मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे| विरिञ्च्यादिभिः पञ्चभिर्ल... देवी स्तोत्रे उमाशतकम् अयि गिरिनंदिनि नंदितमेदिन... प्रातः स्मरामि ललितावदनार... विज्ञापनार्हविरलावसरानवाप... जय भगवति देवि नमो वरदे जय... निशुम्भशुम्भमर्दिनीं प्रच... मुद्रा स्वस्ति श्रीमदखिलभ... पाण्डित्यं परमेश्वरि स्तु... श्रीशङ्करगुरुत्तंससमर्चित... प्रातः स्मरामि ललितावदनार... सुवक्षोजकुम्भां सुधापूर्ण... श्रीभारतीतीर्थमहास्वामिभि... विराटनगरं रम्यं गच्छमानो ... सञ्जय उवाच- धार्तराष्ट्रब... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... अम्ब प्रसीद वरदा भव दुःखह... अपराधसहस्राणि क्रियन्तेऽह... आदिलक्ष्मीः द्विभुजाञ्च द... उषसि मागधमंगलगायनैर्झटिति... अयिगिरिनन्दिनि नन्दितमेदि... नमस्ते शरण्ये शिवे सानुकम... विरिञ्च्यादिभिः पञ्चभिर्ल... लक्ष्मीशे योगनिद्रां प्रभ... सिन्दूरारुणकान्तिमब्जवसति... लक्ष्मीशे योगनिद्रां प्रभ... नमस्ते शरण्ये शिवे सानुकम... करवाणि वाणि किं वा जगति प... प्रातः स्मरामि ललितावदनार... ध्यायेत् हेमांबुजारूढां व... हर हर शंभो गौरीश! शिव शिव... उद्यच्चन्दनकुङ्कुमारुणपयो... बन्धूकवर्णामरुणां सुगात्र... सञ्जय उवाच- धार्तराष्ट्रब... कल्याणायुतपूर्णचन्द्रवदना... गौरीं काञ्चनपद्मिनीतटगृहा... विराटनगरं रम्यं गच्छमानो ... ॐ जटाजूटसमायुक्तामर्द्धेन... प्रस्तावना क्षमस्व भगवत्यंब क्षमाशील... कदंबवनचारिणीं मुनिकदम्बका... समुन्मीलन्नीलांबुजनिकरनीर... ॐ अस्य श्रीन्द्राक्षीस्तो... षडाधारपंकेरुहांतर्विराजत्... श्रेयस्करि शमनिवरिणि विद्... अम्ब शशिबिम्बवदने कम्बुग्... नमस्ते शरण्ये शिवे सानुकम... घोररूपे महारावे सर्वशत्रु... याज्ञवल्क्य उवाच— कृपां... श्रीगणेशाय नमः ॥ पद्मे... श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् त्रिपुरसुन्दरीमानसपूजास्तोत्रम् देवीचतुःषष्ट्युपचारपूजास्तोत्रम् चेटी भवन्निखिल केटी कदम्ब... ॥ॐ ॥ ॥श्री दुर्गायै नम... ॥ॐ अस्य श्रीदुर्गासप्तश्ल... श्री॥श्रीचण्डिकाध्यानम् ॐ... ॐ नमश्चण्डिकायै मार्कण्डे... ॐ नमश्चण्डिकायै मार्कण्डे... अथ देव्याः कवचम् हारनूपुरकिरीटकुण्डलविभूषि... प्रातः स्मरामि ललिता वदना... धनदा उवाच देवी देवमुपागम्... अहं रुद्रेभिरित्यादिमन्त्... धनदा उवाच देवी देवमुपागम्... ॥त्यागराजविरचितः कल्याणाम... गणेशः । हरिद्राभंचतुर्वाद... श्रीगुरुचरणसरोजं श्रीकरभव... विबुधाधिपतेजिनीशकान्ते वद... ॐ नमस्ते सते सर्वलोकाश्रय... ॥श्रीगोकर्णनिकेता श्रीविद... जय भगवति देवि नमो वरदे जय... मीनाक्षी सुन्दरेश्वर स्तोत्रम् शिवोमा परमा शक्तिरनन्ता न... भगवतीपद्यपुष्पांजलिस्तोत्र उद्यद्भानु सहस्रकोटिसदृशा... श्रीविद्ये शिववामभागनिलये... गुरुश्च गुरुपुत्रश्च ये च... श्रीदेव्युवाच देवदेव महदे... अम्बा शाम्भवि चन्द्रमौलिर... त्यागराजविरचितः या त्रैलो... पाकामृतांशुमकुटाभरणा भवान... क्षमस्व भगवंत्यव क्षमाशील... लघुषोडशार्णकलाविलासः ॥शक्तिसूत्र ॥ अथ शक्तिसू... त्यागराजविरचितः॥स्वानन्दम... आदिशक्ते जगन्मातर्भक्तानु... का त्वं शुभकरे सुखदुःखहस्... अंभोधरश्यामलकुन्तलायै तटि... आदिलक्ष्मी ॥ सुमनसवन्दित... नमः सर्व स्वरूपे च नमो कल... करकलितचापबाणां कल्हाराङ्घ... श्री शङ्कराचार्य कृतम् । ... अङ्गं हरेः पुलकभूषणमाश्रय... श्रीः॥ कल्याणवृष्टिभिरिव... श्री देवी ध्यानम् जगदवन व... ॐ नमश्चण्डिकायै मार्कण्डे... देवि सुरेश्वरि भगवति गंगे... या देवी सर्वभूतेषु विष्णु... देवी खड्गमाला स्तोत्ररत्नम उपनिषद देवीभुजङ्गस्तोत्रम् - विरिञ्च्यादिभिः पञ्चभिर्ल... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraदेवतादेवीस्तोत्र श्री शंकराचार्यकृतम् Translation - भाषांतर विरिञ्च्यादिभिः पञ्चभिर्लोकपालैःसमूढे महानन्दपीठे निषण्णम् ।धनुर्बाणपाशाङ्कुशप्रोतहस्तंमहस्त्रैपुरं शंकराद्वैतमव्यात् ॥१॥यदन्नादिभिः पञ्चभिः कोशजालैःशिरः पक्षपुच्छात्मकैरन्तरन्तः ।निगूढे महायोगपीठे निषण्णंपुरारेरथान्तःपुरं नौमि नित्यम् ॥२॥विनोदाय चैतन्यमेकं विभज्यद्विधा देवि जीवः शिवश्चेति नाम्ना ।शिवस्यापि जीवत्वमापादयन्तीपुनर्जीवमेनं शिवं वा करोषि ॥३॥समाकुञ्च्य मूलं हृदि न्यस्य वायुंमनो भ्रूबिलं प्रापयित्वा निवृत्ताः ।ततः सच्चिदानन्दरूपे पदे तेभवत्यंब जीवाः शिवत्वेन केचित् ॥४॥शरीरेऽतिकष्टे रिपौ पुत्रवर्गेसदाभीतिमूले कलत्रे धने वा ।न कश्चिद्विरज्यत्यहो देवि चित्रंकथं त्वत् कटाक्षं विना तत्वबोधः ॥५॥शरीरे धनेऽपत्यवर्गे कलत्रेविरक्तस्य सद्देशिकादिष्टबुद्धेः ।यदाकस्मिकं ज्योतिरानन्दरूपंसमाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥६॥मृषान्यो मृषान्यः परो मिश्रमेनंपरः प्राकृतं चापरो बुद्धिमात्रम् ।प्रपञ्चं मिमीते मुनीनां गणोऽयंतदेतत्त्वमेवेति न त्वां जहीमः ॥७॥कीर्तिः प्रतिष्ठा च विद्या च शान्ति-स्तथा शान्त्यतीतेति पञ्चीकृताभिः ।कलाभिः परैः पञ्चविंशात्मिकाभि-स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥८॥अगाधेऽत्र संसारपङ्के निमग्नंकलत्रादिभारेण खिन्नं नितान्तम् ।महामोहपाशौघबद्धं चिरान्मांसमुद्धर्तुमम्ब त्वमेकैव शक्ता ॥९॥गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्यातथा योगिनीराशिपीठैरभिन्नम् ।महाकालमात्मानमामृश्य लोकंविधत्से कृतिं वा स्थितिं वा महेशि ॥१०॥लसत्तारहारामतिस्वच्छचेलांवहन्तीं करे पुस्तकं चाक्षमालाम् ।शरच्चन्द्रकोटिप्रभाभासुरां त्वांसकृद्भावयन् भारतीवल्लभः स्यात् ॥११॥समुद्यत्सहस्रार्कबिम्बाभवक्त्रांस्वभासैव सिन्दूरिताजाण्डकोटिम् ।धनुर्बाणपाशाङ्कुशान् धारयन्तींस्मरन्तः स्मरं चापि सम्मोहयेयुः ॥१२॥मणिस्यूतताटङ्कशोणास्यबिम्बांतडित्पीतवस्त्रां त्वगुल्लासिभूषाम् ।सदा भावयन् तप्तहेमप्रभां त्वांश्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥१३॥महामन्त्रराजान्तबीजं पराख्यंस्वतो न्यस्तबिन्दुं स्वयं न्यस्त हार्दम् ।भवद्वक्त्रवक्षोजगुह्याभिधानंस्वरूपं सकृद्भावयेत्सत्वमेव ॥१४॥तथान्ये विकल्पेषु निर्विण्णचित्ताःतदेवं समाधाय बिन्दुत्रयं ते ।परानन्दसंधानसिन्धौ निमग्नाःपुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥१५॥त्वदुन्मेषलीलानुबन्धाधिकारान्विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून् ।भजन्तस्तितीर्षन्ति संसारसिन्धुंशिवे तावकानां सुसम्भावनेयम् ॥१६॥कदा वा भवत्पादपोतेन तूर्णंभवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः ।निमज्जन्तमेनं दुराशाविषाब्धौसमालोक्य लोकं कथं पर्युदास्से ॥१७॥कदा वा हृषीकाणि साम्यं भजेयुःकदा वा न शत्रुर्न मित्रं भवानि ।कदा वा दुराशा विषूची विलोपःकदा वा मनो मे समूलं विनश्येत् ॥१८॥नमोवाकमाशास्महे देवि युष्मत्-पदाम्भोजयुग्माय तिग्माय गौरि ।विरिञ्च्यादिभास्वत्किरीटप्रतोली-प्रदीपप्रतानप्रभाभास्वराय ॥१९॥कचे चन्द्ररेखं कुचे तारहारंकरे स्वादु चापं शरे षट्पदौघम् ।स्मरामि स्मरारेरभिप्रायमेकंमदाघूर्णनेत्रं मदीयं निधानम् ॥२०॥शरेष्वेव नासा धनुष्वेव जिह्वाजपापाटले लोचने ते स्वरूपे ।त्वगेषा भवच्चन्द्रखण्डे श्रवो मेगुणे ते मनोवृतिरम्ब त्वयि स्यात् ॥२१॥जगत्कर्मधीरान् वचोधूतकीरान्कुचन्यस्तहारान् कृपासिन्धुपूरान् ।भवाम्भोदिपारान् महापापदूरान्भजे वेदसारान् शिवप्रेमदारान् ॥२२॥सुधासिन्धुसारे चिदानन्दनीरेसमुत्फुल्लनीपे सुरत्नान्तरीपे ।मणिव्यूहसाले स्थिते हैमशालेमनोजारिवामे निषण्णं मनो मे ॥२३॥दृगन्ते विलोला सुगन्धीषुमालाप्रपञ्चेन्द्रजाला विपत्सिन्धुकूला ।मुनिस्वान्तशाला नमल्लोकपालाहृदि प्रेमलोलाऽमृतस्वादुलीला ॥२४॥जगज्जालमेतत्त्वयैवाम्ब सृष्टंत्वमेवाददासीन्द्रियैरर्थजालम् ।त्वमेकैव कर्त्री त्वमेकैव भोक्त्रीन मे पुण्यपापे न मे बन्धमोक्षौ ॥२५॥इति प्रेमभारेण किञ्चिन्मयोक्तंन बुद्ध्वैव तत्त्वं मदीयं त्वदीयम् ।विनोदाय बालस्य मौर्ख्यं हि मातःतदेतत् प्रलापस्तुतिं मे गृहाण ॥२६॥ N/A References : N/A Last Updated : February 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP