मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे| यश्चैकशैलनिकटे कमलापुरीश-... कृष्ण स्तोत्रे श्रीकृष्णकर्णामृतं भक्तिरसायनम् श्रीकृष्णविलासकाव्यम् श्री गणेशाय नमः । श्रीनार... श्री गणेशाय नमः । ॐ अस्य ... अग्रे कुरूनाम् अथ पाण्डवा... श्री कल्याणी देवी विरचितम... श्री गणेशाय नमः । अस्य श्... श्रीशुक उवाच -- किं जपन् ... श्रीवादिराजयति कृतम् । अ... उत्तिष्ठोत्तिष्ठ गोविन्द ... श्रियः कान्ताय कल्याण निध... महादेव उवाचः । ॐ श्रीं नम... ज्वर उवाच । नमामि त्वाऽनन... श्रीधर्म उवाच । कृष्णं व... नारायण उवाच । वरं वरेण्य... ब्रह्मोवाच कृष्णं वन्दे ... महादेव उवाच । जयस्वरुपं ... सरस्वत्युवाच । रासमण्डलम... मोहिन्युवाच । सर्वेन्द्रि... शौनक उवाच । कं मन्त्रं बा... श्रीमदानन्दतीर्थ भगवत्पाद... श्रीकृष्ण उवाच । किं ते न... देवा ऊचुः । जगद्योनिरयोनि... ॐ नमो विश्वरूपाय विश्वस्थ... श्रीनारद उवाच । नवीननीरदश... श्रीमान् वेंकटनाथार्यः कव... गोप्य ऊचुः । जयति तेऽधिकं... श्री कल्याणी देवी विरचितम... यश्चैकशैलनिकटे कमलापुरीश-... पान्त्वस्मान् पुरुहूत वैर... ओमिति ज्ञानमात्रेण रोगाजी... सखी हे केऽसि मदनमुदारम् र... कदा बृन्दारण्ये विपुलयमुन... हृदम्भोजे कृष्णस्सजलजलदश्... अग्रे पश्यामि तेजो निबिडत... नमस्ये पुरुषं त्वाद्यमीश्... श्रीकृष्णस्तोत्रम् कृष्णलीलावर्णनस्तोत्रम् दुराशोन्धोऽमुष्मिन विषय ... ईश्वरः परमः कृष्णः सच्चिद... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... भूपालच्छदि दुष्टदैत्यनिवह... सञ्चितयामि गुरुवायुपुरेश,... हरि नारायण गोविन्द जय नार... मङ्गलं यादवेन्द्राय महनीय... इन्द्र उवाच: कृष्ण कृष्ण... ज्ञातोऽसि देवदेवेश सर्वज्... श्रीशं कमलपत्राक्षं देवकी... शङ्खचक्रगदापाणे! द्वरकानि... नवजलधरवर्णं चम्पकोद्भासिक... सर्वमार्गेषु नष्टेषु कलौ ... वन्दे वृन्दावनचरं वल्लवीज... अग्रे पश्यामि तेजो निबिडत... हृदम्भोजे कृष्णस्सजलजलदश्... कदा बृन्दारण्ये विपुलयमुन... वन्दे नवघनश्यामं पीतकौशेय... रक्ष रक्ष हरे मां च निमग्... ब्रह्मोवाच- नौमीड्य तेऽभ... ॐ अर्चितः संस्मृतो ध्यात... प्रस्तावना कुञ्चिताधरपुटेन पूरयन् वं... अव्यादजोङघ्रिंमणिमांस्तव ... श्रृणु देवि प्रवक्ष्यामि ... ह्रदंभोजे कृष्णः सजलजलदश्... देवा ऊचुः । जगद्योनिरयोन... त्वमतींद्रियमव्यक्तमक्षरं... श्रीवेंकटेश्वराय नमः । ... यथा संरक्षितं ब्रह्मन्सर्... श्रीनारद उवाच । नवीननीर... कदाचित्कालिंदीतटविपिनसङ्ग... मोहिन्युवाच । सर्वेन... ब्रह्मोवाच । रक्ष रक्ष... वंदे नवघनश्यामं पीतकौशेयव... अस्य श्रीकृष्णाष्टोत्तरशत... इन्द्र उवाच । अक्षरं परम... विप्रपत्न्य ऊचुः । त्वं... श्रीमान् वेंकटनार्थायः कव... सत्यं ज्ञानमनन्तं नित्यमन... यस्माद्विश्वं जातमिदं चित... चतुर्मुखादिसंस्तुतं समस्त... सिंधुदेशोद्भवो विप्रो नाम... विद्राविते भूतगणे ज्वरस्त... ॥ जगन्नाथ प्रणामः॥ नीला... अग्रे कुरूणामथ पाण्डवानां... ॐ श्रीं ह्रीं क्लीं ग्लौं... अथ प्रथमस्तोत्रम् वन्दे... यश्चैकशैलनिकटे कमलापुरीश-... गोविन्दराजप्रपत्तिः - यश्चैकशैलनिकटे कमलापुरीश-... भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godkrishnaprayerstotraकृष्णदेवतादेवीस्तोत्र गोविन्दराजप्रपत्तिः Translation - भाषांतर यश्चैकशैलनिकटे कमलापुरीश- गोविन्दराजपदयोरकरोत् प्रपत्तिम् ।तं वादिभीकरगुरोश्चरणं प्रपद्येपात्रं गुरुं वरवरं परमं गुरूणाम् ॥१॥श्रीमन् निदान जगतां निखिलाण्डजात- निर्वाहशक्तिमुखदिव्यगुणैकतान ।अत्यन्तभोग्यनतदोष निरस्तदोषगोविन्दराज चरणौ शरणं प्रपद्ये ॥२॥रेखारथाङ्गसरसीरुहवज्रशङ्क- च्छत्राङ्कुशप्रभृतिमङ्गलचिह्नगर्भौ ।संसारतापहरणे निपुणौ नतानांगोविन्दराज चरणौ शरणं प्रपद्ये ॥३॥पश्यत्सु सान्द्रभयकौतुकमर्भकेषुप्रौढेषु सत्सु कृतकृत्यपरायणेषु ।विध्वंसितोर्ध्वशकटावपि बालभावेगोविन्दराज चरणौ शरणं प्रपद्ये ॥४॥आलम्ब्य बाहुयुगलेन कुमारभावेगाढं कराङ्गुलियुगं किल नन्दपत्न्याः ।अभ्यस्यमानदशचङ्क्रमणाभिरामौगोविन्दराज चरणौ शरणं प्रपद्ये ॥५॥घोषाङ्गनाकरसरोरुहतालनाद- संगीतसंपदनुरूपमनोज्ञनृत्तौ ।माणिक्यनूपुरमरीचिकृताङ्गलेपौगोविन्दराज चरणौ शरणं प्रपद्ये ॥६॥कुट्टाकतामुपगतौ सरसः प्रसह्यमध्येसरित्सलिलमुद्धतकालियस्य ।तत्सुन्दरीनयननन्दनसंनिवेशौगोविन्दराज चरणौ शरणं प्रपद्ये ॥७॥वासांसि देहि तव कृष्ण वशंवदाना- मस्माकमाकुलधियामिति गोपकन्याः ।उद्दिश्य यौ विदधुरञ्जलिमा प्रसादाद्गोविन्दराज चरणौ शरणं प्रपद्ये ॥८॥गोरक्षणे किल बभूव यदीयरेणु- रक्रूरमस्तकमणेः सरणिं समेतः ।तावद्भुतावनुपमावतिपावनौ तेगोविन्दराज चरणौ शरणं प्रपद्ये ॥९॥मल्लावहे मधुरया मधुराङ्गनानांफुल्लारविन्ददलतल्लजलोचनानाम् ।वाण्या प्रशंसितपरार्ध्यगतिप्रकारौगोविन्दराज चरणौ शरणं प्रपद्ये ॥१०॥कंसं निपात्य कनकासनतः पृथिव्या- मुद्धृत्य सागसमनागसमुग्रसेनम् ।राज्येऽभिषिच्य विनिवारितभूमिभारौगोविन्दराज चरणौ शरणं प्रपद्ये ॥११॥दुर्योधने दुरभिमानिनि दुर्भगाणा- मग्रेसरे भजति ते शिरसः प्रदेशम् ।धन्येन यन्निकटतः स्थितमर्जुनेनगोविन्दराज चरणौ शरणं प्रपद्ये ॥१२॥सारथ्यवेषसमलंकृतपाण्डुसूनो- र्युद्धाङ्गणोज्ज्वलरथाञ्चलसंनिवेशौ ।सान्द्रेन्द्रनीलपरिभावुकभव्यरूपौगोविन्दराज चरणौ शरणं प्रपद्ये ॥१३॥भक्त्या प्रसन्नहृदयेन धनंजयेनयत्रार्चितानि कुसुमानि शिवोत्तमाङ्गे ।साक्षात्कृतानि सहसाद्भुतवैभवौ तौगोविन्दराज चरणौ शरणं प्रपद्ये ॥१४॥अस्मद्गुरुप्रभृतिभिः कमलावसानै- रादर्शितौ करुणया मम देशिकेन्द्रैः ।सत्त्वोत्तरैः सकलजीवदयापरैस्तै- र्गोविन्दराज चरणौ शरणं प्रपद्ये ॥१५॥अस्मात्पितामहमशेषगुणाभिराम- माचार्यरत्नमयि वादिभयंकरार्यम् ।गोवर्धनाद्रिधृतिधारितगोप वीक्ष्यगोविन्दराज मम दुर्लपितं क्षमस्व ॥१६॥। इति श्रीगोविन्दराजप्रपत्तिः संपूर्णा । N/A References : N/A Last Updated : July 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP