संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती सप्तदशोऽध्यायः Translation - भाषांतर पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ।सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ॥१॥कृते प्रतिकृतिं कुर्याद्धिंसने प्रतिहिंसनम् ।तत्र दोषो न पतति दुष्टे दुष्टं समाचरेत॥२॥यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितम् ।तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥३॥लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैःसत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैःसद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥४॥पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी ।शङ्खो भिक्षाटनं कुर्यान्न दत्तमुपतिष्ठते ॥५॥अशक्तस्तु भवेत्साधुर्ब्रह्मचारी वा निर्धनः ।व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥६॥नान्नोदकसमं दानं न तिथिर्द्वादशी समा ।न गायत्र्याः परो मन्त्रो न मातुर्दैवतं परम् ॥७॥तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके ।वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् ॥८॥पत्युराज्ञां विना नारी ह्युपोष्य व्रतचारिणी ।आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥९॥न दानैः शुध्यते नारी नोपवासशतैरपि ।न तीर्थसेवया तद्वद्भर्तुः पादोदकैर्यथा ॥१०॥पादशेषं पीतशेषं सन्ध्याशेषं तथैव च ।श्वानमूत्रसमं तोयं पीत्वा चान्द्रायणं चरेत् ॥११॥दानेन पाणिर्न तु कङ्कणेन स्नानेन शुद्धिर्न तु चन्दनेन ।मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मण्डनेन ॥१२॥नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् ।आत्मरूपं जले पश्यन्शक्रस्यापि श्रियं हरेत् ॥१३॥सद्यः प्रज्ञाहरा तुण्डी सद्यः प्रज्ञाकरी वचा ।सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ॥१४॥परोपकरणं येषां जागर्ति हृदये सताम् ।नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥१५॥यदि रामा यदि च रमा यदि तनयो विनयगुणोपेतः ।तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥१६॥आहारनिद्राभयमैथुनानि सामान्यमेतत्पशूनां नराणाम् ।ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥१७॥दानार्थिनो मधुकरा यदि कर्णतालैर्दूरीकृताः करिवरेण मदान्धबुद्ध्या ।तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने वसन्ति ॥१८॥राजा वेश्या यमश्चाग्निस्तस्करो बालयाचकौ ।परदुःखं न जानन्ति अष्टमो ग्रामकण्टकः ॥१९॥अधः पश्यसि किं बाले पतितं तव किं भुवि ।रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥२०॥व्यालाश्रयापि विकलापि सकण्टकापि वक्रापि पङ्किलभवापि दुरासदापि ।गन्धेन बन्धुरसि केतकि सर्वजन्ता रेको गुणः खलु निहन्ति समस्तदोषान ॥२१॥यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥२२॥इति चाणक्यनीतिदर्पणे सप्तदशोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP