संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| द्वादशोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - द्वादशोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती द्वादशोऽध्यायः Translation - भाषांतर सानन्दं सदनं सुतास्तु सुधियः कान्ता प्रियालापिनीइच्छापूर्तिधनं स्वयोषिति रतिः स्वाज्ञापराः सेवकाः ।आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहेसाधोः सङ्गमुपासते च सततं धन्यो गृहस्थाश्रमः ॥१॥आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैति दानम् ।अनन्तपारं समुपैति राजन् यद्दीयते तन्न लभेद्द्विजेभ्यः ॥२॥दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जनेप्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् ।शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तताइत्थं ये पुरुषा कलासु कुशलास्तेष्वेव लोकस्थितिः ॥३॥हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौनेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ ।अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरोरे रे जम्बुक मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः ॥४॥येषां श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणांयेषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा ।येषां श्रीकृष्णलीलाललितरसकथासादरौ नैव कर्णौधिक्तान्धिक्तान्धिगेतान्कथयति सततं कीर्तनस्थो मृदङ्गः ॥५॥पत्रं नैव यदा करीलविटपे दोषो वसन्तस्य किंनोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ।वर्षा नैव पतन्ति चातकमुखे मेघस्य किं दूषणंयत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥६॥सत्सङ्गाद्भवति हि साधुना खलानां साधूनां नहि खलसङ्गतः खलत्वम् ।आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥७॥साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।कालेन फलते तीर्थं सद्यः साधुसमागमः ॥८॥विप्रास्मिन्नगरे महान्कथय कस्तालद्रुमाणां गणःको दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि ।को दक्षः परवित्तदारहरणे सर्वोऽपि दक्षो जनःकस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥९॥न विप्रपादोदककर्दमाणि न वेदशास्त्रध्वनिगर्जितानि ।स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥१०॥सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा ।शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ॥११॥अनित्यानि शरीराणि विभवो नैव शाश्वतः ।नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥१२॥निमन्त्रोत्सवा विप्रा गावो नवतृणोत्सवाः ।पत्युत्साहयुता भार्या अहं कृष्णचरणोत्सवः ॥१३॥मातृवत्परदारेषु परद्रव्येषु लोष्ट्रवत्आत्मवत्सर्वभूतेषु यः पश्यति स पण्‚इतः ॥१४॥धर्मे तत्परता मुखे मधुरता दाने समुत्साहतामित्रेऽवञ्चकता गुरौ विनयता चित्तेऽतिमभीरता ।आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञानतारूपे सुन्दरता शिवे भजनता त्वय्यस्ति भो राघव ॥१५॥काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरःसूर्यस्तीव्रकरः शशी च विकलः क्षारो हि वारां निधिः ।कामो नष्टतनुर्बलिर्दितिसुतो नन्दी पशुः कामगोनैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ॥१६॥विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च ।व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥१७॥विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् ।अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥१८॥अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः ।आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥१९॥नाहारं चिन्तयेत्प्राज्ञो धर्ममेकं हि चिन्तयेत।आहारो हि मनुष्याणां जन्मना सह जायते ॥२०॥धनधान्यप्रयोगेषु विद्यासङ्ग्रहणे तथा ।आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत॥२१॥जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥२२॥वयसः परिणामेऽपि यः खलः खल एव सः ।सम्पक्वमपि माधुर्यं नोपयातीन्द्रवारुणम् ॥२३॥इति चाणक्यनीतिदर्पणे द्वादशोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP