मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे| श्री गणेशाय नमः । अस्य श्... कृष्ण स्तोत्रे श्रीकृष्णकर्णामृतं भक्तिरसायनम् श्रीकृष्णविलासकाव्यम् श्री गणेशाय नमः । श्रीनार... श्री गणेशाय नमः । ॐ अस्य ... अग्रे कुरूनाम् अथ पाण्डवा... श्री कल्याणी देवी विरचितम... श्री गणेशाय नमः । अस्य श्... श्रीशुक उवाच -- किं जपन् ... श्रीवादिराजयति कृतम् । अ... उत्तिष्ठोत्तिष्ठ गोविन्द ... श्रियः कान्ताय कल्याण निध... महादेव उवाचः । ॐ श्रीं नम... ज्वर उवाच । नमामि त्वाऽनन... श्रीधर्म उवाच । कृष्णं व... नारायण उवाच । वरं वरेण्य... ब्रह्मोवाच कृष्णं वन्दे ... महादेव उवाच । जयस्वरुपं ... सरस्वत्युवाच । रासमण्डलम... मोहिन्युवाच । सर्वेन्द्रि... शौनक उवाच । कं मन्त्रं बा... श्रीमदानन्दतीर्थ भगवत्पाद... श्रीकृष्ण उवाच । किं ते न... देवा ऊचुः । जगद्योनिरयोनि... ॐ नमो विश्वरूपाय विश्वस्थ... श्रीनारद उवाच । नवीननीरदश... श्रीमान् वेंकटनाथार्यः कव... गोप्य ऊचुः । जयति तेऽधिकं... श्री कल्याणी देवी विरचितम... यश्चैकशैलनिकटे कमलापुरीश-... पान्त्वस्मान् पुरुहूत वैर... ओमिति ज्ञानमात्रेण रोगाजी... सखी हे केऽसि मदनमुदारम् र... कदा बृन्दारण्ये विपुलयमुन... हृदम्भोजे कृष्णस्सजलजलदश्... अग्रे पश्यामि तेजो निबिडत... नमस्ये पुरुषं त्वाद्यमीश्... श्रीकृष्णस्तोत्रम् कृष्णलीलावर्णनस्तोत्रम् दुराशोन्धोऽमुष्मिन विषय ... ईश्वरः परमः कृष्णः सच्चिद... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... भूपालच्छदि दुष्टदैत्यनिवह... सञ्चितयामि गुरुवायुपुरेश,... हरि नारायण गोविन्द जय नार... मङ्गलं यादवेन्द्राय महनीय... इन्द्र उवाच: कृष्ण कृष्ण... ज्ञातोऽसि देवदेवेश सर्वज्... श्रीशं कमलपत्राक्षं देवकी... शङ्खचक्रगदापाणे! द्वरकानि... नवजलधरवर्णं चम्पकोद्भासिक... सर्वमार्गेषु नष्टेषु कलौ ... वन्दे वृन्दावनचरं वल्लवीज... अग्रे पश्यामि तेजो निबिडत... हृदम्भोजे कृष्णस्सजलजलदश्... कदा बृन्दारण्ये विपुलयमुन... वन्दे नवघनश्यामं पीतकौशेय... रक्ष रक्ष हरे मां च निमग्... ब्रह्मोवाच- नौमीड्य तेऽभ... ॐ अर्चितः संस्मृतो ध्यात... प्रस्तावना कुञ्चिताधरपुटेन पूरयन् वं... अव्यादजोङघ्रिंमणिमांस्तव ... श्रृणु देवि प्रवक्ष्यामि ... ह्रदंभोजे कृष्णः सजलजलदश्... देवा ऊचुः । जगद्योनिरयोन... त्वमतींद्रियमव्यक्तमक्षरं... श्रीवेंकटेश्वराय नमः । ... यथा संरक्षितं ब्रह्मन्सर्... श्रीनारद उवाच । नवीननीर... कदाचित्कालिंदीतटविपिनसङ्ग... मोहिन्युवाच । सर्वेन... ब्रह्मोवाच । रक्ष रक्ष... वंदे नवघनश्यामं पीतकौशेयव... अस्य श्रीकृष्णाष्टोत्तरशत... इन्द्र उवाच । अक्षरं परम... विप्रपत्न्य ऊचुः । त्वं... श्रीमान् वेंकटनार्थायः कव... सत्यं ज्ञानमनन्तं नित्यमन... यस्माद्विश्वं जातमिदं चित... चतुर्मुखादिसंस्तुतं समस्त... सिंधुदेशोद्भवो विप्रो नाम... विद्राविते भूतगणे ज्वरस्त... ॥ जगन्नाथ प्रणामः॥ नीला... अग्रे कुरूणामथ पाण्डवानां... ॐ श्रीं ह्रीं क्लीं ग्लौं... अथ प्रथमस्तोत्रम् वन्दे... यश्चैकशैलनिकटे कमलापुरीश-... शालिग्रामस्तोत्र - श्री गणेशाय नमः । अस्य श्... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotravishnuदेवतादेवीविष्णुस्तोत्र शालिग्रामस्तोत्र Translation - भाषांतर श्री गणेशाय नमः ।अस्य श्रीशालिग्रामस्तोत्रमन्त्रस्य श्रीभगवान् ऋषिः।,नारायणो देवता।, अनुष्टुप् छन्दः।,श्रीशालिग्रामस्तोत्रमन्त्रजपे विनियोगः ॥युधिष्ठिर उवाच ।श्रीदेवदेव देवेश देवतार्चनमुत्तमम् ।तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तम ॥१॥श्रीभगवानुवाच ।गण्डक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे ।दशयोजनविस्तीर्णा महाक्षेत्रवसुन्धरा ॥२॥शालिग्रामो भवेद्देवो देवी द्वारावती भवेत् ।उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥३॥शालिग्रामशिला यत्र यत्र द्वारावती शिला ।उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥४॥आजन्मकृतपापानां प्रायश्चित्तं य इच्छति ।शालिग्रामशिलावारि पापहारि नमोऽस्तु ते ॥५॥अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥६॥शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि ।अङ्गलग्नं मनुष्याणां ब्रह्महत्यादिकं दहेत् ॥७॥स्नानोदकं पिवेन्नित्यं चक्राङ्कितशिलोद्भवम् ।प्रक्षाल्य शुद्धं तत्तोयं ब्रह्महत्यां व्यपोहति ॥८॥अग्निष्टोमसहस्राणि वाजपेयशतानि च ।सम्यक् फलमवाप्नोति विष्णोर्नैवेद्यभक्षणात् ॥९॥नैवेद्ययुक्तां तुलसीं च मिश्रितां विशेषतः पादजलेन विष्णोः ।योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥१०॥खण्डिताः स्फुटिता भिन्ना वन्हिदग्धास्तथैव च ।शालिग्रामशिला यत्र तत्र दोषो न विद्यते ॥११॥न मन्त्रः पूजनं नैव न तीर्थं न च भावना ।न स्तुतिर्नोपचारश्च शालिग्रामशिलार्चने ॥१२॥ब्रह्महत्यादिकं पापं मनोवाक्कायसम्भवम् ।शीघ्रं नश्यति तत्सर्वं शालिग्रामशिलार्चनात् ॥१३॥नानावर्णमयं चैव नानाभोगेन वेष्टितम् ।तथा वरप्रसादेन लक्ष्मीकान्तं वदाम्यहम् ॥१४॥नारायणोद्भवो देवश्चक्रमध्ये च कर्मणा ।तथा वरप्रसादेन लक्ष्मीकान्तं वदाम्यहम् ॥१५॥कृष्णे शिलातले यत्र सूक्ष्मं चक्रं च दृश्यते ।सौभाग्यं सन्ततिं धत्ते सर्व सौख्यं ददाति च ॥१६॥वासुदेवस्य चिह्नानि दृष्ट्वा पापैः प्रमुच्यते ।श्रीधरः सुकरे वामे हरिद्वर्णस्तु दृश्यते ॥१७॥वराहरूपिणं देवं कूर्माङ्गैरपि चिह्नितम् ।गोपदं तत्र दृश्येत वाराहं वामनं तथा ॥१८॥पीतवर्णं तु देवानां रक्तवर्णं भयावहम् ।नारसिंहो भवेद्देवो मोक्षदं च प्रकीर्तितम् ॥१९॥शङ्खचक्रगदाकूर्माः शङ्खो यत्र प्रदृश्यते ।शङ्खवर्णस्य देवानां वामे देवस्य लक्षणम् ॥२०॥दामोदरं तथा स्थूलं मध्ये चक्रं प्रतिष्ठितम् ।पूर्णद्वारेण सङ्कीर्णा पीतरेखा च दृश्यते ॥२१॥छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः ।चिपिटे च महादुःखं शूलाग्रे तु रणं ध्रुवम् ॥२२॥ललाटे शेषभोगस्तु शिरोपरि सुकाञ्चनम् ।चक्रकाञ्चनवर्णानां वामदेवस्य लक्षणम् ॥२३॥वामपार्श्वे च वै चक्रे कृष्णवर्णस्तु पिङ्गलम् ।लक्ष्मीनृसिंहदेवानां पृथग्वर्णस्तु दृश्यते ॥२४॥लम्बोष्ठे च दरिद्रं स्यात्पिण्गले हानिरेव च ।लग्नचक्रे भवेद्याधिर्विदारे मरणं ध्रुवम् ॥२५॥पादोदकं च निर्माल्यं मस्तके धारयेत्सदा ।विष्णोर्द्दष्टं भक्षितव्यं तुलसीदलमिश्रितम् ॥२६॥कल्पकोटिसहस्राणि वैकुण्ठे वसते सदा ।शालिग्रामशिलाबिन्दुर्हत्याकोटिविनाशनः ॥२७॥तस्मात्सम्पूजयेद्ध्यात्वा पूजितं चापि सर्वदा ।शालिग्रामशिलास्तोत्रं यः पठेच्च द्विजोत्तमः ॥२८॥स गच्छेत्परमं स्थानं यत्र लोकेश्वरो हरिः ।सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥२९॥दशावतारो देवानां पृथग्वर्णस्तु दृश्यते ।ईप्सितं लभते राज्यं विष्णुपूजामनुक्रमात् ॥३०॥कोट्यो हि ब्रह्महत्यानामगम्यागम्यकोटयः ।ताः सर्वा नाशमायान्ति विष्णुनैवेद्यभक्षणात् ॥३१॥विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम् ।तस्मादष्टगुणं पापं भूमौ बिन्दुनिपातनात् ॥३२॥। इति श्रीभविष्योत्तरपुराणे श्रीकृष्णयुधिष्ठिरसंवादे शालिग्रामस्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : November 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP