संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| दशमोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - दशमोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती दशमोऽध्यायः Translation - भाषांतर धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥१॥दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।शास्त्रपूतं वदेद्वाक्यः मनःपूतं समाचरेत ॥२॥सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् ।सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥३॥कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥४॥रङ्कं करोति राजानं राजानं रङ्कमेव च ।धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥५॥लुब्धानां याचकः शत्रुर्मूर्खानां बोधको रिपुः ।जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमा रिपुः ॥६॥येषां न विद्या न तपो न दानंज्ञानं न शीलं न गुणो न धर्मः ।ते मर्त्यलोके भुवि भारभूतामनुष्यरूपेण मृगाश्चरन्ति ॥७॥अन्तःसारविहीनानामुपदेशो न जायते ।मलयाचलसंसर्गान्न वेणुश्चन्दनायते ॥८॥यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥९॥दुर्जनं सज्जनं कर्तुमुपायो नहि भूतले ।अपानं शतधा धौतं न श्रेष्ठमिन्द्रियं भवेत ॥१०॥आप्तद्वेषाद्भवेन्मृत्युः परद्वेषाद्धनक्षयः ।राजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः ॥११॥वरं वनं व्याघ्रगजेन्द्रसेवितंद्रुमालयं पत्रफलाम्बुसेवनम् ।तृणेषु शय्या शतजीर्णवल्कलंन बन्धुमध्ये धनहीनजीवनम् ॥१२॥विप्रो वृक्षस्तस्य मूलं च सन्ध्यावेदः शाखा धर्मकर्माणि पत्रम् ।तस्मान्मूलं यत्नतो रक्षणीयंछिन्ने मूले नैव शाखा न पत्रम् ॥१३॥माता च कमला देवी पिता देवो जनार्दनः ।बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥१४॥एकवृक्षसमारूढा नानावर्णा विहंगमाः ।प्रातर्दश दिशो यान्ति का तत्र परिदेवना ॥१५॥बुद्धिर्यस्य बलं तस्य निर्बुद्धेश्च कुतो बलम् ।वने सिंहो यदोन्मत्तः शशकेन निपातितः ॥१६॥का चिन्ता मम जीवने यदि हरिर्विश्वंभरो गीयतेनो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे ।इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलंत्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥१७॥गीर्वाणवाणीषु विशिष्टबुद्धिस्तथापि भाषान्तरलोलुपोऽहम् ।यथा सुधायाममरेषु सत्यांस्वर्गाङ्गनानामधरासवे रुचिः ॥१८॥अन्नाद्दशगुणं पिष्टं पिष्टाद्दशगुणं पयः ।पयसोऽष्टगुणं मांसं मांसाद्दशगुणं घृतम् ॥१९॥शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः ।घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥२०॥इति चाणक्यनीतिदर्पणे दशमोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP