संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| प्रथमोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - प्रथमोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती प्रथमोऽध्यायः Translation - भाषांतर प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् ।नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ॥१॥अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः ।धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥२॥तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया ।येन विज्ञातमात्रेण सर्वज्ञत्वं प्रपद्यते ॥३॥मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च ।दुःखितैः संप्रयोगेण पण्डितोऽप्यवसीदति ॥४॥दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥५॥आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥६॥आपदर्थे धनं रक्षेच्छ्रीमतां कुत आपदः ।कदाचिच्चलते लक्ष्मीः संचितोऽपि विनश्यति ॥७॥यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवाः ।न च विद्यागमोऽप्यस्ति वासं तत्र न कारयेत् ॥८॥धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥९॥लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥१०॥जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे ।मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥११॥आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे ।राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥१२॥यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते ।ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥१३॥वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् ।रूपशीलां न नीचस्य विवाहः सदृशे कुले ॥१४॥नदीनां शस्त्रपाणीनां नखीनां शृङ्गिणां तथा ।विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥१५॥विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् ।अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥१६॥स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा ।साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृतः ॥१७॥इति चाणक्यनीतिदर्पणे प्रथमोऽध्यायः N/A References : N/A Last Updated : November 17, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP