मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
श्रीवादिराजयति कृतम् । अ...

उक्ति प्रत्युक्ति स्तोत्रम् - श्रीवादिराजयति कृतम् । अ...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


श्रीवादिराजयति कृतम् ।

अङ्गुल्या कः कवाटं प्रहरति? कुटिले! माधवः, किं वसन्तो?
नो चक्री, किं कुलालो? नहि धरणीधरः, किं द्विजिह्वः फणीन्द्रः?
नाहं घोराहिमर्दी, खगपतिरसि किं? नो हरिः, किं
कपीन्द्रस्त्वित्येवं गोपकन्या-प्रतिवचनजडः पातु मां पद्मनाभः ॥१॥


कृष्ण! त्वं कुत्र गतोऽसि चाद्य मृगयासक्तो वनान्तं गतो
गन्धोऽन्यो वनपुष्पजः श्रमजलं घर्मक्षतं कण्टकैः ।
अस्त्वेवं मृगया तु केनचिद् अहो दष्टोऽधरो दॄश्यते
शङ्खपूरणमत्र कारणमिदं  कुर्यां प्रमाणनि ते ॥२॥

अम्भस्ते शयनीय-मेत-दुदधे-र्लीलोपधानं फणी
त्वत्तेजःपरमाणुरेष दहनो भृत्याः समस्ताः सुराः ।
कुक्षिन्यस्त-समस्त-भारजगतः किं स्यात्तुलारोपणे व्यर्थं वाच्यमिदं
स्त्रियोपहसितः स्मेरो हरिः पातु नः ॥३॥

कस्त्वं बाल! बलानुजः, किमिह ते? मन्मन्दिराशङ्कया,
युक्तं, तन्नवनीत-पात्रविवरे हस्तं किमर्तं न्यसेः?
मातः! कञ्चन वत्सकं मृगयितुं  मा गाः विषादं क्षणात्
इत्येवं वरवल्लवी प्रतिवचः कृष्णस्य पुष्णातु नः ॥


॥इति श्रीवादिराजयति कृतम् उक्ति-प्रत्युक्ति स्तोत्रम् संपूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP