संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः ११ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः ११ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ११ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एतत्ते कथितं सर्व ज्ञानावतरणं भुवि ।मया स्वमीहितं चेव कमलोद्भवचेष्टितम् ॥१॥तदिदं परमं ज्ञानं श्रोतुमद्य तवानघ ।भृशमुत्कण्ठितं चेतो महतः सुकृतोदयात् ॥२॥श्रीराम उवाच ।कथं ब्रह्मन्मगवतो लोके ज्ञानावतारणे ।सर्गादनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः ॥३॥श्रीवसिष्ठ उवाच ।परमे ब्रह्मणि ब्रह्मा स्वभाववशतः स्वयम् ।जातः स्पन्दमयो नित्यमूर्मिरम्बुनिधाविव ॥४॥दृष्ट्वैवमातुरं सर्ग सर्गस्य सकलां गतिम् ।भूतभव्यभविष्यस्थां दश परमेश्वरः ॥५॥सक्रियाक्रमकालस्य कृतादेः क्षय आगते ।मोहमालोच्य लोकानां कारुण्यमगमत्प्रभुः ॥६॥ततो मामीश्वरः सृष्ट्वा ज्ञानेनायोज्य चासकृत् ।विससर्ज महीपीठं लोकस्याज्ञानशान्तये ॥७॥यथाहं प्रहितस्तेन तथान्ये च महर्षयः ।सनत्कुमारप्रमुखा नारदाद्याश्च भूरिशः ॥८॥क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च ।मनोमोहामयोन्नद्धमुद्धर्तुं लोकमीरिताः ॥९॥महर्षिभिस्ततस्तैस्तैः क्षीणे कृतयुगे पुरा ।क्रमात्क्रियाक्रमे शुद्धे पृथिव्या तनुतां गते ॥१०॥क्रियाक्रमविधानार्थं मर्यादानियमाय च ।पृथग्देशविभागेन भूपालाः परिकल्पिताः ॥११॥बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ ।धर्मकामार्थसिद्ध्यर्थं कल्पितान्युचितान्यथ ॥१२॥कालचक्रे वहत्यस्मिंस्ततो विगलिते क्रमे ।प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे ॥१३॥द्वन्द्वानि संप्रवृत्तानि विषयार्थे महीभुजाम् ।दण्ड्यतां संप्रयातानि भूतानि भूवि भूरिशः ॥१४॥ततो युद्ध विना भूपा मही पालयितुं क्षमाः ।न समथोस्तदा याताः प्रजाभिः सह दैन्यताम् ॥१५॥तेषां दैन्यापनोदार्थं सम्यग्दृष्टिक्रमाय च ।ततोऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः ॥१६॥अध्यात्मविद्या तेनेयं पूर्व राजसु वर्णिता ।तदनु प्रसृता लोके राजविद्येत्युदाहृता ॥१७॥राजविद्या राजगुह्यमध्यात्मज्ञानमुत्तमम् ।ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः ॥१८॥अथ राजस्वतीतेषु बहुष्वमलकीर्तिषु ।अस्माद्दशरथाद्राम जातोऽद्य त्वमिहावनौ ॥१९॥तव चातिप्रसन्नेऽस्मिञ्जातं मनसि पावनम् ।निर्निमित्तमिदं चारु वैराग्यमरिमर्दन ॥२०॥सर्वस्यैव हिं सर्वस्य साधोर्रांपे विवेकिनः ।निमित्तपूर्वं वैराग्यं जायते राम राजसम् ॥२१॥इदं त्वपूर्वमुत्पन्न चमत्कारकरं १------ ।तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम् ॥२२॥बीभत्सं विषयं दृष्ट्वा कौ नाम न विरज्यते ।सतामुत्तमवैराग्य विवेकादेव जायते ॥२३॥ते महान्तौ महाप्राज्ञा निमित्तेन विनैव हि ।वैराग्यं जायते येषां तेषां ह्यमलमानसम् ॥२४॥स्वविवेकचमत्कारपरामर्शविरक्तया ।राजते हि धिया जन्तुर्युवेव वरमालया ॥२५॥परामृश्य विवेकेनसंसाररचनामिमाम् ।वैराग्यं येऽधिगच्छन्ति त एव पुरुषोत्तमाः ॥२६॥स्वविवेकवशादेव विचार्येदं पुनःपुनः ।इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात् ॥२७॥श्मशानमापद दैन्यं दृष्ट्वा को न विरज्यते ।तद्वैराग्यं परं श्रेयः स्वतो यदभिजायते ॥२८॥अकृत्रिमविरागत्वं महत्त्वमलमागतः ।योग्योऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम् ॥२९॥प्रसादात्परमेशस्य नाथस्य परमात्मनः ।त्वादृशस्य शुभा बुद्धिर्विवेकमनुधावति ॥३०॥क्रियाक्रमेण महता तपसा नियमेन च ।दानेन तीर्थयात्राभिश्चिरकालं विवेकतः ॥३१॥दुष्कृते क्षयमापन्ने परमार्थविचारणे ।काकतालीययोगेन बुद्धिर्जन्तोः प्रवर्तते ॥३२॥क्रियापरास्तावदलं चक्रावर्तिभिरावृताः ।भ्रमन्तीह जना यावन्न पश्यन्ति परं पदम् ॥३३॥यथाभूतमिदं दृष्ट्वा संसारं तन्मयीं धियम् ।परित्यज्य परं यान्ति निरालाना गजा इव ॥३४॥विषमेयमनन्तेह राम संसारसंसृतिः ।देहयुक्तो महाजन्तुर्विना ज्ञानं न पश्यति ॥३५॥ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् ।महाधियः समुत्तीर्णा निमेषेण रघूद्वह ॥३६॥तामिमां ज्ञानयुक्तिं त्वं संसाराम्भोधितारिणीम् ।शृणुष्वावहितो बुद्ध्या नित्यावहितया तया ॥३७॥यस्मादनन्तसंरम्भा जागत्यो दुःखभीतयः ।चिरायान्तर्दहन्त्येता विना युक्तिमनिन्दिताम् ॥३८॥शीतवातातपादीनि द्वन्द्वदुःखानि राघव ।ज्ञानशक्तिं विना केन सह्यतां यान्ति साधुषु ॥३९॥आपतन्ति प्रतिपदं यथाकालं दहन्ति च ।दुःखचिन्ता नरं मूढं तृणमग्निशिखा इव ॥४०॥प्राज्ञं विज्ञातविज्ञेयं सम्यग्दर्शनमाधयः ।न दहन्ति वनं वर्षासिक्तमग्निशिखा इव ॥४१॥आधिव्याधिपरावर्ते संसारमरुमारुते ।क्षुभितेऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत् ॥४२॥तत्त्वं ज्ञातुमतो यत्नाद्धीमानेव हि धीमता ।प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितम् ॥४३॥प्रामाणिकस्य पृष्टस्य वक्तुरुत्तमचेतसः ।यत्नेन वचनं ग्राह्यमंशुकेनेव कुङ्कुमम् ॥४४॥अतत्त्वज्ञमनादेयवचनं वाग्विदां वर ।यः पृच्छति नरं तस्मान्नास्ति मूढतरोऽपरः ॥४५॥प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः ।नानुतिष्ठति यो वाक्य नान्यस्तस्मान्नराधमः ॥४६॥अज्ञतातज्ज्ञते पूर्व वक्तुर्निर्णीय कार्यतः ।यः करति नरः प्रश्नं प्रच्छकः स महामतिः ॥४७॥अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः ।अधम प्रच्छकः स स्यान्न महार्थस्य भाजनम् ॥४८॥पूर्वापरसमाधानक्षमबुद्धावनिन्दिते ।पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि ॥४९॥प्रामाणिकार्थयोग्यत्वं प्रच्छकस्याविचार्य च ।यो वक्ति तमिह प्राज्ञाः प्राहुर्मूढतरं नरम् ॥५०॥त्वमतीव गुणश्लाघी प्रच्छको रघुनन्दन ।अहं च वक्तुं जानामि समो योगोऽयमावयों' ॥५१॥यदहं वच्मि तद्यत्नात्त्वया शब्दार्थकोविद ।एतद्वस्त्विति निर्णीय हृदि कार्यमखण्डितम् ॥५२॥महानसि विरक्तोऽसि तत्त्वज्ञोऽसि जनस्थितौ ।त्वयि चोक्तं लगत्यन्तः कुङ्कुमाम्बु यथांशुके ॥५३॥उक्तावधानपरमा परमार्थविवेचिनी ।विशत्यर्थं तव प्रज्ञा जलमध्यमिवार्कभाः ॥५४॥यद्यद्वच्मि तदादेयं हृदि कार्य प्रयत्नतः ।नोचेत्प्रष्टव्य एवाहं न त्वयेह निरर्थकम् ॥५५॥मनो हि चपलं राम संसारवनमर्कटम् ।संशोध्य हृदि यत्नेन श्रोतव्या परमार्थगीः ॥५६॥अविवेकिनमज्ञानमसज्जनरतिं जनम् ।चिरं दूरतरे कृत्वा पूजनीया हि साधवः ॥५७॥नित्यं सज्जनसंपर्काद्विवेक उपजायते ।विवेकपादपस्यैव भोगमोक्षौ फले स्मृतौ ॥५८॥मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः ।शमो विचारः संतोषश्चतुर्थः साधुसंगमः ॥५९॥एते सेव्याः प्रयत्नेन चत्वारौ द्वौ त्रयोऽथवा ।द्वारमुद्धाटयन्त्येते मोक्षराजगृहे तथा ॥६०॥एकं वा सर्वयत्नेन प्राणांस्त्यक्त्वा समाश्रयेत् ।एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं यतः ॥६१॥सविवेको हि शास्त्रस्य ज्ञानस्य तपसः श्रुतेः ।भाजनं भूषणाकारो भास्करस्तेजसामिव ॥६२॥घनतषपयातं हि प्रज्ञामान्द्यमचेतसाम् ।याति स्थावरतामम्बु जाड्यात्पाषाणतामिव ॥६३॥त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः ।विकासितान्तःकरणः स्थितः पद्म इवोदये ॥६४॥इमां ज्ञानगिरं श्रोतुमवबोद्धं च सन्मते ।अर्हस्युद्धतकर्णस्त्वं जन्तुर्वीणास्वनं यथा ॥६५॥वैराग्याभ्यासयोगेन समसौजन्यसंपदाम् ।अर्जनां कुरुतां राम यत्र नाशो न विद्यते ॥६६॥शास्त्रसज्जनसंसर्गपूर्वकैः सतपोदमैः ।आदौ संसारमुऽक्त्यर्थ प्रज्ञामेवाभिवर्धयेत् ॥६७॥एतदेवास्य मौर्यस्य परमं विद्धि नाशनम् ।यदिदं प्रेक्ष्यते शास्त्रं किंचित्संस्कृतया धिया ॥६८॥संसारविषवृक्षोऽयमेकमास्पदमापदाम् ।अज्ञं संमोहयेन्नित्यं मौर्ख्य यत्नेन नाशयेत् ॥६९॥दुराशासर्पगत्येन मौर्ख्येण हृदि वल्गता ।चेतः संकोचमायाति चर्माग्नाविव योजितम् ॥७०॥प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति ।दृगिवेन्दौ निरम्भोदे सकलामलमण्डले ॥७१॥पूर्यापविचारार्थश्चास्त्वातुर्यशालिनी ।सविकासा मतिर्यस्य स पुमानिह कथ्यते ॥७२॥विकसितेन सितेन तमोमुचावरविचारणशीतलरोचिषा ।गुणवता हृदयेन विराजसेत्वममलेन नभः शशिना यथा ॥७३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे वकृप्रच्छकलक्षणं नामैकादशः सर्गः ॥११॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP