संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| षोडशोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - षोडशोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती षोडशोऽध्यायः Translation - भाषांतर न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तयेस्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितंमातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥१॥जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥२॥यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी ।स तस्या वशगो भूत्वा नृत्येत्क्रीडाशकुन्तवत ॥३॥कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताःस्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राजप्रियः ।कः कालस्य न गोचरत्वमगमत्कोऽर्थी गतो गौरवंको वा दुर्जनदुर्गमेषु पतितः क्षेमेण यातः पथि ॥४॥न निर्मिता केन न दृष्टपूर्वा न श्रूयते हेममयी कुरङ्गी ।तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥५॥गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥६॥गुणाः सर्वत्र पूज्यन्ते न महत्योऽपि सम्पदः ।पूर्णेन्दुः किं तथा वन्द्यो निष्कलङ्को यथा कृशः ॥७॥परैरुक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत।इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥८॥विवेकिनमनुप्राप्ता गुणा यान्ति मनोज्ञताम् ।सुतरां रत्नमाभाति चामीकरनियोजितम् ॥९॥गुणैः सर्वज्ञतुल्योऽपि सीदत्येको निराश्रयः ।अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ॥१०॥अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् ।परपीडा च या वृत्तिर्नैव साधुषु विद्यते ॥११॥किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।या तु वेश्येव सामान्या पथिकैरपि भुज्यते ॥१२॥धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु ।अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥१३॥क्षीयन्ते सर्वदानानि यज्ञहोमबलिक्रियाः ।न क्षीयते पात्रदानमभयं सर्वदेहिनाम् ॥१४॥तृणं लघु तृणात्तूलं तूलादपि च याचकः ।वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥१५॥वरं प्राणपरित्यागो मानभङ्गेन जीवनात।प्राणत्यागे क्षणं दुःखं मानभङ्गे दिने दिने ॥१६॥प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥१७॥संसारविषवृक्षस्य द्वे फले अमृतोपमे ।सुभाषितं च सुस्वादु सङ्गतिः सज्जने जने ॥१८॥जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः ।तेनैवाभ्यासयोगेन देही चाभ्यस्यते पुनः ॥१९॥पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥२०॥इति चाणक्यनीतिदर्पणे षोडशोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP