संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| द्वितीयोध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - द्वितीयोध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती द्वितीयोध्यायः Translation - भाषांतर अनृतं साहसं माया मूर्खत्वमतिलोभिता ।अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥१॥भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराङ्गना ।विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥२॥यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी ।विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥३॥ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः ।तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ॥४॥परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥५॥न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत्।कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥६॥मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत्।मन्त्रेण रक्षयेद्गूढं कार्ये चापि नियोजयेत् ॥७॥कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।कष्टात्कष्टतरं चैव परगेहनिवासनम् ॥८॥शैले शैले च माणिक्यं मौक्तिकं न गजे गजे ।साधवो न हि सर्वत्र चन्दनं न वने वने ॥९॥पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः ।नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः ॥१०॥माता शत्रुः पिता वैरी याभ्यां बाला न पाठिताः ।सभामध्ये न शोभन्ते हंसमध्ये बको यथा ॥११॥लालनाद्बहवो दोषास्ताडने बहवो गुणाः ।अतश्छात्रांश्च पुत्रांश्च ताडयेन्न तु लालयेत् ॥१२॥श्लोकेन वा तदर्धेन तदर्धार्धाक्षरेण वा ।अबन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥१३॥कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा ।दारिद्र्यभावाद्विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥१४॥नदीतीरे च ये वृक्षाः परगेहेषु कामिनी ।मन्त्रिहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयः ॥१५॥बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा ।बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥१६॥निर्धनं पुरुषं वेश्या प्रजा भग्नं नृपं त्यजेत्।खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागतो गृहम् ॥१७॥गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥१८॥दुराचारी दुरादृष्टिर्दुरावासी च दुर्जनः ।यन्मैत्री क्रियते पुम्भिर्नरः शीघ्रं विनश्यति ॥१९॥समाने शोभते प्रीतिः राज्ञि सेवा च शोभते ।वाणिज्यं व्यवहारेषु दिव्या स्त्री शोभते गृहे ॥२०॥इति चाणक्यनीतिदर्पणे द्वितीयोऽध्यायः N/A References : N/A Last Updated : November 17, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP