संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| अष्टमोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - अष्टमोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती अष्टमोऽध्यायः Translation - भाषांतर अधमा धनमिच्छन्ति धनमानौ च मध्यमाः ।उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥१॥इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् ।भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥२॥दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥३॥वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित्प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा ।जीवान्स्थावरजङ्गमांश्च सकलान्संजीव्य भूमण्डलंभूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भोनिधिम् ॥४॥चाण्डालानां सहस्रैश्च सूरिभिस्तत्त्वदर्शिभिः ।एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥५॥तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि ।तावद्भवति चाण्डालो यावत्स्नानं न चाचरेत ॥६॥अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् ।भोजने चामृतं वारि भोजनान्ते विषापहम् ॥७॥हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः ।हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥८॥वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम् ।भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥९॥नाग्निहोत्रं विना वेदा न च दानं विना क्रिया ।न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥१०॥न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥११॥काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥१२॥काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।श्रद्धया च तथा सिद्धिस्तस्य विष्णोः प्रसादतः ॥१३॥शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् ।न तृष्णाया परा व्याधिर्न च धर्मो दयापरः ॥१४॥गुणो भूषयते रूपं शीलं भूषयते कुलम् ।सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम् ॥१५॥निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥१६॥शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता ।शुचिः क्षेमकरो राजा सन्तोषो ब्राहमणः शुचिः ॥१७॥असन्तुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः ।सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥१८॥किं कुलेन विशालेन विद्याहीनेन देहिनाम् ।दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥१९॥विद्वान्प्रशस्यते लोके विद्वान्सर्वत्र पूज्यते ।विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥२०॥रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥२१॥मांसभक्ष्यैः सुरापानैर्मुखैश्चाक्षरवर्जितैः ।पशुभिः पुरुषाकारैर्भाराक्रान्ता हि मेदिनी ॥२२॥अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः ।यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥२३॥इति चाणक्यनीतिदर्पणे अष्टमोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP