संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| नवमोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - नवमोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती नवमोऽध्यायः Translation - भाषांतर मुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज ।क्षमार्जवदयाशौचं सत्यं पीयूषवत्पिब ॥१॥परस्परस्य मर्माणि ये भाषन्ते नराधमाः ।त एव विलयं यान्ति वल्मीकोदरसर्पवत ॥२॥गन्धः सुवर्णे फलमिक्षुदण्डेनाकारि पुष्पं खलु चन्दनस्य ।विद्वान्धनाढ्यश्च नृपश्चिरायुःधातुः पुरा कोऽपि न बुद्धिदोऽभूत ॥३॥सर्वौषधीनाममृता प्रधानासर्वेषु सौख्येष्वशनं प्रधानम् ।सर्वेन्द्रियाणां नयनं प्रधानंसर्वेषु गात्रेषु शिरः प्रधानम् ॥४॥दूतो न संचरति खे न चलेच्च वार्तापूर्वं न जल्पितमिदं न च सङ्गमोऽस्ति ।व्योम्नि स्थितं रविशशिग्रहणं प्रशस्तंजानाति यो द्विजवरः स कथं न विद्वान ॥५॥विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः ।भाण्डारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत ॥६॥अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा ।परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत ॥७॥अर्धाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजनाः ।ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥८॥यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागमः ।निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥९॥निर्विषेणापि सर्पेण कर्तव्या महती फणा ।विषमस्तु न चाप्यस्तु घटाटोपो भयङ्करः ॥१०॥प्रातर्द्यूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः ।रात्रौ चौरप्रसङ्गेन कालो गच्छन्ति धीमताम् ॥११॥स्वहस्तग्रथिता माला स्वहस्तघृष्टचन्दनम् ।स्वहस्तलिखितं स्तोत्रं शक्रस्यापि श्रियं हरेत ॥१२॥इक्षुदण्दास्तिलाः शूद्राः कान्ता हेम च मेदिनी ।चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम् ॥१३॥दरिद्रता धीरतया विराजतेकुवस्त्रता शुभ्रतया विराजते ।कदन्नता चोष्णतया विराजतेकुरूपता शीलतया विराजते ॥१४॥इति चाणक्यनीतिदर्पणे नवमोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP