मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे| श्रीमान् वेंकटनाथार्यः कव... कृष्ण स्तोत्रे श्रीकृष्णकर्णामृतं भक्तिरसायनम् श्रीकृष्णविलासकाव्यम् श्री गणेशाय नमः । श्रीनार... श्री गणेशाय नमः । ॐ अस्य ... अग्रे कुरूनाम् अथ पाण्डवा... श्री कल्याणी देवी विरचितम... श्री गणेशाय नमः । अस्य श्... श्रीशुक उवाच -- किं जपन् ... श्रीवादिराजयति कृतम् । अ... उत्तिष्ठोत्तिष्ठ गोविन्द ... श्रियः कान्ताय कल्याण निध... महादेव उवाचः । ॐ श्रीं नम... ज्वर उवाच । नमामि त्वाऽनन... श्रीधर्म उवाच । कृष्णं व... नारायण उवाच । वरं वरेण्य... ब्रह्मोवाच कृष्णं वन्दे ... महादेव उवाच । जयस्वरुपं ... सरस्वत्युवाच । रासमण्डलम... मोहिन्युवाच । सर्वेन्द्रि... शौनक उवाच । कं मन्त्रं बा... श्रीमदानन्दतीर्थ भगवत्पाद... श्रीकृष्ण उवाच । किं ते न... देवा ऊचुः । जगद्योनिरयोनि... ॐ नमो विश्वरूपाय विश्वस्थ... श्रीनारद उवाच । नवीननीरदश... श्रीमान् वेंकटनाथार्यः कव... गोप्य ऊचुः । जयति तेऽधिकं... श्री कल्याणी देवी विरचितम... यश्चैकशैलनिकटे कमलापुरीश-... पान्त्वस्मान् पुरुहूत वैर... ओमिति ज्ञानमात्रेण रोगाजी... सखी हे केऽसि मदनमुदारम् र... कदा बृन्दारण्ये विपुलयमुन... हृदम्भोजे कृष्णस्सजलजलदश्... अग्रे पश्यामि तेजो निबिडत... नमस्ये पुरुषं त्वाद्यमीश्... श्रीकृष्णस्तोत्रम् कृष्णलीलावर्णनस्तोत्रम् दुराशोन्धोऽमुष्मिन विषय ... ईश्वरः परमः कृष्णः सच्चिद... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... भूपालच्छदि दुष्टदैत्यनिवह... सञ्चितयामि गुरुवायुपुरेश,... हरि नारायण गोविन्द जय नार... मङ्गलं यादवेन्द्राय महनीय... इन्द्र उवाच: कृष्ण कृष्ण... ज्ञातोऽसि देवदेवेश सर्वज्... श्रीशं कमलपत्राक्षं देवकी... शङ्खचक्रगदापाणे! द्वरकानि... नवजलधरवर्णं चम्पकोद्भासिक... सर्वमार्गेषु नष्टेषु कलौ ... वन्दे वृन्दावनचरं वल्लवीज... अग्रे पश्यामि तेजो निबिडत... हृदम्भोजे कृष्णस्सजलजलदश्... कदा बृन्दारण्ये विपुलयमुन... वन्दे नवघनश्यामं पीतकौशेय... रक्ष रक्ष हरे मां च निमग्... ब्रह्मोवाच- नौमीड्य तेऽभ... ॐ अर्चितः संस्मृतो ध्यात... प्रस्तावना कुञ्चिताधरपुटेन पूरयन् वं... अव्यादजोङघ्रिंमणिमांस्तव ... श्रृणु देवि प्रवक्ष्यामि ... ह्रदंभोजे कृष्णः सजलजलदश्... देवा ऊचुः । जगद्योनिरयोन... त्वमतींद्रियमव्यक्तमक्षरं... श्रीवेंकटेश्वराय नमः । ... यथा संरक्षितं ब्रह्मन्सर्... श्रीनारद उवाच । नवीननीर... कदाचित्कालिंदीतटविपिनसङ्ग... मोहिन्युवाच । सर्वेन... ब्रह्मोवाच । रक्ष रक्ष... वंदे नवघनश्यामं पीतकौशेयव... अस्य श्रीकृष्णाष्टोत्तरशत... इन्द्र उवाच । अक्षरं परम... विप्रपत्न्य ऊचुः । त्वं... श्रीमान् वेंकटनार्थायः कव... सत्यं ज्ञानमनन्तं नित्यमन... यस्माद्विश्वं जातमिदं चित... चतुर्मुखादिसंस्तुतं समस्त... सिंधुदेशोद्भवो विप्रो नाम... विद्राविते भूतगणे ज्वरस्त... ॥ जगन्नाथ प्रणामः॥ नीला... अग्रे कुरूणामथ पाण्डवानां... ॐ श्रीं ह्रीं क्लीं ग्लौं... अथ प्रथमस्तोत्रम् वन्दे... यश्चैकशैलनिकटे कमलापुरीश-... गोपालविंशतिस्तोत्रम् - श्रीमान् वेंकटनाथार्यः कव... भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godkrishnaprayerstotraकृष्णदेवतादेवीस्तोत्र गोपालविंशतिस्तोत्रम् Translation - भाषांतर श्रीमान् वेंकटनाथार्यः कवितार्किककेसरी ।वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥वन्दे वृन्दावनचरं वलव्वीजनवल्लभम् ।जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥१॥वाचं निजाङ्करसिकां प्रसमीक्षमाणोवक्त्रारविन्दविनिवेशितपांचजन्यः ।वर्णः त्रिकोणरूचिरे वरपुण्डरीकेबद्धासनो जयति वल्लवचक्रवर्ती ॥२॥आम्नायगन्धरुदितस्फुरिताधरोष्ठम्आस्राविलेक्षणमनुक्षणमन्दहासम् ।गोपालडिम्भवपुषं कुहना जनन्याःप्राणस्तनन्धयमवैमि परं पुमांसम् ॥३॥आविर्भवत्वनिभृताभरणं पुरस्तात्आकुंचितैकचरण निभृहितान्यपादम् ।दध्नानिबद्धमुखरेण निबद्धतालंनाथस्य नन्दभवने नवनीतनाट्यम् ॥४॥कुन्दप्रसूनविशदैर्दशनैश्चर्तुभिःसंदश्य मातुरनिशं कुचचूचुकाग्रम् ।नन्दस्य वक्त्रमवलोकयतो मुरारेर्- मन्दस्थितं मममनीषितमातनोतु ॥५॥हर्तुं कुम्भे विनिहितकरः स्वादु हैयङ्गवीनंदृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।पायादीषत्प्रचलितपदौ नापगच्छन्न तिष्ठन्मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥६॥व्रजयोषिदपाङ्ग वेधनीयंमथुराभाग्यमनन्यभोग्यमीडे ।वसुदेववधू स्तनन्धयं तद्- किमपि ब्रह्म किशोरभावदृश्यम् ॥८॥परिवर्तितकन्धरं भयेनस्मितफुल्लाधरपल्लवं स्मरामि ।विटपित्वनिरासकं कयोश्चिद्- विपुलोलूखलकर्षकं कुमारम् ॥९॥निकटेषु निशामयामि नित्यंनिगमान्तैरधुनाऽपि मृग्यमाणम् ।यमलार्जुनदृष्टबालकेलिंयमुनासाक्षिकयौवनं युवानम् ॥१०॥पदवीमदवीयसीं विमुक्ते- रटवीं सम्पदम्बु वाहयन्तीम् ।अरूणाधरसाभिलाषवंशांकरूणां कारणमानुषीं भजामि ॥११॥अनिमेषनिवेष्णीयमक्ष्णो- रजहद्यौवनमाविरस्तु चित्ते ।कलहायितकुन्तलं कलापैःकरूणोन्मादकविग्रहं महो मे ॥१२॥अनुयायिमनोज्ञवंशनालै- रवतु स्पर्शितवल्लवीविमोहैः ।अनघस्मितशीतलैरसौ माम्अनुकम्पासरिदम्बुजैरपाङ्गैः ॥१३॥अधराहितचारूवंशनालामकुटालम्बिमयूरपिञ्च्छमालाः ।हरिनीलशिलाविभङ्गनीलाःप्रतिभाः सन्तु ममान्तिमप्रयाणे ॥१४॥अखिलानवलोकयामि कालान्महिलादीनभुजान्तरस्यूनः ।अभिलाषपदं व्रजाङ्गनानाम्अभिलाक्रमदूरमाभिरूप्यम् ॥१५॥महसे महिताय मौलिनाविनतेनाञ्जलिमञ्जनत्विषे ।कलयामि विमुग्धवल्लवी- वलयाभाषितमञ्जुवेणवे ॥१६॥जयतु ललितवृत्तिं शिक्षितो वल्लवीनांशिथिलवलयशिञ्जाशीतलैर्हस्ततालैः ।अखिलभुवनरक्षागोपवेशस्य विष्णो- रधरमणिसुधायामंशवान् वंशनालः ॥१७॥चित्राकल्पः श्रवसि कलयल्लाङ्गलीकर्णपूरंबर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः ।गुंजाबद्धामुरसि ललितां धारयन् हारयष्टिंगोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥१८॥लीलायष्टिं करकिसलये दक्षिणे न्यस्त धन्या- मंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः ।मेघश्यामो जयति ललितो मेखलादत्तवेणु- र्गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजङ्गः ॥१९॥प्रत्यालीढस्थितिंअधिगतां प्राप्तगाढाङ्कपालींपश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।भस्त्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्याद्वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥२०॥वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनांलीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमानेकामी कश्चित्करकमलयोरञ्जलिं याचमानः ॥२१॥इत्यनन्यमनसा विनिर्मितांवेंकटेशकविना स्तुतिं पठन् ।दिव्यवेणुरसिकं समीक्षतेदैवतं किमपि यौवतप्रियम् ॥२२॥॥ इति गोपालविंशतिस्तोत्रं सम्पूर्णम् ॥ N/A References : N/A Last Updated : July 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP