संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्यनीतिदर्पणः| चतुर्दशोऽध्यायः चाणक्यनीतिदर्पणः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः चाणक्यनीतिदर्पणः - चतुर्दशोऽध्यायः चाणक्यनीतिदर्पणः Tags : chanakyakautilyanitiकौटिल्यचाणक्यनिती चतुर्दशोऽध्यायः Translation - भाषांतर पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥१॥आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ।दारिद्र्ययदुःखरोगाणि बन्धनव्यसनानि च ॥२॥पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥३॥बहूनां चैव सत्त्वानां समवायो रिपुञ्जयः ।वर्षाधाराधरो मेघस्तृणैरपि निवार्यते ॥४॥जले तैलं खले गुह्यं पात्रे दानं मनागपि ।प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥५॥धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत।सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥६॥उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी ।तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥७॥दाने तपसि शौर्ये वा विज्ञाने विनये नये ।विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा ॥८॥दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः ।यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥९॥यस्माच्च प्रियमिच्छेत्तु तस्य ब्रूयात्सदा प्रियम् ।व्याधो मृगवधं कर्तुं गीतं गायति सुस्वरम् ॥१०॥अत्यासन्ना विनाशाय दूरस्था न फलप्रदा ।तस्मादाहृत्य दातव्या भूमिः पार्थिवसत्तम ॥११॥अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥१२॥स जीवति गुणा यस्य यस्य धर्मः स जीवति ।गुणधर्मविहीनस्य जीवितं निष्प्रयोजनम् ॥१३॥यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा ।पुरा पञ्चदशास्य्भ्यो गां चरन्ती निवारय ॥१४॥प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् ।आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥१५॥एक एव पदार्थस्तु त्रिधा भवति वीक्षितः ।कुणपं कमिनी मांसं योगिभिः कामिभिः श्वभिः ॥१६॥सुसिद्धमौषधं धर्मं गृहच्छिद्रं च मैथुनम् ।कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत् ॥१७॥तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः ।यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥१८॥धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् ।सुगृहीतं च कर्तव्यमन्यथा तु न जीवति ॥१९॥त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः ॥२०॥इति चाणक्यनीतिदर्पणे चतुर्दशोऽध्यायः N/A References : N/A Last Updated : November 18, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP