मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे| श्रीशुक उवाच -- किं जपन् ... कृष्ण स्तोत्रे श्रीकृष्णकर्णामृतं भक्तिरसायनम् श्रीकृष्णविलासकाव्यम् श्री गणेशाय नमः । श्रीनार... श्री गणेशाय नमः । ॐ अस्य ... अग्रे कुरूनाम् अथ पाण्डवा... श्री कल्याणी देवी विरचितम... श्री गणेशाय नमः । अस्य श्... श्रीशुक उवाच -- किं जपन् ... श्रीवादिराजयति कृतम् । अ... उत्तिष्ठोत्तिष्ठ गोविन्द ... श्रियः कान्ताय कल्याण निध... महादेव उवाचः । ॐ श्रीं नम... ज्वर उवाच । नमामि त्वाऽनन... श्रीधर्म उवाच । कृष्णं व... नारायण उवाच । वरं वरेण्य... ब्रह्मोवाच कृष्णं वन्दे ... महादेव उवाच । जयस्वरुपं ... सरस्वत्युवाच । रासमण्डलम... मोहिन्युवाच । सर्वेन्द्रि... शौनक उवाच । कं मन्त्रं बा... श्रीमदानन्दतीर्थ भगवत्पाद... श्रीकृष्ण उवाच । किं ते न... देवा ऊचुः । जगद्योनिरयोनि... ॐ नमो विश्वरूपाय विश्वस्थ... श्रीनारद उवाच । नवीननीरदश... श्रीमान् वेंकटनाथार्यः कव... गोप्य ऊचुः । जयति तेऽधिकं... श्री कल्याणी देवी विरचितम... यश्चैकशैलनिकटे कमलापुरीश-... पान्त्वस्मान् पुरुहूत वैर... ओमिति ज्ञानमात्रेण रोगाजी... सखी हे केऽसि मदनमुदारम् र... कदा बृन्दारण्ये विपुलयमुन... हृदम्भोजे कृष्णस्सजलजलदश्... अग्रे पश्यामि तेजो निबिडत... नमस्ये पुरुषं त्वाद्यमीश्... श्रीकृष्णस्तोत्रम् कृष्णलीलावर्णनस्तोत्रम् दुराशोन्धोऽमुष्मिन विषय ... ईश्वरः परमः कृष्णः सच्चिद... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... भूपालच्छदि दुष्टदैत्यनिवह... सञ्चितयामि गुरुवायुपुरेश,... हरि नारायण गोविन्द जय नार... मङ्गलं यादवेन्द्राय महनीय... इन्द्र उवाच: कृष्ण कृष्ण... ज्ञातोऽसि देवदेवेश सर्वज्... श्रीशं कमलपत्राक्षं देवकी... शङ्खचक्रगदापाणे! द्वरकानि... नवजलधरवर्णं चम्पकोद्भासिक... सर्वमार्गेषु नष्टेषु कलौ ... वन्दे वृन्दावनचरं वल्लवीज... अग्रे पश्यामि तेजो निबिडत... हृदम्भोजे कृष्णस्सजलजलदश्... कदा बृन्दारण्ये विपुलयमुन... वन्दे नवघनश्यामं पीतकौशेय... रक्ष रक्ष हरे मां च निमग्... ब्रह्मोवाच- नौमीड्य तेऽभ... ॐ अर्चितः संस्मृतो ध्यात... प्रस्तावना कुञ्चिताधरपुटेन पूरयन् वं... अव्यादजोङघ्रिंमणिमांस्तव ... श्रृणु देवि प्रवक्ष्यामि ... ह्रदंभोजे कृष्णः सजलजलदश्... देवा ऊचुः । जगद्योनिरयोन... त्वमतींद्रियमव्यक्तमक्षरं... श्रीवेंकटेश्वराय नमः । ... यथा संरक्षितं ब्रह्मन्सर्... श्रीनारद उवाच । नवीननीर... कदाचित्कालिंदीतटविपिनसङ्ग... मोहिन्युवाच । सर्वेन... ब्रह्मोवाच । रक्ष रक्ष... वंदे नवघनश्यामं पीतकौशेयव... अस्य श्रीकृष्णाष्टोत्तरशत... इन्द्र उवाच । अक्षरं परम... विप्रपत्न्य ऊचुः । त्वं... श्रीमान् वेंकटनार्थायः कव... सत्यं ज्ञानमनन्तं नित्यमन... यस्माद्विश्वं जातमिदं चित... चतुर्मुखादिसंस्तुतं समस्त... सिंधुदेशोद्भवो विप्रो नाम... विद्राविते भूतगणे ज्वरस्त... ॥ जगन्नाथ प्रणामः॥ नीला... अग्रे कुरूणामथ पाण्डवानां... ॐ श्रीं ह्रीं क्लीं ग्लौं... अथ प्रथमस्तोत्रम् वन्दे... यश्चैकशैलनिकटे कमलापुरीश-... नारायणाय अष्टाक्षरमाहात्म्यं - श्रीशुक उवाच -- किं जपन् ... भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godkrishnaprayerstotraकृष्णदेवतादेवीस्तोत्र ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यं Translation - भाषांतर श्रीशुक उवाच --किं जपन् मुच्यते तात सततं विष्णुतत्परः ।संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥१॥व्यास उवाच --अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रमुत्तमम् ।यं जपन् मुच्यते मर्त्यो जन्मसंसारबन्धनात् ॥२॥हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् ।एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः ॥३॥एकान्ते निर्जनस्थाने विष्णवग्रे वा जलान्तिके ।जपेदष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय वै ॥४॥अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम् ।छन्दश्च दैवी गायत्री परमात्मा च देवता ॥५॥शुक्लवर्णं च ॐकारं नकारं रक्तमुच्यते ।मोकारं वर्णतः कृष्णं नाकारं रक्तमुच्यते ॥६॥राकारं कुङ्कुमाभं तु यकारं पीतमुच्यते ।णाकारमञ्जनाभं तु यकारं बहुवर्णकम् ॥७॥ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ।भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः ।वेदानां प्रणवेनैष सिद्धो मन्त्रः सनातनः ॥८॥सर्वपापहरः श्रीमान् सर्वमन्त्रेषु चोत्तमः ।एनमष्टाक्षरं मन्त्रं जपन्नारायणं स्मरेत् ॥९॥संध्यावसाने सततं सर्वपापैः प्रमुच्यते ।एष एव परो मन्त्र एष एव परं तपः ॥१०॥एष एव परो मोक्ष एष स्वर्ग उदाहृतः ।सर्ववेदरहस्येभ्यः सार एष समुद्धृइतः ॥११॥विष्णुना वैष्णवानां हि हिताय मनुजां पुरा ।एवं ज्ञात्वा ततो विप्रो ह्यष्टाक्षरमिमं स्मरेत् ॥१२॥स्नात्वा शुचिः शुचौ देशे जपेत् पापविशुद्धये ।जपे दाने च होमे च गमने ध्यानपर्वसु ॥१३॥जपेन्नारायणं मन्त्रं कर्मपूर्वे परे तथा ।जपेत्सहस्रं नियुतं शुचिर्भूत्वा समाहितः ॥१४॥मासि मासि तु द्वादश्यां विष्णुभक्तो द्विजोत्तमः ।स्नात्वा शुचिर्जपेद्यस्तु नमो नारायणं शतम् ॥१५॥स गच्छेत् परमं देवं नारायणमनामयम् ।गन्धपुष्पादिभिर्विष्णुमनेनाराध्य यो जपेत् ॥१६॥महापातकयुक्तोऽपि मुच्यते नात्र संशयः ।हृदि कृत्वा हरिं देवं मन्त्रमेनं तु यो जपेत् ॥१७॥सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिम् ।प्रथमेन तु लक्षेण आत्मशुद्धिर्भविष्यति ॥१८॥द्वितीयेन तु लक्षेण मनुसिद्धिमवाप्नुयात् ।तृतीयेन तु लक्षेण स्वर्गलोकमवाप्नुयात् ॥१९॥चतुर्थेन तु लक्षेण हरेः सामीप्यमाप्नुयात् ।पञ्चमेन तु लक्षेण निर्मलं ज्ञानमाप्नुयात् ॥२०॥तथा षष्ठेन लक्षेण भवेद्विष्णौ स्थिरा मतिः ।सप्तमेन तु लक्षेण स्वरूपं प्रतिपद्यते ॥२१॥अष्टमेन तु लक्षेण निर्वाणमधिगच्छति ।स्वस्वधर्मसमायुक्तो जपं कुर्याद् द्विजोत्तमः ॥२२॥एतत् सिद्धिकरं मन्त्रमष्टाक्षरमतन्द्रितः ।दुःस्वप्नासुरपैशाचा उरगा ब्रह्मराक्षसाः ॥२३॥जापिनं नोपसर्पन्ति चौरक्षुद्राधयस्तथा ।एकाग्रमनसाव्यग्रो विष्णुभक्तो दृढव्रतः ॥२४॥जपेन्नारायणं मन्त्रमेतन्मृत्युभयापहम् ।मन्त्राणां परमो मन्त्रो देवतानां च दैवतम् ॥२५॥गुह्यानां परमं गुह्यमोंकाराद्यक्षराष्टकम् ।आयुष्यं धनपुत्रांश्च पशून् विद्यां महद्यशः ॥२६॥धर्मार्थकाममोक्षांश्च लभते च जपन्नरः ।एतत् सत्यं च धर्म्यं च वेदश्रुतिनिदर्शनात् ॥२७॥एतत् सिद्धिकरं नृणां मन्त्ररूपं न संशयः ।ऋषयः पितरो देवाः सिद्धास्त्वसुरराक्षसाः ॥२८॥एतदेव परं जप्त्वा परां सिद्धिमितो गताः ।ज्ञात्वा यस्त्वात्मनः कालं शास्त्रान्तरविधानतः ।अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् ॥२९॥नारायणाय नम इत्ययमेव सत्यंसंसारघोरविषसंहरणाय मन्त्रः ।श्रृण्वन्तु भव्यमतयो मुदितास्त्वरागाउच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः ॥३०॥भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्वं ब्रवीम्यहम् ।हे पुत्र शिष्याः श्रृणुत न मन्त्रोऽष्टाक्षरात्परः ॥३१॥सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ।वेदाच्छास्त्रं परं नास्ति न देवः केशवात् परः ॥३२॥आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥३३॥इत्येतत् सकलं प्रोक्तं शिष्याणां तव पुण्यदम् ।कथाश्च विविधाः प्रोक्ता मया भज जनार्दनम् ॥३४॥अष्टाक्षरमिमं मन्त्रं सर्वदुःखविनाशनम् ।जप पुत्र महाबुद्धे यदि सिद्धिमभीप्ससि ॥३५॥इदं स्तवं व्यासमुखात्तु निस्सृतंसंध्यात्रये ये पुरुषाः पठन्ति ।ते धौतपाण्डुरपटा इव राजहंसाःसंसारसागरमपेतभयास्तरन्ति ॥३६॥इति श्रीनरसिंहपुराणे अष्टाक्षरमाहात्म्यं नाम सप्तदशोऽध्यायः ॥१७॥=============== ॥कृष्णद्वादशनामस्तोत्रम् ॥ श्री गणेशाय नमः ।श्रीकृष्ण उवाच ।किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन ।तानि नामानि विज्ञाय नरः पापैः प्रमुच्यते ॥१॥प्रथमं तु हरिं विन्द्याद् द्वितीयं केशवं तथा ।तृतीयं पद्मनाभं च चतुर्थं वामनं स्मरेत् ॥२॥पञ्चमं वेदगर्भं तु षष्ठं च मधुसूदनम् ।सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा ॥३॥नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् ।कृष्णमेकादशं विन्द्याद् द्वादशं श्रीधरं तथा ॥४॥एतानि द्वादश नामानि विष्णुप्रोक्ते विधीयते ।सायं-प्रातः पठेन्नित्यं तस्य पुण्यफलं शृणु ॥५॥चान्द्रायण-सहस्राणि कन्यादानशतानि च ।अश्वमेधसहस्राणि फलं प्राप्नोत्यसंशयः ॥६॥अमायां पौर्णमास्यां च द्वादश्यां तु विशेषतः ।प्रातःकाले पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥७॥॥इति श्रीमन्महाभारतेऽरण्यपर्वणि कृष्णद्वादशनामस्तोत्रं सम्पूर्णम् ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP