संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः १८ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः १८ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अस्यां वा चित्तमात्रायां प्रबोधः संप्रवर्तते ।बीजादिव सतो व्युप्तादवश्यंभावि सत्फलम् ॥१॥अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम् ।अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना ॥२॥युक्तियुक्तमुपादेयं वचनं बालकादपि ।अन्यत्तृणमिव त्याज्यमप्युक्तं पद्मजन्मना ॥३॥योऽस्मत्तातस्य कूपोऽयमिति कौपं पिबत्यपः ।त्यक्त्वा गाङ्गं पुरस्थं तं को नाशास्त्यतिरागिणम् ॥४॥यथोषसि प्रवृत्तायामालोकोऽवश्यमेष्यति ।अस्यां वा चित्तमात्रायां सुविवेकस्तथैष्यति ॥५॥श्रुतायां प्राज्ञवदनाद्बुद्ध्वान्तं स्वयमेव च ।शनैःशनैर्विचारेण बुद्धौ संस्कार आगते ॥६॥पूर्वं तावदुदेत्यन्तर्भृशं संस्कृतवाक्यता ।शुद्धयुक्ता लतेवोच्चैर्या सभास्थानभूषणम् ॥७॥परा नागरतोदेति महत्त्वगुणशालिनी ।सा यया स्नेहमायान्ति राजानो अमरा अपि ॥८॥पूर्वापरज्ञः सर्वत्र नरो भवति बुद्धिमान् ।पदार्थानां यथा दीपहस्तो निशि सुलोचनः ॥९॥लोभमोहादयो दोषास्तानवं यान्त्यलं शनैः ।धियो दिशः समासन्नशरदो मिहिका यथा ॥१०॥केवलं समवेक्ष्यन्ते विवेकाध्यासनं धियः ।न किंचन फलं धत्ते स्वाभ्यासेन विना क्रिया ॥११॥मनः प्रसादमायाति शरदीव महत्सरः ।परं साम्यमुपादत्ते निर्मन्दर इवार्णवः ॥१२॥निरस्तकालिमारत्नशिखेवास्ततमःपटा ।प्रति ज्वलत्यलं प्रज्ञा पदार्थप्रविभागिनी ॥१३॥दैन्यदारिद्र्यदोषाढ्या दृष्टयो दर्शितान्तराः ।न निकृन्तन्ति मर्माणि ससंनाहमिवेषवः ॥१४॥हृदयं नावलुम्पन्ति भीमाः संसृतिभीतयः ।पुरःस्थितमपि प्राज्ञं महोपलमिवेषवः ॥१५॥कथं स्यादादिता जन्मकर्मणां दैवपुंस्त्वयोः ।इत्यादिसंशयगणः शाम्यत्यह्नि यथा तमः ॥१६॥सर्वदा सर्वभावेषु संशान्तिरुपजायते ।यामिन्यामिव शान्तायां प्रजालोक उपागते ॥१७॥समुद्रस्येव गाम्भीर्यं धैर्यं मेरोरिव स्थितम् ।अन्तः शीतलता चेन्दोरिवोदेति विचारिणः ॥१८॥सा जीवन्मुक्तता तस्य शनैः परिणतिं गता ।शान्ताशेषविशेषस्य भवत्यविषयो गिराम् ॥१९॥सर्वार्थशीतला शुद्धा परमालोकदास्यधीः ।परं प्रकाशमायाति ज्योत्स्नेव शरदैन्दवी ॥२०॥हृद्याकाशे विवेकार्के शमालोकिनि निर्मले ।अनर्थसार्थकर्तारो नोद्यन्ति किल केतवः ॥२१॥शाम्यन्ति शुद्धिमायान्ति सौम्यास्तिष्ठन्ति सून्नते ।अचञ्चले जलेऽतृष्णाः शरदीवाभ्रमालिकाः ॥२२॥यत्किंचनकरी क्रूरा ग्राम्यता विनिवर्तते ।दीनानना पिशाचानां लीलेव दिवसागमे ॥२३॥धर्मभित्तौ भृशं लग्नां धियं धैर्यधुरं गताम् ।आधयो न विधुन्वन्ति वाताश्चित्रलतामिव ॥२४॥न पतत्यवटे ज्ञस्तु विषयासङ्गरूपिणि ।कः किल ज्ञातसरणिः श्वभ्रं समनुधावति ॥२५॥सच्छास्त्रसाधुवृत्तानामविरोधिनि कर्मणि ।रमते धीर्यथाप्राप्ते साध्वीवान्तःपुराजिरे ॥२६॥जगतां कोटिलक्षेषु यावन्तः परमाणवः ।तेषामेकैकशोऽन्तःस्थान्सर्गान्पश्यत्यसङ्गधीः ॥२७॥मोक्षोपायावबोधेन शुद्धान्तःकरणं जनम् ।न खेदयति भोगौघो न चानन्दयति क्वचित् ॥२८॥परमाणौ परमाणौ सर्ववर्गा निरर्गलाः ।ये पतन्त्युत्पतन्त्यम्बुवीचिवत्तान्स पश्यति ॥२९॥न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ।कार्याण्येष प्रबुद्धोऽपि निष्प्रबुद्ध इव द्रुमः ॥३०॥दृश्यते लोकसामान्यो यथाप्राप्तानुवृत्तिमान् ।इष्टानिष्टफलप्राप्तौ हृदयेनापराजितः ॥३१॥बुद्ध्वेदमखिलं शास्त्रं वाचयित्वा विविच्यताम् ।अनुभूयत एवैतन्न तूक्तं वरशापवत् ॥३२॥शास्त्रं सुबोधमेवेदं सालंकारविभूषितम्।काव्यं रसमयं चारु दृष्टान्तैः प्रतिपादितम् ॥३३॥बुध्यते स्वयमेवेदं किंचित्पदपदार्थवित् ।स्वयं यस्तु न वेत्तीदं श्रोतव्यं तेन पण्डितात् ॥३४॥यस्मिन्श्रुते मते ज्ञाते तपोध्यानजपादिकम् ।मोक्षप्राप्तौ नरस्येह न किंचिदुपयुज्यते ॥३५॥एतच्छास्त्रघनाभ्यासात्पौनःपुन्येन वीक्षणात् ।पाण्डित्यं स्यादपूर्वं हि चित्तसंस्कारपूर्वकम् ॥३६॥अहं जगदिति प्रौढो द्रष्टृदृश्यपिशाचकः ।पिशाचोऽर्कोदयेनेव स्वयं शाम्यत्ययत्नतः ॥३७॥भ्रमो जगदहं चेति स्थित एवोपशाम्यति ।स्वप्नमोहः परिज्ञात इव नो भ्रमयत्यलम् ॥३८॥यथा संकल्पनगरे पुंसो हर्षविषादिता ।न बाधते तथैवास्मिन्परिज्ञाते जगद्भ्रमे ॥३९॥चित्रसर्पः परिज्ञातो न सर्पभयदो यथा ।दृश्यसर्पः परिज्ञातस्तथा न सुखदुःखदः ॥४०॥परिज्ञानेन सर्पत्वं चित्रसर्पस्य नश्यति ।यथा तथैव संसारः स्थित एवोपशाम्यति ॥४१॥सुमनःपल्लवामर्दे किंचिद्व्यतिकरो भवेत् ।परमार्थपदप्राप्तौ नतु व्यतिकरोऽल्पकः ॥४२॥गच्छत्यवयवः स्पन्दं सुमनःपत्रमर्दने ।इह धीमात्ररोधस्तु नाङ्गावयवचालनम् ॥४३॥सुखासनोपविष्टेन यथासंभवमश्नता ।भोगजालं सदाचारविरुद्धेषु न तिष्ठता ॥४४॥यथाक्षणं यथादेशं प्रविचारयता सुखम् ।यथासंभवसत्सङ्गमिदं शास्त्रमथेतरत् ॥४५॥आसाद्यते महाज्ञानबोधः संसारशान्तिदः ।न भूयो जायते येन योनियन्त्रप्रपीडनम् ॥४५॥एतावत्यपि येऽभीताः पापा भोगरसे स्थिताः ।स्वमातृविष्ठाकृमयः कीर्तनीया न तेऽधमाः ॥४७॥श्रृणु तावदिदानीं त्वं कथ्यमानमिदं मया ।राघव ज्ञानविस्तारं बुद्धिसारतरान्तरम् ॥४८॥यथेदं श्रूयते चास्त्रं तामापातनिकां श्रृणु ।विचार्यते यथार्थोऽयं यथा च परिभाषया ॥४९॥येनेहाननुभूतेऽर्थे दृष्टेनार्थेन बोधनम् ।बोधोपकारफलदं तं दृष्टान्तं विदुर्बुधाः ॥५०॥दृष्टान्तेन विना राम नापूर्वार्थोऽवबुध्यते ।यथा दीपं विना रात्रौ भाण्डोपस्करणं गृहे ॥५१॥यैर्यैः काकुत्स्थ दृष्टान्तैस्त्वं मयेहावबोध्यसे ।सर्वे सकारणास्ते हि प्राप्यन्तु सदकारणम् ॥५५॥उपमानोपमेयानां कार्यकारणतोदिता ।वर्जयित्वा परं ब्रह्म सर्वेषामेव विद्यते ॥५३॥ब्रह्मोपदेशे दृष्टान्तो यस्तवेह हि कथ्यते ।एकदेशसधर्मत्वं तत्रान्तः परिगृह्यते ॥५४॥यो यो नामेह दृष्टान्तो ब्रह्मतत्त्वावबोधने ।दीयते स स बोद्धव्यः स्वप्नजातो जगद्गतः ॥५५॥एवं सति निराकारे ब्रह्मण्याकारवान्कथम् ।दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः ॥५६॥अन्यासिद्धविरुद्धादिदृग्दृष्टान्तप्रदूषणैः ।स्वप्नोपमत्वाज्जगतः समुदेति न किंचन ॥५७॥अवस्तु पूर्वापरयोर्वर्तमाने विचारितम् ।यथा जाग्रत्तथा स्वप्नः सिद्धमाबालमागतम् ॥५८॥स्वप्नसंकल्पनाध्यानवरशापौषधादिभिः ।यथार्था इह दृष्टान्तास्तद्रूपत्वाज्जगत्स्थितेः ॥५९॥मोक्षोपायकृता ग्रन्थकारेणान्येऽपि ये कृताः ।ग्रन्थास्तेष्वियमेवैका व्यवस्था बोध्यबोधने ॥६०॥स्वप्नाभत्वं च जगतः श्रुते शास्त्रेऽवबोध्यते ।शीघ्रं न पार्यते वक्तुं वाक्किल क्रमवर्तिनी ॥६१॥स्वप्नसंकल्पनाध्याननगराद्युपमं जगत् ।यतस्त एव दृष्टान्तास्तस्मात्सन्तीह नेतरे ॥६२॥अकारणे कारणता यद्बोधायोपमीयते ।न तत्र सर्वसाधर्म्यं संभवत्युपमाश्रमैः ॥६३॥उपमेयस्योपमानादेकांशेन सधर्मता ।अङ्गीकार्यावबोधाय धीमता निर्विवादिना ॥६४॥अर्थावलोकने दीपादाभामात्रादृते किल ।न स्थानतैलवर्त्यादि किंचिदव्युपयुज्यते ॥६५॥एकदेशसमर्थत्वादुपमेयावबोधनम् ।उपमानं करोत्यङ्ग दीपोऽर्थप्रभया यथा ॥६६॥दृष्टान्तस्यांशमात्रेण बोध्यबोधोदये सति ।उपादेयतया ग्राह्यो महावाक्यार्थनिश्चयः ॥६७॥न कुतार्किकतामेत्य नाशनीया प्रबुद्धता ।अनुभूत्यपलापान्तैरपवित्रैर्विकल्पितैः ॥६८॥विचारणादनुभवकारिवैरिणोऽपिवाङ्मयं त्वनुगतमस्मदादिषु ।स्त्रियोक्तमप्यपपरमार्थवैदिकंवचो वचःप्रलपनमेव नागमः ॥६९॥अस्माकमस्ति मतिरङ्ग तयेति सर्व-शास्त्रैकवाक्यकरणं फलितं यतो यः ।प्रातीतिकार्थमपशास्त्रनिजाङ्गपुष्टा-त्संवेदनादितरदस्ति ततः प्रमाणम् ॥७०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे दृष्टान्तनिरूपणं नामाष्टादशः सर्गः ॥१८॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP