संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| तृतीयोध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - तृतीयोध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती तृतीयोध्यायः Translation - भाषांतर कस्य दोषः कुले नास्ति व्याधिना को न पीडितः ।व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥१॥आचारः कुलमाख्याति देशमाख्याति भाषणम् ।संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥२॥सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत्।व्यसने योजयेच्छत्रुं मित्रं धर्मे नियोजयेत् ॥३॥दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः ।सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥४॥एतदर्थे कुलीनानां नृपाः कुर्वन्ति संग्रहम् ।आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥५॥प्रलये भिन्नमर्यादा भवन्ति किल सागराः ।सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः ॥६॥मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः ।भिद्यते वाक्यशल्येन अदृशं कण्टकं यथा ॥७॥रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा (इव किंशुकाः) ॥८॥कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् ।विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥९॥त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥१०॥उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् ।मौनेन कलहो नास्ति नास्ति जागरिते भयम् ॥११॥अतिरूपेण च सीता अतिगर्वेण रावणः ।अतिदानाद्बलिर्बद्धो अति सर्वत्र वर्जयेत् ॥१२॥को हि भारः समर्थानां किं दूरं व्यवसायिनाम् ।को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥१३॥एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥१४॥एकेन शुष्कवृक्षेण दह्यमानेन वह्निना ।दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥१५॥एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥१६॥किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः ।वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥१७॥लालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत।प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत ॥१८॥उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे ।असाधुजनसंपर्के यः पलायेत्स जीवति ॥१९॥धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।जन्मजन्म नि मर्त्येषु मरणं तस्य केवलम् ॥२०॥मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् ।दाम्पत्ये कलहो नास्ति तत्र श्रीः स्वयमागता ॥२१॥इति चाणक्यनीतिदर्पणे तृतीयोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP