संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| सप्तमोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - सप्तमोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती सप्तमोऽध्यायः Translation - भाषांतर अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।वञ्चनं चापमानं च मतिमान्न प्रकाशयेत ॥१॥धनधान्यप्रयोगेषु विद्यासङ्ग्रहणेषु च ।आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत॥२॥सन्तोषामृततृप्तानां यत्सुखं शान्तिरेव च ।न च तद्धनलुब्धानामितश्चेतश्च धावताम् ॥३॥सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥४॥विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिभृत्ययोः ।अन्तरेण न गन्तव्यं हलस्य वृषभस्य च ॥५॥पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च ।नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥६॥शकटं पञ्चहस्तेन दशहस्तेन वाजिनम् ।हस्ती हस्तसहस्रेण देशत्यागेन दुर्जनम् ॥७॥हस्ती अङ्कुशमात्रेण वाजी हस्तेन ताड्यते ।शृङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥८॥तुष्यन्ति भोजने विप्रा मयूरा घनगर्जिते ।साधवः परसम्पत्तौ खलाः परविपत्तिषु ॥९॥अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥१०॥बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्राह्मविद्बली ।रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥११॥नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् ।छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ॥१२॥यत्रोदकं तत्र वसन्ति हंसास्तथैव शुष्कं परिवर्जयन्ति ।न हंसतुल्येन नरेण भाव्यंपुनस्त्यजन्तः पुनराश्रयन्ते ॥१३॥उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥१४॥यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः ।यस्यार्थः स पुमांल्लोके यस्यार्थः स च जीवति ॥१५॥स्वर्गस्थितानामिह जीवलोकेचत्वारि चिह्नानि वसन्ति देहे ।दानप्रसङ्गो मधुरा च वाणीदेवार्चनं ब्राहणतर्पणं च ॥१६॥अत्यन्तकोपः कटुका च वाणीदरिद्रता च स्वजनेषु वैरम् ।नीचप्रसङ्गः कुलहीनसेवाचिह्नानि देहे नरकस्थितानाम् ॥१७॥गम्यते यदि मृगेन्द्रमन्दिरंलभ्यते करिकपालमौक्तिकम् ।जम्बुकालयगते च प्राप्यतेवत्सपुच्छखरचर्मखण्डनम् ॥१८॥शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना ।न गुह्यगोपने शक्तं न च दंशनिवारणे ॥१९॥वाचां शौचं च मनसः शौचमिन्द्रियनिग्रहः ।सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् ॥२०॥पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् ।इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥२१॥इति चाणक्यनीतिदर्पणे सप्तमोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP