरवर्णिनि! ॥५॥कात्यायनि! महाभागे! करालि! विजये! जये! ।शिखिपिच्छध्वजधरे! नानाभरणभूषिते! ॥६॥अट्टशूलप्रहरणे! खड्गखेटकधारिणि! ।गोपेन्द्रस्यानुजे! ज्येष्ठे! नन्दगोपकुलोद्भवे! ॥७॥महिषासृक्प्रिये नित्यं कौशिकि! पीतवासिनि! ।अट्टहासे! कोकमुखे! नमस्तेऽस्तु रणप्रिये! ॥८॥उमे! शाकंभरि! श्वेते! कृष्णे! कैटभनाशिनि! ।हिरण्याक्षि! विरूपाक्षि! सुधूम्राक्षि! नमोऽस्तु ते ॥९॥वेदश्रुति! महापुण्ये! ब्रह्मण्ये! जातवेदसि! ।जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥१०॥त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् स्कन्दमातर्भगवति! दुर्गे! कान्तारवासिनि! ॥११॥स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती ।सावित्री वेदमाता च तथा वेदान्त उच्यते ॥१२॥स्तुतासि त्वं महादेवि! विशुद्धेनान्तरात्मना ।जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥१३॥कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।नित्यं वससि पाताले युद्धे जयसि दानवान् ॥१४॥त्वंजम्भनी मोहिनी माया ह्रीः श्रीस्तथैव च ।संध्या प्रभावती चैव सावित्री जननी तथा ॥१५॥तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी ।भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥१६॥सञ्जय उवाच-ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला ।अन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता ॥१७॥देव्युवाच-स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव ।नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ॥१८॥अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् ।इत्येवमुक्त्वावरदा क्षणेनान्तरधीयत ॥१९॥लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः ।आरुरोह ततः पार्थो रथं परमसंमतम् ।कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौ प्रदध्मतुः ॥२०॥य इदं पठते स्तोत्रं कल्य उत्थाय मानवः ।यक्षरक्षः पिशाचेभ्यो न भयं विद्यते सदा ॥२१॥न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ।न भयं विद्यते तस्य सदा राजकुलादपि ॥२२॥विवादे जयमाप्नोति बद्धो मुच्यति बन्धनात् ।दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते ॥२३॥संग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ।अरोग्यबलसंपन्नो जीवेद्वर्षशतं तथा ॥२४॥मोहादेतौ न जानन्ति नरनारायणावृषी ।तव पुत्राः दुरात्मानः सर्वे मन्युवशानुगाः ॥२५॥प्राप्तकालमिदं वाक्यं कालपाशेन कुण्ठिताः ।द्वैपायनो नारदश्च कण्वो रामस्तथानघः ।अवारयंस्तव सुतं न चासौ तद्गृहीतवान् ॥२६॥यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः ।यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥२७॥ ॥इति महाभारतान्तर्गतं दुर्गास्तोत्रं संपूर्णम् ॥ N/A References : N/A Last Updated : February 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP