मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे| श्री गणेशाय नमः । ॐ अस्य ... कृष्ण स्तोत्रे श्रीकृष्णकर्णामृतं भक्तिरसायनम् श्रीकृष्णविलासकाव्यम् श्री गणेशाय नमः । श्रीनार... श्री गणेशाय नमः । ॐ अस्य ... अग्रे कुरूनाम् अथ पाण्डवा... श्री कल्याणी देवी विरचितम... श्री गणेशाय नमः । अस्य श्... श्रीशुक उवाच -- किं जपन् ... श्रीवादिराजयति कृतम् । अ... उत्तिष्ठोत्तिष्ठ गोविन्द ... श्रियः कान्ताय कल्याण निध... महादेव उवाचः । ॐ श्रीं नम... ज्वर उवाच । नमामि त्वाऽनन... श्रीधर्म उवाच । कृष्णं व... नारायण उवाच । वरं वरेण्य... ब्रह्मोवाच कृष्णं वन्दे ... महादेव उवाच । जयस्वरुपं ... सरस्वत्युवाच । रासमण्डलम... मोहिन्युवाच । सर्वेन्द्रि... शौनक उवाच । कं मन्त्रं बा... श्रीमदानन्दतीर्थ भगवत्पाद... श्रीकृष्ण उवाच । किं ते न... देवा ऊचुः । जगद्योनिरयोनि... ॐ नमो विश्वरूपाय विश्वस्थ... श्रीनारद उवाच । नवीननीरदश... श्रीमान् वेंकटनाथार्यः कव... गोप्य ऊचुः । जयति तेऽधिकं... श्री कल्याणी देवी विरचितम... यश्चैकशैलनिकटे कमलापुरीश-... पान्त्वस्मान् पुरुहूत वैर... ओमिति ज्ञानमात्रेण रोगाजी... सखी हे केऽसि मदनमुदारम् र... कदा बृन्दारण्ये विपुलयमुन... हृदम्भोजे कृष्णस्सजलजलदश्... अग्रे पश्यामि तेजो निबिडत... नमस्ये पुरुषं त्वाद्यमीश्... श्रीकृष्णस्तोत्रम् कृष्णलीलावर्णनस्तोत्रम् दुराशोन्धोऽमुष्मिन विषय ... ईश्वरः परमः कृष्णः सच्चिद... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... भूपालच्छदि दुष्टदैत्यनिवह... सञ्चितयामि गुरुवायुपुरेश,... हरि नारायण गोविन्द जय नार... मङ्गलं यादवेन्द्राय महनीय... इन्द्र उवाच: कृष्ण कृष्ण... ज्ञातोऽसि देवदेवेश सर्वज्... श्रीशं कमलपत्राक्षं देवकी... शङ्खचक्रगदापाणे! द्वरकानि... नवजलधरवर्णं चम्पकोद्भासिक... सर्वमार्गेषु नष्टेषु कलौ ... वन्दे वृन्दावनचरं वल्लवीज... अग्रे पश्यामि तेजो निबिडत... हृदम्भोजे कृष्णस्सजलजलदश्... कदा बृन्दारण्ये विपुलयमुन... वन्दे नवघनश्यामं पीतकौशेय... रक्ष रक्ष हरे मां च निमग्... ब्रह्मोवाच- नौमीड्य तेऽभ... ॐ अर्चितः संस्मृतो ध्यात... प्रस्तावना कुञ्चिताधरपुटेन पूरयन् वं... अव्यादजोङघ्रिंमणिमांस्तव ... श्रृणु देवि प्रवक्ष्यामि ... ह्रदंभोजे कृष्णः सजलजलदश्... देवा ऊचुः । जगद्योनिरयोन... त्वमतींद्रियमव्यक्तमक्षरं... श्रीवेंकटेश्वराय नमः । ... यथा संरक्षितं ब्रह्मन्सर्... श्रीनारद उवाच । नवीननीर... कदाचित्कालिंदीतटविपिनसङ्ग... मोहिन्युवाच । सर्वेन... ब्रह्मोवाच । रक्ष रक्ष... वंदे नवघनश्यामं पीतकौशेयव... अस्य श्रीकृष्णाष्टोत्तरशत... इन्द्र उवाच । अक्षरं परम... विप्रपत्न्य ऊचुः । त्वं... श्रीमान् वेंकटनार्थायः कव... सत्यं ज्ञानमनन्तं नित्यमन... यस्माद्विश्वं जातमिदं चित... चतुर्मुखादिसंस्तुतं समस्त... सिंधुदेशोद्भवो विप्रो नाम... विद्राविते भूतगणे ज्वरस्त... ॥ जगन्नाथ प्रणामः॥ नीला... अग्रे कुरूणामथ पाण्डवानां... ॐ श्रीं ह्रीं क्लीं ग्लौं... अथ प्रथमस्तोत्रम् वन्दे... यश्चैकशैलनिकटे कमलापुरीश-... गोपालहृदयस्तोत्रम् - श्री गणेशाय नमः । ॐ अस्य ... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessgopalstotraगोपालदेवतादेवीस्तोत्र गोपालहृदयस्तोत्रम् Translation - भाषांतर श्री गणेशाय नमः ।ॐ अस्य श्रीगोपालहृदयस्तोत्रमन्त्रस्य । श्रीभगवान् सङ्कर्षण ऋषि ।गायत्री छन्दः । ॐ बीजम् । लक्ष्मीः शक्तिः । गोपालः परमात्मा देवता ।प्रद्युम्नः कीलकम् । मनोवाक्कायार्जितसर्वपापक्षयार्थेश्रीगोपालप्रीत्यर्थे गोपालहृदयस्तोत्रजपे विनियोगः ।श्रीसङ्कर्षण उवाच ।ॐ ममाग्रतः सदा विष्णुः पृष्ठतश्चापि केशवः ।गोविन्दो दक्षिणे पार्श्वे वामे च मधुसूदनः ॥१॥उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले ।अवान्तरदिशः पातु तासु सर्वासु माधवः ॥२॥गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।नरसिंहकृताद्गुप्तिर्वासुदेवमयो ह्ययम् ॥३॥अव्यक्तं चैवास्य योनिं वदन्ति व्यक्तं देहं दीर्घमायुर्गतिश्च ।वह्निर्वक्त्रं चन्द्रसूर्यौ च नेत्रे दिशः श्रोते घ्राणमायुश्च वायुम् ॥४॥वाचं वेदा हृदयं वै नभश्च पृथ्वी पादौ तारका रोमकूपाः ।अङ्गान्युपाङ्गान्यधिदेवता च विद्यादुपस्थं हि तथा समुद्रम् ॥५॥तं देवदेवं शरणं प्रजानां यज्ञात्मकं सर्वलोकप्रतिष्ठम् ।अजं वरेण्यं वरदं वरिष्ठं ब्रह्माणमीशं पुरुषं नमस्ते ॥६॥आद्यं पुरुषमीशानं पुरुहूतं पुरस्कृतम् ।ऋतमेकाक्षरं ब्रह्म व्यक्तासक्तं सनातनम् ॥७॥महाभारतमाख्यानं कुरुक्षेत्रं सरस्वतीम् ।केशवं गां च गङ्गां च कीर्तयेन्मां प्रसीदति ॥८॥ॐ भूः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ भुवः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ महः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ जनः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ तपः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ सत्यं पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ भूर्भुवः स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ वासुदेवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ सङ्कर्षणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ प्रद्युम्नाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ अनिरुद्धाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ हयग्रीवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ भवाद्भवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ केशवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ नारायणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ माधवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ गोविन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ विष्णवे पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ मधुसूदनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ वैकुण्ठाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ अच्युताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ त्रिविक्रमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ वामनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ श्रीधराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ हृषीकेशाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ पद्मनाभाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ मुकुन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ दामोदराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ सत्याय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ ईशानाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ तत्पुरुषाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ पुरुषोत्तमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ श्री रामचन्द्राय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ श्री नृसिंहाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ अनन्ताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ विश्वरूपाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।ॐ प्रणवेन्दुवह्निरविसहस्रनेत्राय पुरुषायपुरुषरूपाय वासुदेवाय नमो नमः ।य इदं गोपालहृदयमधीते स ब्रह्महत्यायाः पूतो भवति ।सुरापानात् स्वर्णस्तेयात् वृषलीगमनात् पति सम्भाषणात्असत्यादगम्यागमनात् अपेयपानादभक्ष्यभक्षणाच्च पूतो भवति ।अब्रह्मचारी ब्रह्मचारी भवति । भगवान्महाविष्णुरित्याह ।॥ इति गोपालहृदयस्तोत्रं सम्पूर्णम् ॥ N/A References : N/A Last Updated : November 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP