संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| एकादशोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - एकादशोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती एकादशोऽध्यायः Translation - भाषांतर दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥१॥आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत।स्वयमेव लयं याति यथा राजान्यधर्मतः ॥२॥हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशोदीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः ।वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रं नगास्तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥३॥कलौ दशसहस्राणि हरिस्त्यजति मेदिनीम् ।तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः ॥४॥गृहासक्तस्य नो विद्या नो दया मांसभोजिनः ।द्रव्यलुब्धस्य नो सत्यं स्त्रैणस्य न पवित्रता ॥५॥न दुर्जनः साधुदशामुपैतिबहुप्रकारैरपि शिक्ष्यमाणः ।आमूलसिक्तः पयसा घृतेनन (किं) निम्बवृक्षो मधुरत्वमेति ॥६॥अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि ।न शुध्यति यथा भाण्डं सुराया दाहितं च सत ॥७॥न वेत्ति यो यस्य गुणप्रकर्षंस तं सदा निन्दति नात्र चित्रम् ।यथा किराती करिकुम्भलब्धांमुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥८॥ये तु संवत्सरं पूर्णं नित्यं मौनेन भुञ्जते ।युगकोटिसहस्रं तैः स्वर्गलोके महीयते ॥९॥कामक्रोधौ तथा लोभं स्वादुशृङ्गारकौतुके ।अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत ॥१०॥अकृष्टफलमूलानि वनवासरतिः सदा ।कुरुतेऽहरहः श्राद्धं ऋषिर्विप्रः स उच्यते ॥११॥एकाहारेण संतुष्टः षट्कर्मनिरतः सदा ।ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥१२॥लौकिके कर्मणि रतः पशूनां परिपालकः ।वाणिज्यकृषिकर्मा यः स विप्रो वैश्य उच्यते ॥१३॥लाक्षादितैलनीलीनां कौसुम्भमधुसर्पिषाम् ।विक्रेता मद्यमांसानां स विप्रः शूद्र उच्यते ॥१४॥परकार्यविहन्ता च दाम्भिकः स्वार्थसाधकः ।छली द्वेषी मृदुः क्रूरो विप्रो मार्जार उच्यते ॥१५॥वापीकूपतडागानामारामसुरवेश्मनाम् ।उच्छेदने निराशङ्कः स विप्रो म्लेच्छ उच्यते ॥१६॥देवद्रव्यं गुरुद्रव्यं परदाराभिमर्शनम् ।निर्वाहः सर्वभूतेषु विप्रश्चाण्डाल उच्यते ॥१७॥देयं भोज्यधनं धनं सुकृतिभिर्नो सञ्चयस्तस्य वैश्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता ।अस्माकं मधुदानभोगरहितं नष्टं चिरात्सञ्चितंनिर्वाणादिति नैजपादयुगलं धर्षन्त्यहो मक्षिकाः ॥१८॥इति चाणक्यनीतिदर्पणे एकादशोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP