संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| त्रयोदशोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - त्रयोदशोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती त्रयोदशोऽध्यायः Translation - भाषांतर मुहूर्तमपि जीवेच्च नरः शुक्लेन कर्मणा ।न कल्पमपि कष्टेन लोकद्वयविरोधिना ॥१॥गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत।वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥२॥स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिता ।ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पण्डिताः ॥३॥अहो बत विचित्राणि चरितानि महात्मनाम् ।लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥४॥यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् ।स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत्सुखम् ॥५॥अनागतविधाता च प्रत्युत्पन्नमतिस्तथा ।द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥६॥अनागतविधाता च प्रत्युत्पन्नमतिस्तथा ।द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥७॥राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः ।राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥८॥जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् ।मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः ॥९॥धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥१०॥दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना ।अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥११॥बन्धाय विषयासङ्गो मुक्त्यै निर्विषयं मनः ।मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥१२॥देहाभिमाने गलितं ज्ञानेन परमात्मनि ।यत्र यत्र मनो याति तत्र तत्र समाधयः ॥१३॥ईप्सितं मनसः सर्वं कस्य संपद्यते सुखम् ।दैवायत्तं यतः सर्वं तस्मात्संतोषमाश्रयेत ॥१४॥यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् ।तथा यच्च कृतं कर्म कर्तारमनुगच्छति ॥१५॥अनवस्थितकार्यस्य न जने न वने सुखम् ।जनो दहति संसर्गाद्वनं सङ्गविवर्जनात ॥१६॥खनित्वा हि खनित्रेण भूतले वारि विन्दति ।तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥१७॥कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।तथापि सुधियश्चार्या सुविचार्यैव कुर्वते ॥१८॥सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥१९॥एकाक्षरप्रदातारं यो गुरुं नाभिवन्दते ।श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥२०॥युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः ।साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ॥२१॥इति चाणक्यनीतिदर्पणे त्रयोदशोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP