मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे| त्यागराजविरचितः या त्रैलो... देवी स्तोत्रे उमाशतकम् अयि गिरिनंदिनि नंदितमेदिन... प्रातः स्मरामि ललितावदनार... विज्ञापनार्हविरलावसरानवाप... जय भगवति देवि नमो वरदे जय... निशुम्भशुम्भमर्दिनीं प्रच... मुद्रा स्वस्ति श्रीमदखिलभ... पाण्डित्यं परमेश्वरि स्तु... श्रीशङ्करगुरुत्तंससमर्चित... प्रातः स्मरामि ललितावदनार... सुवक्षोजकुम्भां सुधापूर्ण... श्रीभारतीतीर्थमहास्वामिभि... विराटनगरं रम्यं गच्छमानो ... सञ्जय उवाच- धार्तराष्ट्रब... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... अम्ब प्रसीद वरदा भव दुःखह... अपराधसहस्राणि क्रियन्तेऽह... आदिलक्ष्मीः द्विभुजाञ्च द... उषसि मागधमंगलगायनैर्झटिति... अयिगिरिनन्दिनि नन्दितमेदि... नमस्ते शरण्ये शिवे सानुकम... विरिञ्च्यादिभिः पञ्चभिर्ल... लक्ष्मीशे योगनिद्रां प्रभ... सिन्दूरारुणकान्तिमब्जवसति... लक्ष्मीशे योगनिद्रां प्रभ... नमस्ते शरण्ये शिवे सानुकम... करवाणि वाणि किं वा जगति प... प्रातः स्मरामि ललितावदनार... ध्यायेत् हेमांबुजारूढां व... हर हर शंभो गौरीश! शिव शिव... उद्यच्चन्दनकुङ्कुमारुणपयो... बन्धूकवर्णामरुणां सुगात्र... सञ्जय उवाच- धार्तराष्ट्रब... कल्याणायुतपूर्णचन्द्रवदना... गौरीं काञ्चनपद्मिनीतटगृहा... विराटनगरं रम्यं गच्छमानो ... ॐ जटाजूटसमायुक्तामर्द्धेन... प्रस्तावना क्षमस्व भगवत्यंब क्षमाशील... कदंबवनचारिणीं मुनिकदम्बका... समुन्मीलन्नीलांबुजनिकरनीर... ॐ अस्य श्रीन्द्राक्षीस्तो... षडाधारपंकेरुहांतर्विराजत्... श्रेयस्करि शमनिवरिणि विद्... अम्ब शशिबिम्बवदने कम्बुग्... नमस्ते शरण्ये शिवे सानुकम... घोररूपे महारावे सर्वशत्रु... याज्ञवल्क्य उवाच— कृपां... श्रीगणेशाय नमः ॥ पद्मे... श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् त्रिपुरसुन्दरीमानसपूजास्तोत्रम् देवीचतुःषष्ट्युपचारपूजास्तोत्रम् चेटी भवन्निखिल केटी कदम्ब... ॥ॐ ॥ ॥श्री दुर्गायै नम... ॥ॐ अस्य श्रीदुर्गासप्तश्ल... श्री॥श्रीचण्डिकाध्यानम् ॐ... ॐ नमश्चण्डिकायै मार्कण्डे... ॐ नमश्चण्डिकायै मार्कण्डे... अथ देव्याः कवचम् हारनूपुरकिरीटकुण्डलविभूषि... प्रातः स्मरामि ललिता वदना... धनदा उवाच देवी देवमुपागम्... अहं रुद्रेभिरित्यादिमन्त्... धनदा उवाच देवी देवमुपागम्... ॥त्यागराजविरचितः कल्याणाम... गणेशः । हरिद्राभंचतुर्वाद... श्रीगुरुचरणसरोजं श्रीकरभव... विबुधाधिपतेजिनीशकान्ते वद... ॐ नमस्ते सते सर्वलोकाश्रय... ॥श्रीगोकर्णनिकेता श्रीविद... जय भगवति देवि नमो वरदे जय... मीनाक्षी सुन्दरेश्वर स्तोत्रम् शिवोमा परमा शक्तिरनन्ता न... भगवतीपद्यपुष्पांजलिस्तोत्र उद्यद्भानु सहस्रकोटिसदृशा... श्रीविद्ये शिववामभागनिलये... गुरुश्च गुरुपुत्रश्च ये च... श्रीदेव्युवाच देवदेव महदे... अम्बा शाम्भवि चन्द्रमौलिर... त्यागराजविरचितः या त्रैलो... पाकामृतांशुमकुटाभरणा भवान... क्षमस्व भगवंत्यव क्षमाशील... लघुषोडशार्णकलाविलासः ॥शक्तिसूत्र ॥ अथ शक्तिसू... त्यागराजविरचितः॥स्वानन्दम... आदिशक्ते जगन्मातर्भक्तानु... का त्वं शुभकरे सुखदुःखहस्... अंभोधरश्यामलकुन्तलायै तटि... आदिलक्ष्मी ॥ सुमनसवन्दित... नमः सर्व स्वरूपे च नमो कल... करकलितचापबाणां कल्हाराङ्घ... श्री शङ्कराचार्य कृतम् । ... अङ्गं हरेः पुलकभूषणमाश्रय... श्रीः॥ कल्याणवृष्टिभिरिव... श्री देवी ध्यानम् जगदवन व... ॐ नमश्चण्डिकायै मार्कण्डे... देवि सुरेश्वरि भगवति गंगे... या देवी सर्वभूतेषु विष्णु... देवी खड्गमाला स्तोत्ररत्नम उपनिषद राजराजेश्वरीस्तवः - त्यागराजविरचितः या त्रैलो... देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्कल्याण्कारी तसेच दुष्टांचा संहार करणारीही आहे. The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times. Tags : goddessstotraदेवीस्तोत्र राजराजेश्वरीस्तवः Translation - भाषांतर त्यागराजविरचितः या त्रैलोक्यकुटुम्बिका वरसुधाधाराभिसंतर्पिणी भूम्यादीन्द्रियचित्तचेतनपरा संविन्मयी शाश्वती । ब्रह्मेन्द्राच्युतवन्दितेशमहिषी विज्ञानदात्री सतां तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१॥ यां विद्येति वदन्ति शुद्धमतयो वाचां परां देवतां षट्चक्रान्तनिवासिनीं कुलपथप्रोत्साहसंवर्धिनीम् । श्रीचक्राङ्कितरूपिणीं सुरमणेर्वामाङ्कसंशोभिनीं तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥२॥ या सर्वेश्वरनायिकेति ललितेत्यानन्दसीमेश्वरी- त्यम्बेति त्रिपुरेश्वरीति वचसां वाग्वादिनीत्यन्नदा । इत्येवं प्रवदन्ति साधुमतयः स्वानन्दबोधोज्ज्वलाः तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥३॥ या प्रातः शिखिमण्डले मुनिजनैर्गौरी समाराध्यते या मध्ये दिवसस्य भानुरुचिरा चण्डांशुमध्ये परम् । या सायं शशिरूपिणी हिमरुचेर्मध्ये त्रिसंध्यात्मिका तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥४॥ या मूलोत्थितनादसंततिलवैः संस्तूयते योगिभिः या पूर्णेन्दुकलामृतैः कुलपथे संसिच्यते संततम् । या बन्धत्रयकुम्भितोन्मनिपथे सिद्ध्यष्टकेनेड्यते तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥५॥ या मूकस्य कवित्ववर्षणसुधाकादम्बिनी श्रीकरी या लक्ष्मीतनयस्य जीवनकरी संजीविनीविद्यया । या द्रोणीपुरनायिका द्विजशिशोः स्तन्यप्रदात्री मुदा तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥६॥ या विश्वप्रभवादिकार्यजननी ब्रह्मादिमूर्त्यात्मना या चन्द्रार्कशिखिप्रभासनकरी स्वात्मप्रभासत्तया । या सत्त्वादिगुणत्रयेषु समतासंवित्प्रदात्री सतां तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥७॥ या क्षित्यन्तशिवादितत्त्वविलसत्स्फूर्तिस्वरूपा परं या ब्रह्माण्दकटाहभारनिवहन्मण्डूकविश्वंभरी । या विश्वं निखिलं चराचरमयं व्याप्य स्थिता संततं तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥८॥ या वर्गाष्टकवर्णपञ्जरशुकी विद्याक्षरालापिनी नित्यानन्दपयोऽनुमोदनकरी श्यामा मनोहारिणी । सत्यानन्दचिदीश्वरप्रणयिनी स्वर्गापवर्गप्रदा तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥९॥ या श्रुत्यन्तसुशुक्तिसंपुटमहामुक्ताफलं सात्त्विकं सच्चित्सौख्यपयोदवृष्टिफलितं सर्वात्मना सुन्दरम् । निर्मूल्यं निखिलार्थदं निरुपमाकारं भवाह्लाददं तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१०॥ या नित्याव्रतमण्डलस्तुतपदा नित्यार्चनातत्परा नित्यानित्यविमर्शिनी कुलगुरोर्वावयप्रकाशात्मिका । कृत्याकृत्यमतिप्रभेदशमनी कात्स्नर्यात्मलाभप्रदा तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥११॥ यामुद्दिश्य यजन्ति शुद्धमतयो नित्यं पराग्नौ स्रुचा मत्या प्राणघृतप्लुतेन्द्रियचरुद्रव्यैः समन्त्राक्षरैः । यत्पादाम्बुजभक्तिदार्ढ्यसुरसप्राप्त्यै बुधाः संततं तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१२॥ या संविन्मकरन्दपुष्पलतिकास्वानन्ददेशोत्थिता सत्संतानसुवेष्टनातिरुचिरा श्रेयःफलं तन्वती । निर्धूताखिलवृत्तिभक्तधिषणाभृङ्गाङ्गनासेविता तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१३॥ यामाराध्य मुनिर्भवाब्धिमतरत् क्लेशोर्मिजालावृतं यां ध्यात्वा न निवर्तते शिवपदानन्दाब्धिमग्नः परम् । यां स्मृत्वा स्वपदैकबोधमयते स्थूलेऽपि देहे जनः तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१४॥ यापाषाङ्कुशचापसायककरा चन्द्रार्धचूडालसत् काञ्चीदामविभूषिता स्मितमुखी मन्दारमालाधरा । नीलेन्दीवरलोचना शुभकरी त्यागाधिराजेश्वरी तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१५॥ या भक्तेषु ददाति संततसुखं वाणीं च लक्ष्मीं तथा सौन्दर्यं निगमागमार्थकवितां सत्पुत्रसंपत्सुखम् । सत्सङ्गं सुकलत्रतां सुविनयं सयुज्यमुक्तिं परां तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१६॥ इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितः श्रीराजराजेश्वरीस्तवः संपूर्णः ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP