मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे| श्री देवी ध्यानम् जगदवन व... देवी स्तोत्रे उमाशतकम् अयि गिरिनंदिनि नंदितमेदिन... प्रातः स्मरामि ललितावदनार... विज्ञापनार्हविरलावसरानवाप... जय भगवति देवि नमो वरदे जय... निशुम्भशुम्भमर्दिनीं प्रच... मुद्रा स्वस्ति श्रीमदखिलभ... पाण्डित्यं परमेश्वरि स्तु... श्रीशङ्करगुरुत्तंससमर्चित... प्रातः स्मरामि ललितावदनार... सुवक्षोजकुम्भां सुधापूर्ण... श्रीभारतीतीर्थमहास्वामिभि... विराटनगरं रम्यं गच्छमानो ... सञ्जय उवाच- धार्तराष्ट्रब... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... अम्ब प्रसीद वरदा भव दुःखह... अपराधसहस्राणि क्रियन्तेऽह... आदिलक्ष्मीः द्विभुजाञ्च द... उषसि मागधमंगलगायनैर्झटिति... अयिगिरिनन्दिनि नन्दितमेदि... नमस्ते शरण्ये शिवे सानुकम... विरिञ्च्यादिभिः पञ्चभिर्ल... लक्ष्मीशे योगनिद्रां प्रभ... सिन्दूरारुणकान्तिमब्जवसति... लक्ष्मीशे योगनिद्रां प्रभ... नमस्ते शरण्ये शिवे सानुकम... करवाणि वाणि किं वा जगति प... प्रातः स्मरामि ललितावदनार... ध्यायेत् हेमांबुजारूढां व... हर हर शंभो गौरीश! शिव शिव... उद्यच्चन्दनकुङ्कुमारुणपयो... बन्धूकवर्णामरुणां सुगात्र... सञ्जय उवाच- धार्तराष्ट्रब... कल्याणायुतपूर्णचन्द्रवदना... गौरीं काञ्चनपद्मिनीतटगृहा... विराटनगरं रम्यं गच्छमानो ... ॐ जटाजूटसमायुक्तामर्द्धेन... प्रस्तावना क्षमस्व भगवत्यंब क्षमाशील... कदंबवनचारिणीं मुनिकदम्बका... समुन्मीलन्नीलांबुजनिकरनीर... ॐ अस्य श्रीन्द्राक्षीस्तो... षडाधारपंकेरुहांतर्विराजत्... श्रेयस्करि शमनिवरिणि विद्... अम्ब शशिबिम्बवदने कम्बुग्... नमस्ते शरण्ये शिवे सानुकम... घोररूपे महारावे सर्वशत्रु... याज्ञवल्क्य उवाच— कृपां... श्रीगणेशाय नमः ॥ पद्मे... श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् त्रिपुरसुन्दरीमानसपूजास्तोत्रम् देवीचतुःषष्ट्युपचारपूजास्तोत्रम् चेटी भवन्निखिल केटी कदम्ब... ॥ॐ ॥ ॥श्री दुर्गायै नम... ॥ॐ अस्य श्रीदुर्गासप्तश्ल... श्री॥श्रीचण्डिकाध्यानम् ॐ... ॐ नमश्चण्डिकायै मार्कण्डे... ॐ नमश्चण्डिकायै मार्कण्डे... अथ देव्याः कवचम् हारनूपुरकिरीटकुण्डलविभूषि... प्रातः स्मरामि ललिता वदना... धनदा उवाच देवी देवमुपागम्... अहं रुद्रेभिरित्यादिमन्त्... धनदा उवाच देवी देवमुपागम्... ॥त्यागराजविरचितः कल्याणाम... गणेशः । हरिद्राभंचतुर्वाद... श्रीगुरुचरणसरोजं श्रीकरभव... विबुधाधिपतेजिनीशकान्ते वद... ॐ नमस्ते सते सर्वलोकाश्रय... ॥श्रीगोकर्णनिकेता श्रीविद... जय भगवति देवि नमो वरदे जय... मीनाक्षी सुन्दरेश्वर स्तोत्रम् शिवोमा परमा शक्तिरनन्ता न... भगवतीपद्यपुष्पांजलिस्तोत्र उद्यद्भानु सहस्रकोटिसदृशा... श्रीविद्ये शिववामभागनिलये... गुरुश्च गुरुपुत्रश्च ये च... श्रीदेव्युवाच देवदेव महदे... अम्बा शाम्भवि चन्द्रमौलिर... त्यागराजविरचितः या त्रैलो... पाकामृतांशुमकुटाभरणा भवान... क्षमस्व भगवंत्यव क्षमाशील... लघुषोडशार्णकलाविलासः ॥शक्तिसूत्र ॥ अथ शक्तिसू... त्यागराजविरचितः॥स्वानन्दम... आदिशक्ते जगन्मातर्भक्तानु... का त्वं शुभकरे सुखदुःखहस्... अंभोधरश्यामलकुन्तलायै तटि... आदिलक्ष्मी ॥ सुमनसवन्दित... नमः सर्व स्वरूपे च नमो कल... करकलितचापबाणां कल्हाराङ्घ... श्री शङ्कराचार्य कृतम् । ... अङ्गं हरेः पुलकभूषणमाश्रय... श्रीः॥ कल्याणवृष्टिभिरिव... श्री देवी ध्यानम् जगदवन व... ॐ नमश्चण्डिकायै मार्कण्डे... देवि सुरेश्वरि भगवति गंगे... या देवी सर्वभूतेषु विष्णु... देवी खड्गमाला स्तोत्ररत्नम उपनिषद श्री कामाक्षी सुप्रभातम् - श्री देवी ध्यानम् जगदवन व... देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे. The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times. Tags : goddessstotraदेवीस्तोत्र श्री कामाक्षी सुप्रभातम् Translation - भाषांतर श्री देवी ध्यानम् जगदवन विधौ त्वं जाग रूका भवानि तव तु जननि निद्रामात्मवत्कल्पयित्वा । प्रतिदिवसमहं त्वां बोधयामि प्रभाते त्वयि कृतमपराधं सर्वमेतं क्षमस्व॥१॥ यदि प्रभातं तव सुप्रभातं तदा प्रभातं मम सुप्रभातम् । तस्मात्प्रभाते तव सुप्रभातं वक्ष्यामि मातः कुरु सुप्रभातम्॥२॥ गुरु ध्यानम् यस्याङ्घ्रिपद्म मकरन्दनिषेवणात् त्वं जिव्हां गताऽसि वरदे मम मन्द बद्धः । यस्यांब नित्यमनघे हृदये विभासि तं चन्द्रशेखर गुरुं प्रणमामि नित्यम्॥३॥ जये जयेन्द्रो गुरुणा ग्रहीतो मठाधिपत्ये शशिशेखरेण । यथा गुरुस्सर्व गुणोपपन्नो जयत्यसौ मङ्गळमातनोतु॥४॥ शुभं दिशतु नो देवी कामाक्षी सर्व मङ्गळा शुभं दिशतु नो देवी कामकोटी मटेशः । शुभं दिशतु तच्चिष्य सद्गुरुर्नो जयेन्द्रो सर्वं मङ्गळमेवास्तु मङ्गळानि भवन्तु नः॥५॥॥ शुभम्॥॥ श्रीः॥कामाक्षि देव्यंब तवाद्रर्दृष्ट्या मूकस्वयं मूककवीर्यथाऽसीत् । तथा कुरुत्वं परमेश जाये त्वत्पादमूले प्रणतं दयाद्रेर्॥ उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदेश्वरि । उत्तिष्ठ जगदाधारे त्रैलोक्यां मङ्गळं कुरु॥१॥ शृणोषि कच्चिद् ध्वनिरुत्थितोऽयम् मृदङ्गभेरीपटहानकानाम् । वेदध्वनिं शिक्षितभूसुराणाम् । शृणोषि भद्रे कुरु सुप्रभातम्॥२॥ शृणोषि भद्रे ननु शङ्ख घोषम् वैताळिकानां मधुरं च गानम् । शृणोषि मातः पिककुक्कुटानाम् ध्वनिं प्रभाते कुरु सुप्रभातम्॥३॥ मातर्निरीक्ष वदनं भगवान्शशाङ्को लज्जान्वितः स्वयमहो निलयं प्रविष्टः । द्रष्टुं त्वदीय वदनं भगवान्दिनेशो ह्यायाति देवि सदनं कुरु सुप्रभातम्॥४॥ पश्याम्ब केचित्घृतपूर्णकुम्भाः केचिद् दयाद्रेर् धृतपुष्पमालाः । काचित्शुभाङ्गयो ननुवाद्यहस्ताः तिष्ठन्ति तेषां कुरु सुप्रभातम्॥५॥ भेरीमृदङ्गपणवानकवाद्यहस्ताः स्तोतुं महेशदयिते स्तुतिपाठकात्वाम् । तिष्ठन्ति देवि समयं तव काङ्क्षमाणा ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम्॥६॥ मातर्निरीक्ष वदनं भगवान्त्वदीयम् नैवोत्थितश्शशिधिया शयितस्तवाङ्के । संबोधयाशु गिरिजे विमलं प्रभातम् जातं महेशदयिते कुरु सुप्रभातम्॥७॥ अन्तश्चरन्त्यास्तव भूषणानाम् झल्झल्ध्वनिं नूपुरकङ्कणानाम् । शृत्वा प्रभाते तव दर्शनार्थी द्वारि स्थितोऽहं कुरु सुप्रभातम्॥८॥ वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना रंभा त्वंबरडंबरं गिरिसुता गङ्गा च गङ्गाजलम् । काळी ताळयुगं मृदङ्गयुगळं बृन्दा च नन्दा तथा । नीला निर्मलदर्पण धृतवती तासां प्रभातं शुभम्॥९॥ उत्थाय देवि शयनाद्भगवान्पुरारिः स्नातुं प्रयाति गिरिजे सुरलोकनद्याम् । नैको हि गन्तुमनघे रमते दयाद्रेर् ह्युत्तिष्ठ देवि शयनात्कुरु सुप्रभातम्॥१०॥ पश्यांब केचित्फलपुष्पहस्ताः केचित्पुराणानि पठन्ति मातः । पठन्ति वेदान्बहवस्तवारे तेषां जनानां कुरु सुप्रभातम्॥११॥ लावण्यशेवधिमवेक्ष्य चिरं त्वदीयम् कन्दर्पदर्पदळनोऽपि वशंगतस्ते । कामारिचुम्बितकपोलयुगं त्वदीयं द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम्॥१२॥ गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां गङ्गाजलैः स्नपयितुं बहवो घटांश्च । धृत्वा शिरस्सु भवतीमभिकाङ्क्षमाणाः द्वारि स्थिता हि वरदे कुरु सुप्रभातम्॥१३॥ मन्दारकुन्दकुसुमैरपि जातिपुष्पैः मालाकृता विरचितानि मनोहराणि । माल्यानि दिव्यपदयोरपि दातुमंब तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम्॥१४॥ काञ्चीकलापपरिरंभनितम्बबिम्बम् काश्मीरचन्दनविलेपितकण्ठदेशम् । कामेशचुम्बितकपोलमुदारनासां द्रष्ठुं स्थिताः वयमये कुरु सुप्रभातम्॥१५॥ मन्दस्मितं विमलचारुविशालनेत्रम् कण्ठस्थलं कमलकोमलगर्भगौरम् । चक्राङ्कितं च युगळं पदयोमृर्गाक्षि द्रष्टं स्थिताः वयमये कुरु सुप्रभातम्॥१६॥ मन्दस्मितं त्रिपुरनाशकरं पुरारेः कामेश्वरप्रणयकोपहरं स्मितं ते । मन्दस्मितं विपुलहासमवेक्षितुं । ते मातः स्थिताः वयमये कुरु सुप्रभातम्॥१७॥ माता शिशूनां परिरक्षणार्थम् न चैव निद्रावशमेति लोके । माता त्रयाणां जगतां गतिस्त्वम् सदा विनिद्रा कुरु सुप्रभातम्॥१८॥ मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः हृद्यानि दिव्यमधुराणि मनोहराणि । श्रोतुं तवांब वचनानि शुभप्रदानि द्वारि स्थिता वयमये कुरु सुप्रभातम्॥१९॥ दिगंबरो ब्रह्मकपालपाणिः विकीर्णकेशः फणिवेष्ठिताङ्गः । तथाऽपि मातस्तव देविसङ्गात् महेश्वरोऽभूत् कुरु सुप्रभातम्॥२०॥ अयि तु जननि दत्तस्तन्यपानेन देवि द्रविडशिशुरभूद्वै ज्ञानसम्बन्धमूर्तिः । द्रविडतनयभुक्तक्षीरशेषं भवानी वितरसि यदि मातः सुप्रभातं भवेन्मे॥२१॥ जननि तव कुमारः स्तन्यपानप्रभावात् शिशुरपि तव भर्तुः कर्णमूले भवानि । प्रणवपदविशेषं बोधयामास देवि यदि मयि च कृपा ते सुप्रभातं भवेन्मे॥२२॥ त्वं विश्वनाथस्य विशालनेत्रा हालस्यनाथस्य नु मीननेत्रा । एकाम्रनाथस्य नु कामनेत्रा कामेशजाये कुरु सुप्रभातम्॥२३॥ श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये । त्वत्पादभक्तिभरितः फलपुष्पपाणिः । एकाम्रनाथदयिते तव दर्शनार्थी । तिष्ठत्ययं यतिवरो मम सुप्रभातम्॥२४॥ एकाम्रनाथदयिते ननु कामपीठे संपूजिताऽसि वरदे गुरुशङ्करेण । श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिम् द्रष्टुं शिता वयमये कुरु सुप्रभातम्॥२५॥ दुरितशमनदक्षौ मृत्युसन्तासदक्षौ चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ । अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं त्रिपुरदळनजाये सुप्रभातं ममार्ये॥२६॥ मातस्तदीयचरणं हरिपद्मजाद्यैः वन्द्यं रथाङ्गसरसीरुहशङ्खचिन्हम् । द्रष्टुं च योगिजनमानसराजहंसं द्वारि स्थितोस्मि वरदे कुरु सुप्रभातम्॥२७॥ पश्यन्तु केचिद्वदनं त्वदीयं स्तुवन्तु कल्याणगुणांस्तवान्ये । नमन्तु पादाब्ज युगं त्वदीयाः द्वारि स्थितानां कुरु सुप्रभातम्॥२८॥ केचित्सुमेरोश्शिखरेऽतितुङ्गे केचित्मणिद्वीपवरे विशाले । पश्यन्तु केचित्त्वमृदाभ्धिमध्ये पश्याम्यहं त्वामिह सुप्रभातम्॥२९॥ शंभोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिंबाधरोष्ठीम् । कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं पश्यामस्सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम्॥३०॥ कामप्रदाकल्पतरुर्विभासि नान्या गतिर्मे ननु चातकोऽहम् । वर्ष्यस्यमोघः कनकांबुधाराः काश्चित्तु धाराः मयि कल्पयाशु॥३१॥ त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् । त्रिलोकनायिकां वन्दे सुप्रभातं ममांबिके॥३२॥ कृतज्ञता कामाक्षि देव्यंब तवार्द्रदृष्ट्या कृतं मयेदं खलु सुप्रभातम् । सद्यः फलं मे सुखमंब लब्धं तथा च मे दुःखदशा गता हि॥३३॥ प्रार्थना ये वा प्रभाते पुरतस्तवार्ये पठन्ति भक्त्या ननु सुप्रभातम् । शृण्वन्ति ये वा त्वयि बद्धचित्ताः तेषां प्रभातं कुरु सुप्रभातम्॥३४॥ इति लक्ष्मीकान्त शर्मा विरचितं श्रीकामाक्षीसुप्रभातं समाप्तम्॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP