मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
सत्यं ज्ञानमनन्तं नित्यमन...

श्रीगोविंदाष्टकम् - सत्यं ज्ञानमनन्तं नित्यमन...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारं क्ष्मामानाथनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १ ॥
मृत्सामत्सीहेति यशोदाताडनशैशवसंत्रासं व्यादितवक्रालोकितलोकालोकचर्तुदशलोकालम् ।
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ २ ॥
त्रैविष्टापरिपुबीरघ्नं क्षितिभारघ्नं भवरोगघ्नं कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
कैवल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं शैवं केवलशान्तं प्रणमत गोविन्दं परमानंदम् ॥ ३ ॥
गोपालं भूलीलाविग्रहगोपालं कुलगोपालं गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदितगोविंदस्फुटनामानं बहुनामानं गोपिचरदूरं प्रणमत गोविंदं परमानंदम् ॥ ४ ॥
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं शश्वद्‌गोखुरनिर्धूतात्कृतधूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानंदमचिन्त्यं चिंतितसद्भावं चिंतामणिमहिमानं प्रणमत गोविंदं परमानन्दम् ॥ ५ ॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायगमुपारूढं व्यादित्सन्तीरथ दिग्वस्त्राद्युपादातुमुपाकर्षन्तम् ।
निर्धू तद्विअशोकविमोहं बुद्धं बुद्धेरप्यन्तस्थं सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ ६ ॥
कान्तं कारणकारणमादिमनादि कालमनाभासं कालिन्दीगतकालियशिरसि मुहुर्न्टुत्यन्तं सुनृत्यन्तम् ।
कालं कालकलातीतं कलिताशेषं कालिदोषघ्नं कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ ७ ॥
वृन्दावनभुवि वृन्दारकगणवृन्दाराधितसंद्देहं कुन्दाभामलमन्दस्मेरसुधानन्दं सुह्रदानन्दम् । वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ ८ ॥
गोविंदाष्टकमेतदधीते गोविन्दार्पितचेता यो गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति । गोविन्दांघ्रिसरोजध्यानसुधाजलधौतसमस्ताघौ गोविन्दं परमानंदामृतमंतस्थं स समभ्येति ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्य विरचितं गोविन्दाष्टकस्तोत्रं संपूर्णम् ।

N/A

References : N/A
Last Updated : July 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP