संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः २० मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः २० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः २० Translation - भाषांतर श्रीवसिष्ठ उवाच ।आर्यसंगमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद्बलात् ।ततो महापुरुषतां महापुरुषलक्षणैः ॥१॥यो यो येन गुणेनेह पुरुषः प्रविराजते ।शिष्यते तं तमेवाशु तस्माद्बुद्धिं विवर्धयेत् ॥२॥महापुरुषता ह्येषा शमादिगुणशालिनी ।सम्यग्ज्ञानं विना राम सिद्धिमेति न कांचन ॥३॥ज्ञानाच्छमादयो यान्ति वृद्धिं सत्पुरुषक्रमाः ।श्लाघनीयाः फलेनान्तर्वृष्टेरिव नवाङ्कुराः ॥४॥शमादिभ्यो गुणेभ्यश्च वर्धते ज्ञानमुत्तमम् ।अन्नात्मकेभ्यो यज्ञेभ्यः शालिवृष्टिरिवोत्तमा ॥५॥गुणाः शमादयो ज्ञानाच्छमादिभ्यस्तथा ज्ञता ।परस्परं विवर्धन्ते ते अब्जसरसी इव ॥६॥ज्ञानं सत्पुरुषाचाराज्ज्ञानात्सत्पुरुषक्रमः ।परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ ॥७॥शमप्रज्ञादिनिपुणपुरुषार्थक्रमेण च ।अभ्यसेत्पुरुषो धीमाञ्ज्ञानसत्पुरुषक्रमौ ॥८॥न यावत्सममभ्यस्तौ ज्ञानसत्पुरुषक्रमौ ।एकोऽपि नैतयोस्तात पुरुषस्येह सिध्यति ॥९॥यथा कलमरक्षिण्या गीत्या वितततालया ।खगोत्सादेन सहितं गीतानन्दः प्रसाध्यते ॥१०॥ज्ञानसत्पुरुषेहाभ्यामकर्त्रा कर्तृरूपिणा ।तथा पुंसा निरिच्छेन सममासाद्यते पदम् ॥११॥सदाचारक्रमः प्रोक्तो मयैवं रघुनन्दन ।तथोपदिश्यते सम्यगेवं ज्ञानक्रमोऽधुना ॥१२॥इदं यशस्यमायुष्यं पुरुषार्थफलप्रदम् ।तज्ज्ञादाप्ताच्च सच्छास्त्रं श्रोतव्यं किल धीमता ॥१३॥श्रुत्वा त्वं बुद्धिनैर्मल्याद्बलाद्यास्यसि तत्पदम् ।यथा कतकसंश्लेषात्प्रसादं कलुषं पयः ॥१४॥विदितवेद्यमिदं हि मनो मुने-र्विवशमेव हि याति परं पदम् ।यदवबुद्धमखण्डितमुत्तमंतदवबोधवशान्न जहाति हि ॥१५॥इत्यार्षे श्रीवासिष्ठमहारामायणे द्वात्रिंशत्साहस्रयां संहितायां वाल्मीकीये मोक्षोपाये मुमुक्षुव्यवहारप्रकरणेसदाचारनिरूपणं नाम विंशतितमः सर्गः ॥२०॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP