संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः १५ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः १५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।संतोषो हि परं श्रेयः संतोषः सुखमुच्यतेसंतुष्टः परमभ्येति विश्राममरिसूदन ॥१॥संतोषैश्वर्यसुखिनां चिरविश्रान्तचेतसाम् ।साम्राज्यमपि शान्तानां जरत्तृणलवायते ॥२॥संतोषशालिनी बुद्धी राम संसारवृत्तिषु ।विषमास्वप्यनुद्विग्ना न कदाचन हीयते ॥३॥संतोषामृतपानेन ये शान्तास्तृप्तिमागताः ।भोगश्रीरतुला तेषामेषा प्रतिविषायते ॥४॥न तथा सुखयन्त्येताः पीयूषरसवीचयः ।यथातिमधुरास्वादः संतोषो दोषनाशनः ॥५॥अप्राप्तवाञ्छामुत्सृज्य संप्राप्ते समतां गतः ।अदृष्टखेदाखेदो यः स संतुष्ट इहोच्यते ॥६॥आत्मनात्मनि संतोषं यावद्याति न मानसम् ।उद्भवन्त्यापदस्तावल्लता इव मनोबिलात् ॥७॥संतोषशीतलं चेतः शुद्धविज्ञानदृष्टिभिः ।भृशं विकासमायाति सूर्यांशुभिरिवाम्बुजम् ॥८॥आशावैवश्यविवशे चित्ते संतोषवर्जिते ।म्लाने वक्रमिवादर्शे न ज्ञानं प्रतिबिम्बति ॥९॥अज्ञानघनयामिन्या संकोचं न नराम्बुजम् ।यात्यसावुदितो यस्य नित्यं संतोषभास्करः ॥१०॥अकिंचनोऽप्यसौ जन्तुः साम्राज्यसुखमश्नुते ।आधिव्याधिविनिर्मुक्तं संतुष्टं यस्य मानसम् ॥११॥नाभिवाञ्छत्यसंप्राप्तं प्राप्तं भुंक्ते यथाक्रमम् ।यः सुसौम्यसमाचारः संतुष्ट इति कथ्यते ॥१२॥संतुष्टिपरतृप्तस्य महतः पूर्णचेतसः ।क्षीराब्धेरिव शुद्धस्य मुखे लक्ष्मीर्विराजते ॥१३॥पूर्णतामलमाश्रित्य स्वात्मन्येवात्मना स्वयम् ।पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत् ॥१४॥संतोषाऽमृतपूर्णस्य शान्तशीतलया धिया ।स्वयं स्थैर्यं मनो याति शीतांशोरिव शाश्वतम् ॥१५॥संतोषपुष्टमनसं भृत्या इव महर्द्धयः ।राजानमुपतिष्ठन्ति किंकरत्वमुपागताः ॥१६॥आत्मनैवात्मनि स्वस्थे संतुष्टे पुरुषे स्थिते ।प्रशाम्यन्त्याधयः सर्वे प्रावृषीवाशु पांशवः ॥१७॥नित्यं शीतलया राम कुलङ्कपरिभिन्नया ।पुरुषः शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत् ॥१८॥समतासुन्दरं वक्रं पुरुषस्यावलोकयन् ।तोषमेति यथा लोको न तथा धनसंचयैः ॥१९॥समतया मतया गुणशालिनांपुरुषराडिह यः समलंकृतः ।तममलं प्रणमन्ति नभश्चराअपि महामुनयो रघुनन्दन ॥२०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे संतोषनिरूपणं नाम पञ्चदशः सर्गः ॥१५॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP