मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे| बन्धूकवर्णामरुणां सुगात्र... देवी स्तोत्रे उमाशतकम् अयि गिरिनंदिनि नंदितमेदिन... प्रातः स्मरामि ललितावदनार... विज्ञापनार्हविरलावसरानवाप... जय भगवति देवि नमो वरदे जय... निशुम्भशुम्भमर्दिनीं प्रच... मुद्रा स्वस्ति श्रीमदखिलभ... पाण्डित्यं परमेश्वरि स्तु... श्रीशङ्करगुरुत्तंससमर्चित... प्रातः स्मरामि ललितावदनार... सुवक्षोजकुम्भां सुधापूर्ण... श्रीभारतीतीर्थमहास्वामिभि... विराटनगरं रम्यं गच्छमानो ... सञ्जय उवाच- धार्तराष्ट्रब... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... अम्ब प्रसीद वरदा भव दुःखह... अपराधसहस्राणि क्रियन्तेऽह... आदिलक्ष्मीः द्विभुजाञ्च द... उषसि मागधमंगलगायनैर्झटिति... अयिगिरिनन्दिनि नन्दितमेदि... नमस्ते शरण्ये शिवे सानुकम... विरिञ्च्यादिभिः पञ्चभिर्ल... लक्ष्मीशे योगनिद्रां प्रभ... सिन्दूरारुणकान्तिमब्जवसति... लक्ष्मीशे योगनिद्रां प्रभ... नमस्ते शरण्ये शिवे सानुकम... करवाणि वाणि किं वा जगति प... प्रातः स्मरामि ललितावदनार... ध्यायेत् हेमांबुजारूढां व... हर हर शंभो गौरीश! शिव शिव... उद्यच्चन्दनकुङ्कुमारुणपयो... बन्धूकवर्णामरुणां सुगात्र... सञ्जय उवाच- धार्तराष्ट्रब... कल्याणायुतपूर्णचन्द्रवदना... गौरीं काञ्चनपद्मिनीतटगृहा... विराटनगरं रम्यं गच्छमानो ... ॐ जटाजूटसमायुक्तामर्द्धेन... प्रस्तावना क्षमस्व भगवत्यंब क्षमाशील... कदंबवनचारिणीं मुनिकदम्बका... समुन्मीलन्नीलांबुजनिकरनीर... ॐ अस्य श्रीन्द्राक्षीस्तो... षडाधारपंकेरुहांतर्विराजत्... श्रेयस्करि शमनिवरिणि विद्... अम्ब शशिबिम्बवदने कम्बुग्... नमस्ते शरण्ये शिवे सानुकम... घोररूपे महारावे सर्वशत्रु... याज्ञवल्क्य उवाच— कृपां... श्रीगणेशाय नमः ॥ पद्मे... श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् त्रिपुरसुन्दरीमानसपूजास्तोत्रम् देवीचतुःषष्ट्युपचारपूजास्तोत्रम् चेटी भवन्निखिल केटी कदम्ब... ॥ॐ ॥ ॥श्री दुर्गायै नम... ॥ॐ अस्य श्रीदुर्गासप्तश्ल... श्री॥श्रीचण्डिकाध्यानम् ॐ... ॐ नमश्चण्डिकायै मार्कण्डे... ॐ नमश्चण्डिकायै मार्कण्डे... अथ देव्याः कवचम् हारनूपुरकिरीटकुण्डलविभूषि... प्रातः स्मरामि ललिता वदना... धनदा उवाच देवी देवमुपागम्... अहं रुद्रेभिरित्यादिमन्त्... धनदा उवाच देवी देवमुपागम्... ॥त्यागराजविरचितः कल्याणाम... गणेशः । हरिद्राभंचतुर्वाद... श्रीगुरुचरणसरोजं श्रीकरभव... विबुधाधिपतेजिनीशकान्ते वद... ॐ नमस्ते सते सर्वलोकाश्रय... ॥श्रीगोकर्णनिकेता श्रीविद... जय भगवति देवि नमो वरदे जय... मीनाक्षी सुन्दरेश्वर स्तोत्रम् शिवोमा परमा शक्तिरनन्ता न... भगवतीपद्यपुष्पांजलिस्तोत्र उद्यद्भानु सहस्रकोटिसदृशा... श्रीविद्ये शिववामभागनिलये... गुरुश्च गुरुपुत्रश्च ये च... श्रीदेव्युवाच देवदेव महदे... अम्बा शाम्भवि चन्द्रमौलिर... त्यागराजविरचितः या त्रैलो... पाकामृतांशुमकुटाभरणा भवान... क्षमस्व भगवंत्यव क्षमाशील... लघुषोडशार्णकलाविलासः ॥शक्तिसूत्र ॥ अथ शक्तिसू... त्यागराजविरचितः॥स्वानन्दम... आदिशक्ते जगन्मातर्भक्तानु... का त्वं शुभकरे सुखदुःखहस्... अंभोधरश्यामलकुन्तलायै तटि... आदिलक्ष्मी ॥ सुमनसवन्दित... नमः सर्व स्वरूपे च नमो कल... करकलितचापबाणां कल्हाराङ्घ... श्री शङ्कराचार्य कृतम् । ... अङ्गं हरेः पुलकभूषणमाश्रय... श्रीः॥ कल्याणवृष्टिभिरिव... श्री देवी ध्यानम् जगदवन व... ॐ नमश्चण्डिकायै मार्कण्डे... देवि सुरेश्वरि भगवति गंगे... या देवी सर्वभूतेषु विष्णु... देवी खड्गमाला स्तोत्ररत्नम उपनिषद स्वयंवर पार्वती स्तोत्रम् - बन्धूकवर्णामरुणां सुगात्र... देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्कल्याणकारी तसेच दुष्टांचा संहार करणारीही आहे.The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times Tags : devigoddessstotraदेवीस्तोत्र स्वयंवर पार्वती स्तोत्रम् (मन्त्रमाला स्तोत्रम्) Translation - भाषांतर बन्धूकवर्णामरुणां सुगात्रांशंभुं समुद्दिश्य शनैरुपेताम् ।अम्भोजमृद्वीमभिलाषदात्रींसंभावये निर्जरदारुकल्पाम् ॥१॥ ह्रींमन्थराणि चरणाग्र गतिप्रपाते-ष्वामञ्जुसंक्वणित कङ्कण किङ्किणीनि ।कामं कुमारि! तव तानि शिवे! स्मरामिक्षेमङ्कराणि जनकालय खेलनानि ॥२॥योगेन बाल्यवयसो ललितां पुरस्तात्द्रागेव कण्ठविलसत् कनकोर्मिकौघाम् ।आकम्रनद्धरशनां भवतीं निरीक्षेश्रीकण्ठभामिनि कदा प्रपदीनवेणीम् ॥३॥गीर्यल्पमुग्धविशदं,नवयौवनश्री-धुर्यं,विलासमयमक्ष्णि,कृशं विलग्ने ।पर्युच्छ्रितं कुचभरे,जघने घनं यत्पर्युत्सुकोऽस्मि सततं जननि प्रसीद ॥४॥निर्धूतकुण्डलमुदञ्चितघर्मलेशंविस्रस्तकेशमभितश्चलदीक्षणान्तम् ।निर्ध्वानिकङ्कणमुदग्रकुचान्तमन्त-र्बध्नामि तातगृहकन्दुकखेलनं ते ॥५॥योगेश्वरं प्रचुरभक्ति गिरीशमारा- देकान्तवर्तिनमुपेत्य तपश्चरन्तम् ।आकांक्षया परिचरिष्णुमनाकुलां त्वांये केचिदीश्वरि भजन्ति त एव धन्याः ॥६॥गिर्यात्मजे! मदनदाहमहावमान-पर्याकुला पुरहरे हृदयं निधाय ।कुर्यास्तपो विदधती कुशलानि भूभृत्-पर्यायपीनकुचकुम्भविशुंभदङ्गी ॥७॥निध्याय मानसदृशा मुहुरिन्दुचूडंमध्ये स्थिता रहसि पञ्चहुताशनानां ।तत्तादृशेन तपसा जगदण्डभाजांवित्रासदात्रि! परिपाहि सदाशिवे! नः ॥८॥योग्यं वटोर्वपुरुपस्थितमात्मभक्तिंदीर्घां परीक्षितुमनुक्षणमाक्षिपन्तं ।साक्षात् गिरीशमवधूय त्वया प्रयातेद्राक्तेन संश्रितपदां भवतीं भजामः ॥९॥गेहे निजे वरणदामलसत्कराब्जां ।व्याहारिनूपुरमुदञ्चितमन्दहासां ।नीहारभानुधरमुच्चलितां वरीतुंमोहावहां त्रिभुवनस्य भजामहे त्वाम् ॥१०॥श्वस्ताहि कङ्कणविलोकनभीतभीतंप्रत्यग्ररागविवशं मम तं निधेहि ।उत्स्वेदवेपथु पिनाकिभृता गृहीतंरुद्राणि दक्षिणकरांबुजमुत्तमाङ्गे ॥११॥रिष्टापहं भवतु भर्तृनखेन्दुबिंब-स्पष्टानुबिंबिततनुं विबुधापगां ताम् ।दृष्ट्वाशु रागरभसोदयशोणकोणंदृष्टिद्वयं तव करग्रहणे स्थितं नः ॥१२॥योगे नवे तव भवानि शिवानि दद्यात्द्रागेव सत्वरमपत्रपया निवृत्तम् ।साकम्पमालिवचनैर्विहिताभिमुख्यंद्रागुत्स्मितं पुरभिदा परिरब्धमङ्गम् ॥१३॥गत्या नितंबभरमन्थरया सलज्जै-रर्धेक्षणैरसकलाक्षरवाग्विलासैः ।हृद्यैश्च विभ्रमगुणैर्मदनारिधैर्य-प्रस्तारहारिणिशिवे! जननि! प्रसीद ॥१४॥भद्रा मुखेन्दुनमनादभिवीक्षणेषुप्रत्युक्तिदानविरमान्नवसत्कथासु ।उद्वेपनादपि हठात् परिरंभणेषुपत्युः प्रमोदजननी जननि! प्रसीद ॥१५॥यं नाथमादिमुनयो निगमोक्तिगुंभे-ष्वालक्ष्य तान्तमनसो विमुखी भवन्ति ।सन्नह्य तेन दयितेन मनोजविद्या-नन्दानुभूतिरसिके! जननि! प्रसीद ॥१६॥कल्याणकुन्तलभरं नवकल्पवल्ली-पुष्पोल्लसद् बहुलसौरभलोभनीयम् ।कल्याणधाम शशिखण्डमखण्डशोभा-कल्लोलितं तव महेश्वरि संश्रयामः ॥१७॥रिञ्चोलिका तव शिवे! निटिलालकानांन्यञ्चत् पटीर तिलके निटिले विभान्ती ।मञ्जुप्रसन्नमुखपद्म विहारि लक्ष्मी-पिञ्छातपत्ररुचिरा हृदि नः समिन्धाम् ॥१८॥सम्यग्भ्रुवौ तव विलासभुवौ स्मरामःसंमुग्ध मन्मथ शरासन चारुरूपे ।हृन्मध्यगूढनिहितं हरधैर्यलक्ष्यंयन्मूलयन्त्रितकटाक्षशरैर्विभिन्नम् ॥१९॥कम्राः सितासितरुचा श्रवणान्तदीर्घाःबिम्बोकडम्बरभृतो निभृतानुकम्पाः ।संपातुका मयि भवन्तु पिनाकिवक्त्र-बिंबाम्बुजन्ममधुपाः सति! ते कटाक्षाः ॥२०॥लग्नाभिराममृगनाभि विचित्रपत्रंमग्नं प्रभासमुदये तव गण्डबिम्बम् ।चित्ते विभातु सततं मणिकुण्डलोद्य-द्रत्नानुबिम्बपरिचुंबितमंबिके नः ॥२१॥स्थाणोः सदा भगवतः प्रियतानिधानंप्राणादपि प्रविललत्स्मितलोभनीयम् ।स्थानीकुरुष्व गिरिजे! तव बन्धुजीव-श्रेणीसगन्धमधरं धिषणान्तरे नः ॥२२॥वन्दामहे कनकमंगलसूत्रशोभा-सन्दीप्तकुङ्कुमवलित्रयभंगि रम्यम् ।मन्द्रादिकस्वर विकस्वरनादविद्या-सन्दर्भगर्भमगजे! तव कण्ठनालम् ॥२३॥रक्षार्थमत्र मम मूर्धनि धत्स्व नित्यंदक्षारिगाढपरिरंभरसानुकूलम् ।अक्षामहेमकटकाङ्गदरत्नशोभंलाक्षाविलं जननि! पाणियुगं त्वदीयम् ॥२४॥जंभारिकुम्भिवरकुम्भनिभामुरोज-कुंभद्वयी ललितसंभृतरत्नमालाम् ।शंभोर्भुजैरनुदिनं निबिडाङ्कपाली-संभावितां भुवनसुन्दरि! भावयामः ॥२५॥गर्वापहे वटदलस्य तनूदरान्तेनिर्व्यूढभासि तव नाभिसरस्यगाधे ।शर्वावलोकरुचि मेदुररोमवल्ली-निर्वासिते वसतु मे धिषणामराली ॥२६॥मच्चेतसि स्फुरतु माररथाङ्गभंगींउच्चैर्द्दधानमतिपीवरतानिधानम् ।स्वच्छन्दरत्नरशनाकलितान्तरीय-प्रच्छन्नमम्ब! तव कम्रनितंबबिम्बम् ॥२७॥स्यन्दानुरागमदवारिपुरारिचेत-स्सन्नागबन्धमणिवेणुकमूरुकाण्डम् ।बन्दीकृतेन्द्रगजपुष्करमुग्धरंभंनन्दाम सुन्दरि! शिवे! हृदि सन्दधानाः ॥२८॥मुग्धोल्लसत्कनकनूपुरनद्ध नाना-रत्नाभयोर्ध्वगतया परितोऽभिरामम् ।चित्तप्रसूति जयकाहलकान्ति जंघा-युग्मं त्वदीयमगनन्दिनि! चिन्तयामः ॥२९॥खट्वांगपाणिमकुटेन तदा तदा सं-घृष्टाग्रयोः प्रणतिषु प्रणयप्रकोपेअष्टाङ्गपातसहितं प्रणतोस्मि लब्धु-मिष्टां गतिं जननि! पादपयोजयोस्ते ॥३०॥हृद्यर्पणं मम मृजन्तु तदा त्वदंग-मुद्यद्रविद्युति भवेदिह सानुबिम्बम् ।उत्तुङ्गदैत्यसुरमौलिभिरुह्यमाना:रुद्रप्रिये! तव पदाब्जभवाः परागाः ॥३१॥दद्यात् सुखानि मम चक्रकलान्तरस्थारक्तांबराभरणमाल्यधरा जपाभा ।रुद्राणि पाशसृणिचापशराग्रहस्ताकस्तूरिकातिलकिनी नवकुंकुमार्द्रा ॥३२॥यत्पङ्कजन्मसुषमंकरपद्मशुंभ-दंभोरुहं भुवनमङ्गलमाद्रियन्ते ।अंभोरुहाक्षसुकृतोत्करपाकमेकंसंभावये हृदि शिवे! तव शक्तिभेदम् ॥३३॥मन्दारकुन्दसुषमा करपल्लवोद्यत्पुण्याक्षदामवरपुस्तकपूर्णकुंभा ।चन्द्रार्धचारुमकुटा नवपद्मसंस्थासन्देदिवीतु भवती हृदि नस्त्रिनेत्रा ॥३४॥मध्येकदंबवनमास्थितरत्नडोलांउद्यन्नखाग्रमुखरीकृतरत्नवीणाम् ।अत्यन्तनीलकमनीयकलेबरां त्वांउत्संगलालित मनोज्ञ शुकीमुपासे ॥३५॥वर्तामहे मनसि सन्दधतीं नितान्त-रक्तां वराभयविराजिकरारविन्दाम् ।उद्वेलमध्यवसतिं मधुरांगि! मायांतत्त्वात्मिकां भगवतीं भवतीं भजन्तः ॥३६॥शंभुप्रियां शशिकलाकलितावतंसांसंभाविताभयवरां कुशपाशपाणिम् ।संपत्प्रदाननिरतां भुवनेश्वरीं त्वांशुम्भज्जपारुचमपारकृपामुपासे ॥३७॥आरूढतुङ्गतुरगां मृदुबाहुवल्लींआरूढपाशसृणिवेत्रलतां त्रिनेत्राम् ।आरोपितामखिलसन्तनने प्रगल्भांआराधयामि भवतीं मनसा मनोज्ञाम् ॥३८॥कर्मात्मिके जयजयाखिलधर्ममूर्तेचिन्मात्रिके जय जय त्रिगुणस्वरूपे ।कल्माषघर्मपिशुनान् करुणामृतार्द्रैःसंमार्ज्य सम्यगभिषिञ्च दृगञ्चलैर्नः ॥३९॥षण्णामसि त्वमधिदैवतमक्षराणांवर्णत्रयोदितमनुप्रकृतिस्त्वमेव ।त्वन्नाम विश्वमनुशक्तिकलं त्वदन्यत्किन्नाम दैवतमिहास्ति समस्तमूर्ते ॥४०॥या कापि विश्वजनमोहनदिव्यमायाश्री कामवैरिवपुरर्धहरानुभावा ।प्राकाश्यते जगदधीश्वरि! सा त्वमस्मान्मूकाननन्यशरणान् परिपाहि दीनान् ॥४१॥कर्त्र्यै नमोऽस्तु जगतो निखिलस्यभर्त्र्यैहर्त्र्यै नमोऽस्तु विधिविष्णुहरात्मशक्त्यै ।भुक्त्यै नमोऽस्तु भुवनाभिमतप्रसूत्यैमुक्त्यै नमोऽस्तु मुनिमण्डलदृश्यमूर्त्यै ॥४२॥षड्वक्त्रहस्तिमुखजुष्टपदस्य भर्तु-रिष्टोपगूहनसुधाप्लुतमानसस्यदृष्ट्या निपीय वदनेन्दुमदक्षिणाङ्केतुष्ट्या स्थिते! वितर देवि! दयावलोकान् ॥४३॥यत्नान्तरं भवितृभूतभवं मया यत्स्वप्नप्रजागरसुषुप्तिषु वाङ्मनोऽङ्गैः ।नित्यं त्वदर्चनकलासु समस्तमेतत्भक्तानुकम्पिनि! ममास्तु तव प्रसादात् ॥४४॥स्वाहेति सागरसुतेति सुरापगेतिव्याहाररूपसुषमेति हरिप्रियेति ।नीहारशैलतनयेति पृथक्प्रकाश-रूपां परेशमहिषीं भवतीं भजामः ॥४५॥हारस्फुरत्कुचगिरे! हरजीवनाथे!हारिस्वरूपिणि! हरिप्रमुखाभिवन्द्ये! ।हेरंबशक्तिधरनन्दिनि! हेमवर्णे!हे चण्डि! हैमवति! देवि!नमोनमस्ते ॥४६॥ये तु स्वयंवरमहास्तवमन्त्रमेतंप्रातर्नराः सकलसिद्धिकरं जपन्ति ।भूतिप्रभावजनरञ्जनकीर्तिसौन्द-र्यारोग्यमायुरपि दिर्घममी लभन्ते ॥४७॥शतक्रतुप्रभृत्यमर्त्यतत्यभिप्रणित्युप-क्रमप्रसृत्वरस्मितप्रभाञ्चितास्यपङ्कजे! ।हरप्रिये! वरप्रदे! धराधरेन्द्रकन्यकेहरिद्रया समन्विते दरिद्रतां हर द्रुतं ॥४८॥ N/A References : N/A Last Updated : January 03, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP