संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः १ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः १ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १ Translation - भाषांतर वाल्मीकिरुवाच ।इति नादेन महता वचस्युक्ते सभागतैः ।राममग्रगतं प्रीत्या विश्वामित्रोऽभ्यभाषत ॥१॥न राघव तवास्त्यन्यज्ज्ञेयं ज्ञानवतां वर ।स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवानसि ॥२॥केवलं मार्जनामात्रं मनागेवोपयुज्यते ।स्वभावविमले नित्यं स्वबुद्धिमुकुरे तव ॥३॥भगवद्व्यासपुत्रस्य शुकस्येव मतिस्तव ।विश्रान्तिमात्रमेवान्तर्ज्ञातज्ञेयाप्यपेक्षते ॥४॥श्रीराम उवाच ।भगवद्व्यासपुत्रस्य शुकस्य भगवन्कथम् ।ज्ञेयेऽप्यादौ न विश्रान्तं विश्रान्तं च धिया पुनः ॥५॥विश्वामित्र उवाच ।आत्मोदन्तसमं राम कथ्यमानमिदं मया ।श्रृणु व्यासात्मजोदन्तं जन्मनामन्तकारणम् ॥६॥योऽयमञ्जनशैलाभो निविष्टो हेमविष्टरे ।पार्श्वे तव पितुर्व्यासो भगवान्भास्करद्युतिः ॥७॥अस्याभूदिन्दुवदनस्तनयो नयकोविदः ।शुको नाम महाप्राज्ञो यज्ञो मूर्त्येव सुस्थितः ॥८॥प्रविचारयतो लोकयात्रामलमिमां हृदि ।तवेव किल तस्यापि विवेक उद्भूदयम् ॥९॥तेनासौ स्वविवेकेन स्वयमेव महामनाः ।प्रविचार्य चिरं चारु यत्सत्यं तदवाप्तवान् ॥१०॥स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः ।इदं वस्त्विति विश्वासं नासावात्मन्युपाययौ ॥११॥केवलं विररामास्य चेतो विगतचापलम् ।भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः ॥१२॥एकदा सोऽमलप्रज्ञो मेरावेकान्तसुस्थितम् ।पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम् ॥१३॥संसाराडम्बरमिदं कथमभ्युत्थितं मुने ।कथं च प्रशमं याति कियत्कस्य कदेति वा ॥१४॥इति पृष्टेन मुनिना व्यासेनाखिलमात्मजे ।यथावदमलं प्रोक्तं वक्तव्यं विदितात्मना ॥१५॥आऽज्ञासिषं पूर्वमेतदहमित्यथ तत्पितुः ।स शुकः शुभया बुद्ध्या न वाक्यं बह्वमन्यत ॥१६॥व्यासोऽपि भगवान्बुद्धवा पुत्राभिप्रायमीदृशम् ।प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः ॥१७॥जनको नाम भूपालो विद्यते वसुधातले ।यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि ॥१८॥पित्रेत्युक्ते शुकः प्रायात्सुमेरोर्वसुधातले ।विदेहनगरीं प्राप जनकेनाभिपालिताम् ॥१९॥आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने ।द्वारि व्याससुतो राजञ्शुकोऽत्र स्थितवानिति ॥२०॥जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया ।उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ ॥२१॥ततः प्रवेशयामास जनकः शुकमङ्गणम् ।तत्राहानि स सप्तैव तथैवावसदुन्मनाः ॥२२॥अथ प्रवेशयामास जनकोऽन्तःपुरं शुकम् ।राजा न दृश्यते तावदिति सप्त दिनानि च ॥२३॥तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः ।जनको लालयामास शुकं शशिसमाननम् ॥२४॥ते भोगास्तानि दुःखानि व्यासपुत्रस्य तन्मनः ।नाजह्नुर्मन्दपवना बद्धपीठमिवाचलम् ॥२५॥केवलं सुसमः स्वस्थो मौनी मुदितमानसः ।अतिष्ठत्स शुकस्तत्र संपूर्ण इव चन्द्रमाः ॥२६॥परिज्ञातस्वभावं तं शुकं स जनको नृपः ।आनीतं मुदितात्मानमवलोक्य ननाम ह ॥२७॥निःशेषितजगत्कार्यं प्राप्ताखिलमनोरथ ।किमीप्सितं तवेत्याशु कृतस्वागतमाह तम् ॥२८॥श्रीशुक उवाच ।संसाराडम्बरमिदं कथमभ्युत्थितं गुरो ।कथं प्रशममायाति यथावत्कथयाशु मे ॥२९॥विश्वामित्र उवाच ।जनकेनेति पृष्टेन शुकस्य कथितं तदा ।तदेव यत्पुरा प्रोक्तं तस्य पित्रा महात्मना ॥३०॥श्रीशुक उवाच ।स्वयमेव मया पूर्वमेतज्ज्ञातं विवेकतः ।एतदेव च पृष्टेन पित्रा मे समुदाहृतम् ॥३१॥भवताप्येष एवार्थः कथितो वाग्विदां वर ।एष एव च वाक्यार्थः शास्त्रेषु परिदृश्यते ॥३२॥यथायं स्वविकल्पोत्थः स्वविकल्पपरिक्षयात् ।क्षीयते दग्धसंसारो निःसार इति निश्चयः ॥३३॥तत्किमेतन्महाबाहो सत्यं ब्रूहि ममाचलम् ।त्वत्तो विश्रान्तिमाप्नोमि चेतसा भ्रमता जगत् ॥३४॥जनक उवाच ।नातः परतरः कश्चिन्निश्चयोऽस्त्यपरो मुने ।स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् ॥३५॥अविच्छिन्नचिदात्मैकः पुमानस्तीह नेतरत् ।स्वसंकल्पवशाद्बद्धो निःसंकल्पश्च मुच्यते ॥३६॥तेन त्वया स्फुटं ज्ञातं ज्ञेयं यस्य महात्मनः ।भोगेभ्यो विरतिर्जाता दृश्यात्प्राक्सकलादिह ॥३७॥तव बाल महावीर मतिर्विरतिमागता ।भोगेभ्यो दीर्घरोगेभ्यःकिमन्यच्छ्रोतुमिच्छसि ॥३८॥न तथा पूर्णता जाता सर्वज्ञानमहानिधेः ।तिष्ठतस्तपसि स्फारे पितुस्तव यथा तव ॥३९॥व्यासादधिक एवाहं व्यासशिष्योऽसि तत्सुतः ।भोगेच्छातानवेनेह मत्तोऽप्यत्यधिको भवान् ॥४०॥प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा ।न दृश्ये पतसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज ॥४१॥अनुशिष्टः स इत्येवं जनकेन महात्मना ।अतिष्ठत्स शुकस्तूष्णीं स्वच्छे परमवस्तुनि ॥४२॥वीतशोकभयायासो निरीहश्छिन्नसंशयः ।जगाम शिखरं मेरोः समाध्यर्थमनिन्दितम् ॥४३॥तत्र वर्षसहस्राणि निर्विकल्पसमाधिना ।दश स्थित्वा शशामासावात्मन्यस्नेहदीपवत् ॥४४॥व्यपगतकलनाकलङ्कशुद्धःस्वयममलात्मनि पावने पदेऽसौ ।सलिलकण इवाम्बुधौ महात्माविगलितवासनमेकतां जगाम ॥४५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे शुकनिर्याणं नाम प्रथमः सर्गः ॥१॥ N/A References : N/A Last Updated : July 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP