संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| षष्ठोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - षष्ठोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती षष्ठोऽध्यायः Translation - भाषांतर श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् ।श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात ॥१॥पक्षिणः काकश्चण्डालः पशूनां चैव कुक्कुरः ।मुनीनां पापश्चण्डालः सर्वचाण्डालनिन्दकः ॥२॥भस्मना शुद्ध्यते कास्यं ताम्रमम्लेन शुद्ध्यति ।रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ॥३॥भ्रमन्सम्पूज्यते राजा भ्रमन्सम्पूज्यते द्विजः ।भ्रमन्सम्पूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥४॥यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः ॥५॥तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः ।सहायास्तादृशा एव यादृशी भवितव्यता ॥६॥कालः पचति भूतानि कालः संहरते प्रजाः ।कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥७॥न पश्यति च जन्मान्धः कामान्धो नैव पश्यति ।मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति ॥८॥स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते ।स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥९॥राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः ।भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥१०॥ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥११॥लुब्धमर्थेन गृह्णीयात्स्तब्धमञ्जलिकर्मणा ।मूर्खं छन्दोऽनुवृत्त्या च यथार्थत्वेन पण्डितम् ॥१२॥वरं न राज्यं न कुराजराज्यं वरं न मित्रं न कुमित्रमित्रम् ।वरं न शिष्यो न कुशिष्यशिष्यो वरं न दारा न कुदारदारः ॥१३॥कुराजराज्येन कुतः प्रजासुखं कुमित्रमित्रेण कुतोऽभिनिर्वृतिः ।कुदारदारैश्च कुतो गृहे रतिः कुशिष्यशिष्यमध्यापयतः कुतो यशः ॥१४॥सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात।वायसात्पञ्च शिक्षेच्च षट्शुनस्त्रीणि गर्दभात ॥१५॥प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति ।सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते ॥१६॥इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः ।समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥१७॥प्रत्युत्थानं च युद्धं च संविभागं च बन्धुषु ।स्वयमाक्रम्य भुक्तं च शिक्षेच्चत्वारि कुक्कुटात ॥१८॥गूढमैथुनचारित्वं काले काले च संग्रहम् ।अप्रमत्तमविश्वासं पञ्च शिक्षेच्च वायसात ॥१९॥बह्वाशी स्वल्पसन्तुष्टः सनिद्रो लघुचेतनः ।स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥२०॥सुश्रान्तोऽपि वहेद्भारं शीतोष्णं न च पश्यति ।सन्तुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात ॥२१॥य एतान्विंशतिगुणानाचरिष्यति मानवः ।कार्यावस्थासु सर्वासु अजेयः स भविष्यति ॥२२॥इति चाणक्यनीतिदर्पणे षष्ठोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP