संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः १० मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः १० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १० Translation - भाषांतर श्रीवसिष्ठ उवाच ।यथास्थितं ब्रह्मतत्त्वं सत्तानियतिरुच्यते ।सा विनेतुर्विनेतृत्वं सा विनेयविनेयता ॥१॥अतः पौरुषमाश्रित्य श्रेयसे नित्यबान्धवम् ।एकाग्रं कुरु तच्चित्तं शृणु चोक्तमिदं मम ॥२॥अवान्तरनिपातीनि स्वारूढानि मनोरथम् ।पौरुषेणेन्द्रियाण्याशु संयम्य समतां नय ॥३॥इहामुत्र च सिद्ध्यर्थं पुरुषार्थफलप्रदाम् ।मोक्षोपायमयीं वक्ष्ये संहितां सारनिर्मिताम् ॥४॥अपुनर्ग्रहणायान्तस्त्यक्त्वा संसारवासनाम् ।संपूर्णौ शमसंतोषावादायोदारया धिया ॥५॥सपूर्वापरवाक्यार्थविचारविषयाहतम् ।मनः समरसं कृत्वा सानुसंऽधानमात्मनि ॥६॥सुखदुःखक्षयकरं महानन्देककारणम् ।मोक्षोपायमिमं राम वक्ष्यमाणं मया शृणु ॥७॥इमां मोक्षकथां श्रुत्वा सह सर्वैर्विवेकिभिः ।परं यास्यसि निर्दुःखं नाशो यत्र न विद्यते ॥८॥इदमुक्तं पुराकल्पे ब्रह्मणा परमेष्ठिना ।सर्वदुःखक्षयकरं परमाश्वासनं श्रियः ॥९॥श्रीराम उवाच ।केनोक्तं कारणेनेदं ब्रह्मन्पूर्व स्वयंभुवा ।कथं च भवता प्राप्तमेतत्कथय मे प्रभो ॥१०॥श्रीवसिष्ठ उवाच ।अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः ।चिदाकाशोऽविनाशात्मा प्रदीपः सर्वजन्तुषु ॥११॥स्पन्दास्पन्दसमाकारात्ततो विष्णुरजायत ।स्यन्दमानरसापूरात्तरङ्गः सागरादिव ॥१२॥सुमेरुकर्णिकात्तस्य दिग्दलाद्धृदयाम्बुजात् ।तारकाकेसरवतः परमेष्ठी व्यजायत ॥१३॥वेदवेदार्थविद्देवमुनिमूण्डलमण्डितः ।सोऽसृजत्सकल सग विकल्पौघं यथा मनः ॥१४॥जम्बूद्वूपिस्य कोणेऽखिरवर्षे भारतनामनि ।ससज जनसर्गौधं ह्याधिव्याधिपरिप्लुतम् ॥१५॥भावाभावविषण्णाङ्गमुत्पातध्वसतत्परम् ।सर्गेऽस्मिन्भूतजातीना नानाव्यसनसकुलम् ॥१६॥जनस्यैतस्य दुःखं तद्दृष्ट्वा सकललोककृत् ।जगाम करुणामीशः पुत्रदुःखात्पिता यथा ॥१७॥क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् ।स्यादिति क्षणमेकाग्रं चिन्तयामास भूतये ॥१८॥इति संचिन्त्य भगवान्ससर्ज स्वयमीश्वरः ।तपो धर्म च दानं च सत्यं तीर्थानि चैव हि ॥१९॥एतत्सृष्ट्वा पुनदवाश्चन्तयामास भूतकृत् ।पुंसां नानेन सर्गस्य दुःखस्यान्त इति स्वयम् ॥२०॥निर्वाणं नाम परमं सुखं येन पुनर्जनः ।न जायते न म्रियते तज्ज्ञानादेव लभ्यते ॥२१॥संसारोत्तरणे जन्तोरुपायो ज्ञानमेव हि ।तपो दानं तथा तीर्थमनुपायाः प्रकीर्तिताः ॥२२॥तत्तावदुःखमोक्षार्थ जनस्यास्य हतात्मनः ।प्रत्यग्रं तरणोपायमाशु प्रकटयाम्यहम् ॥२३॥इति संचिन्त्य भगवान्ब्रह्मा कमलसंस्थितः ।मनसा परिसंकल्प्य मामुत्पादितवानिमम् ॥२४॥कुतोऽप्युत्पन्न एवाशु ततोऽहं समुपस्थितः ।पितुस्तस्य पुनः शीघ्रमूर्मिरूर्मेरिवानघ ॥२५॥कमण्डलुधरो नाथः सकमण्डलुना मया ।साक्षमालः साक्षमालं स प्रणम्याभिवादितः ॥२६॥एहि पुत्रेति मामुक्त्वा स स्वाब्जस्योत्तरे दले ।शुक्लाश्च इव शीतांशु योजयामास पाणिना ॥२७॥मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् ।मामुवाच पिता ब्रह्मा सुहंसः सारसं यथा ॥२८॥मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् ।अज्ञानमभ्यास्रशतु शशः शशधरं यथा ॥२९॥इति तेनाशु शप्तः सन्विचारसमनन्तरम् ।अहं विस्मृतवान्सर्वे स्वरूपममलं किल ॥३०॥अथाहं दीनता यातः स्थितोऽसंबुद्धया धिया ।दुःखशोकाभिसंतप्तो जातो जन इवाधनः ॥३१॥कष्टं संसारनामायं दोषः कथमिहागतः ।इति चिन्तितवानन्तस्तूष्णीमेव व्यवस्थितः ॥३२॥अथाभ्यधात्स मां तातः पुत्र किं दुःखवानसि ।दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि ॥३३॥ततः पृष्टः स भगवान्मया सकललोककृत् ।हेमपद्मदलस्थेन संसारव्याधिभेषजम् ॥३४॥कथं नाथ महादुःखमयः संसार आगतः ।कथं च क्षीयते जन्तोरिति पृष्टेन तेन मे ॥३५॥तज्ज्ञानं सुबहु प्रोक्तं यज्ज्ञात्वा पावनं परम् ।अहं पितुरभिप्रायः किलाधिक इव स्थितः ॥३६॥ततो विदितवेद्यं मां निजां प्रकृतिमास्थितम् ।स उवाच जगत्कर्ता वक्ता सकलकारणम् ॥३७॥शापेनाज्ञपदं नीत्वा पृच्छकस्त्वं मया कृतः ।पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये ॥३८॥इदानीं शान्तशापस्त्वं परं बोधमुपागतः ।संस्थितोऽहमिवैकान्माऽकनक कनकादिवत् ॥३९॥गच्छेदानीं महीपृष्ठे जम्बूद्वीपान्तरस्थितम् ।साधो भरतवर्ष त्वं लोकानुग्रहहेतुना ॥४०॥तत्र क्रियाकाण्डपरास्त्वया पुत्र महाधिया ।उपदेश्वाः क्रियाकाण्डक्रमेण क्रमशालिना ॥४१॥विरर्क्ताचेत्ताश्च तथा महाप्राज्ञा विचारिणः ।उपदेश्यास्त्वया साधो ज्ञानेनानन्ददायिना ॥४२॥इति तेन नियुक्तोऽहं पित्रा कमलयोनिना ।इह राघव तिष्ठामि यावद्भूतपरम्परा ॥४३॥कर्तव्यमस्ति न ममेह हि किंचिदेवस्थातव्यमित्यतिमना भुवि संस्थितोऽस्मि ।संशान्तया सततसुप्तधियेह वृत्याकार्य करोमि न च किंचिदहं करोमि ॥४४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे ज्ञानावतरणं नाम दशमः सर्गः ॥१०॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP