मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
॥त्यागराजविरचितः कल्याणाम...

धर्माम्बिकास्तवः - ॥त्यागराजविरचितः कल्याणाम...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.


॥त्यागराजविरचितः कल्याणामृतकामधेनुमहिले कामप्रियाहर्षदे कारुण्यामृतवापिके पिकशिशुस्वानन्दसल्लापिनि ।
कामेशप्रियकामकल्पलतिके कादम्बवाटीप्रिये देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१ ॥
एणीबालविलोचने फणिमणिश्रेणीलसत्कङ्कणे तूणीराकृतजङ्घिके त्रिनयने स्थाणोर्मनोहारिणि ।
वाणीपाणिसरोजवादितलसद्वीणास्वरालापिके देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥२ ॥
ईशित्वादिविभूतिकस्वविभवे ईकारसिंहासने इन्द्राणीपठितस्तुते इहपरत्राणध्वजे इन्दिरे ।
ईशानादिसुरेन्द्रसेवकजने ईशाधिराजेश्वरी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥३ ॥
लावण्याब्धिपयोजवक्त्रनयने लक्ष्मीकरालोकने लक्ष्मीकान्तनिषेविताङ्घ्रिकमले लम्बोदरश्रीकरि ।
लक्ष्यालक्ष्यविलक्षणे क्षणवतां स्वानन्दवृद्धिप्रदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥४ ॥
ह्रीपाशादिविमोचनेऽतिचतुरे हृद्ग्रन्थिविच्छेदिके हृद्यानन्दसुधारसार्द्रमधुना संतर्पणाह्लादिनि ।
ह्रींकारार्थजगद्विलासविभवे विद्ये विमर्शात्मिके देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥५ ॥
हस्तिश्रेष्ठसुकुम्भसंनिभकुचे हर्यक्षमध्ये शुभे हेमाब्जाननपाणिपादनयने चन्द्रार्धफाले शिवे ।
हे मारारिमतेर्विमोहदलसन्नीलालके निर्मले देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥६ ॥
सत्यानन्दचिदीश्वरप्रणयिनी सौभाग्यरत्नाकरी साम्राज्यप्रभुदेशिकेन्द्रकरुणास्यन्दामृतस्वर्धुनी ।
सर्वाशारहितस्य भक्तहृदयस्यानन्दकादम्बिनी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥७ ॥
कल्पे कालकलेशि कल्पकलने संकल्पसिद्धाखिले कालाकालविभागकल्पनकले कालान्तकप्रेयसि ।
कालोपाधिविवर्जिते कलिमलप्रध्वंसिनी कामदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥८ ॥
हक्षद्वन्द्वदलत्रिकोणविलसज्ज्योत्स्नाकलाराधिते हंसद्वन्द्वगतिप्रबोधजननश्रीदेशिकेन्द्रात्मिके ।
हंसारोहविचक्षणे अभयदे आनन्दसंवर्धिनी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥९ ॥
लज्जानम्रमुखे प्रनृत्यति शिवे लास्यप्रिये लक्षणे लक्ष्यार्थे लयवर्जिते ललितवाक्पीयूषसंदोहिनि ।
लक्ष्मीमानसराजहंसि ललिते लामज्जगन्धप्रिये देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१० ॥
ह्रींकारे हृदयत्रिकोणनिलये हृद्ये सुराराधिते ह्रींकारध्वनिलीनचित्तसुलभे हृष्टेश्वरेष्टेश्वरि ।
ह्रींकाराग्निमुखप्रशान्तकलनासर्वज्ञसाम्राज्यदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥११ ॥
सत्यासत्यविवर्जिते समरसे संविल्लते शाश्वते सर्वज्ञानविबोधिनीशकरुणे सौभाग्यविद्यामयि ।
सच्चित्सौख्यविलासकेलिकुतुके सर्वापवर्गात्मिके देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१२ ॥
कर्माकर्मविवर्जिते कविमुखे वाग्वृष्टिकादम्बिनी काव्यालापविबोधिनीशकलिके कौमारि कात्यायनि ।
कान्तार्धेन्दुविभूषणे स्मरकले श्रीकामकोटीश्वरी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१३ ॥
लब्धश्रीकमलालयालयलसत्कामेश्वरप्रेयसी लाक्षारक्तरसप्रलिप्तचरणद्वन्द्वे लघुश्यामले ।
लौहित्यच्छविपाटलीसुमपदे पर्याप्तकामप्रदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१४ ॥
ह्रींकारोत्थितनादसंततिसुधाधाराभिसंतर्पिते ह्रींकारत्रयमन्त्रविद्रुमलताज्योतिःस्वरूपे परे ।
ह्रींकाराक्षररूपिणि त्रिभुवनश्रीराजराजेश्वरी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१५ ॥
मूलालवालजपराविटपिप्रसूनै- रभ्यर्चिता श्रुतिरहस्यसुगन्धगन्धैः ।
प्रस्पन्दिधीपवनचालितवाङ्मयैस्त्वं त्यागाधिराजमहिषी वरदे प्रसीद ॥१६ ॥
इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितः धर्माम्बिकास्तवः संपूर्णः

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP