संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| पञ्चमोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - पञ्चमोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती पञ्चमोऽध्यायः Translation - भाषांतर गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥१॥यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा ॥२॥तावद्भयेषु भेतव्यं यावद्भयमनागतम् ।आगतं तु भयं वीक्ष्य प्रहर्तव्यमशङ्कया ॥३॥एकोदरसमुद्भूता एकनक्षत्रजातकाः ।न भवन्ति समाः शीले यथा बदरकण्टकाः ॥४॥निःस्पृहो नाधिकारी स्यान्नाकामो मण्डनप्रियः ।नाविदग्धः प्रियं ब्रूयात्स्पष्टवक्ता न वञ्चकः ॥५॥मूर्खाणां पण्डिता द्वेष्या अधनानां महाधनाः ।पराङ्गना कुलस्त्रीणां सुभगानां च दुर्भगाः ॥६॥आलस्योपगता विद्या परहस्तगतं धनम् ।अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥७॥अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥८॥वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥९॥अन्यथा वेदशास्त्राणि ज्ञानपाण्डित्यमन्यथा ।अन्यथा तत्पदं शान्तं लोकाः क्लिश्यन्ति चान्यथा ॥१०॥दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ।अज्ञाननाशिनी प्रज्ञा भावना भयनाशिनी ॥११॥नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।नास्ति कोपसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥१२॥जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम् ।नरकेषु पतत्येक एको याति परां गतिम् ॥१३॥तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् ।जिताशस्य तृणं नारी निःस्पृहस्य तृणं जगत ॥१४॥विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥१५॥वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥१६॥नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् ।नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् ॥१७॥अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः ।मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥१८॥सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥१९॥चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे ।चलाचले च संसारे धर्म एको हि निश्चलः ॥२०॥नराणां नापितो धूर्तः पक्षिणां चैव वायसः ।चतुष्पदां शृगालस्तु स्त्रीणां धूर्ता च मालिनी ॥२१॥जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥२२॥राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च ।पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥२३॥ इति चाणक्यनीतिदर्पणे पञ्चमोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP