संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः १७ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः १७ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवमन्तर्विवेको यः स महानिह राघव ।योग्यो ज्ञानगिरः श्रोतुं राजेव नयभारतीम् ॥१॥अवदातोऽवदातस्य विचारस्य महाशयः ।जडसङ्गोज्झितो योग्यः शरदिन्दोर्यथा नभः ॥२॥त्वमेतया खण्डितया गुणलक्ष्म्या समाश्रितः ।मनोमोहहरं वाक्यं वक्ष्यमाणमिदं श्रृणु ॥३॥पुण्यकल्पद्रुमो यस्य फलभारानतः स्थितः ।मुक्तये जायते जन्तोस्तस्येदं श्रोतुमुद्यमः ॥४॥पावनानामुदाराणां परबोधैकदायिनाम् ।वचसां भाजनं भूत्यै भव्यो भवति नाधमः ॥५॥मोक्षोपायाभिधानेयं संहिता सारसंमिता ।त्रिंशद्द्वे च सहस्राणि ज्ञाता निर्वाणदायिनी ॥६॥दीपे यथा विनिद्रस्य ज्वलिते संप्रवर्तते ।आलोकोऽनिच्छतोऽप्येवं निर्वाणमनया भवेत् ॥७॥स्वयं ज्ञाता श्रुता वापि भ्रान्तिशान्त्यैकसौख्यदा ।आप्रेक्ष्य वर्णिता सद्यो यथा स्वर्गतरङ्गिणी ॥८॥यथा रज्ज्वामहिभ्रान्तिर्विनश्यत्यवलोकनात् ।तथैतत्प्रेक्षणाच्छान्तिमेति संसारदुःखिता ॥९॥युक्तियुक्तार्थवाक्यानि कल्पितानि पृथक्पृथक् ।दृष्टान्तसारसूक्तानि चास्यां प्रकरणानि षट् ॥१०॥वैराग्याख्यं प्रकरणं प्रथमं परिकीर्तितम् ।विरागो वर्धते येन सेकेनेव मरौ तरुः ॥११॥ [ अनुबन्धेन सहितं दिष्टतत्त्वनिरूपणम् ।सार्धं सहस्रं ग्रन्थस्य यस्मिन्हृदि विचारिते ।प्रकाशाच्छुद्धतोदेति मणाविव सुमार्जिते ॥१२॥मुमुक्षुव्यवहाराख्यं ततः प्रकरणं कृतम् ।सहस्रमात्रं ग्रन्थस्य युक्तिग्रन्थेन सुन्दरम् ॥१३॥स्वभावो हि मुमुक्षूणां नराणां यत्र वर्ण्यते ।अथोत्पत्तिप्रकरणं दृष्टान्ताख्यायिकामयम् ॥१४॥सप्तग्रन्थसहस्राणि विज्ञानप्रतिपादकम् ।जागती द्रष्टृदृश्यश्रीरहंत्वमितिरूपिणी ॥१५॥अनुत्पन्नैवोत्थितेव यत्रेति परिवर्ण्यते ।यस्मिन्श्रुते जगदिदं श्रोतान्तर्बुध्यतेऽखिलम् ॥१६॥सास्मद्युष्मत्सविस्तारं सलोकाकाशपर्वतम् ।पिण्डग्रहविनिर्मुक्तं निर्भित्तिकमपर्वतम् ॥१७॥पृथ्व्यादिभूतरहितं संकल्प इव पत्तनम् ।स्वप्नोपलम्भभावाभं मनोराज्यवदाततम् ॥१८॥गन्धर्वनगरप्रख्यमर्थशून्योपलम्भनात् ।द्विचन्द्रविभ्रमाभासं मृगतृष्णाम्बुवर्तनम् ॥१९॥नौयानलोलशैलाभं सत्यलाभविवर्जितम् ।चित्तभ्रमपिशाचाभं निर्बीजमपि भासुरम् ॥२०॥कथार्थप्रतिभासाभं व्योममुक्तावलीनिभम् ।कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि ॥२१॥यथा नभसि नीलत्वमसदेवोत्थितं सदा ।अभित्तिरङ्गरहितमुपलब्धिमनोहरम् ॥२२॥स्वप्ने वा व्योम्नि वा चित्रमकर्तृ चिरभासुरम् ।अवह्निरेव वह्नित्वं धत्ते चित्रानलो यथा ॥२३॥दधात्येवं जगच्छब्दरूपार्थमसदात्मकम् ।तरङ्गोत्पलमालाभं दृष्टनृत्यमिवोत्थितम् ॥२४॥चक्रचीत्कारपूर्णस्य जलराशिमिवोद्यतम् ।शीर्णपत्रं भ्रष्टनष्टं ग्रीष्मे वनमिवारसम् ॥२५॥मरणव्यग्रचित्ताभं शिलागृहगुहास्पदम् ।अन्धकारगुहैकैकनृत्तमुन्मत्तचेष्टितम् ॥२६॥प्रशान्ताज्ञाननीहारं विज्ञानशरदम्बरम् ।समुत्कीर्णमिव स्तम्भे चित्रं भित्ताविवोदितम् ॥२७॥पङ्कादिवाभिरचितं सचेतनमचेतनम् ।ततः स्थितिप्रकरणं चतुर्थं परिकल्पितम् ॥२८॥त्रीणि ग्रन्थसहस्राणि व्याख्यानाख्यायिकामयम् ।इत्थं जगदहंभावरूपस्थितिमुपागतम् ॥२९॥द्रष्टृदृश्यक्रमं प्रौढमित्यत्र परिकीर्तितम् ।दशदिङ्मण्डलाभोगभासुरोऽयं जगद्भ्रमः ॥३०॥इत्थमभ्यागतो वृद्धिमिति तत्रोच्यते चिरम् ।उपशान्तिप्रकरणं ततः पञ्चसहस्रकम् ॥३१॥पञ्चमं पावनं प्रोक्तं युक्तिसंततिसुन्दरम् ।इदं जगदहं त्वं च स इति भ्रान्तिरुत्थिता ॥३२॥इत्थं संशाम्यतीत्यस्मिन्कथ्यते श्लोकसंग्रहैः ।उपशान्तिप्रकरणे श्रुते शाम्यति संसृतिः ॥३३॥प्रभ्रष्टचित्रसेनेव किंचिल्लभ्योपलम्भना ।शतांशशिष्टा भवति संशान्तभ्रान्तरूपिणी ॥३४॥अन्यसंकल्पचित्तस्था नगरश्रीरिवासती ।अलभ्यवस्तुपार्श्वस्थस्वप्नयुद्धचिरारवा ॥३५॥शान्तसंकल्पमत्ताभ्रभीषणाशनिशब्दवत् ।विस्मृतस्वप्नसंकल्पनिर्माणनगरोपमा ॥३६॥भविष्यन्नगरोद्यानप्रसूवन्ध्यामलाङ्गिका ।तस्या जिह्वोच्यमानोग्रकथार्थानुभवोपमा ॥३७॥अनुल्लिखितचित्रस्य चित्रव्याप्तेव भित्तिभूः ।परिविस्मर्यमाणार्थकल्पनानगरीनिभा ॥३८॥सर्वर्तुमदनुत्पन्नवनस्पन्दास्फुटाकृतिः ।भाविपुष्पवनाकारवसन्तरसरञ्जना ॥३९॥अन्तर्लीनतरङ्गौघसौम्यवारिसरित्समा ।निर्वाणाख्यं प्रकरणं ततः षष्ठमुदाहृतम् ॥४०॥शिष्टो ग्रन्थः परीमाणं तस्य ज्ञानमहार्थदः ।बुद्धे तस्मिन्भवेच्छ्रेयो निर्वाणं शान्तकल्पनम् ॥४१॥अचेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः ।परमाकाशकोशाच्छः शान्तसर्वभवभ्रमः ॥४२॥निर्वापितजगद्यात्रः कृतकर्तव्यसुस्थितः ।समस्तजनतारम्भवज्रस्तम्भो नभोनिभः ॥४३॥विनिगीर्णयथासंख्यजगज्जालातितृप्तिमान् ।आकाशीभूतनिःशेषरूपालोकमनस्कृतिः ॥४४॥कार्यकारणकर्तृत्वहेयादेयदृशोज्झितः ।सदेह इव निर्देहः ससंसारोऽप्यसंसृतिः ॥४५॥चिन्मयो घनपाषाणजठरापीवरोपमः ।चिदादित्यस्तपँल्लोकानन्धकारोपरोपमम् ॥४६॥परप्रकाशरूपोऽपि परमान्ध्यमिवागतः ।रुद्धसंसृतिदुर्लीलः प्रक्षीणाशाविषूचिकः ॥४७॥नष्टाहंकारवेतालो देहवानकलेवरः ।कस्मिंश्चिद्रोमकोट्यग्रे तस्येयमवतिष्ठते ।जगल्लक्ष्मीर्महामेरोः पुष्पे क्वचिदिवालिनी ॥४८॥परमाणौ परमाणौ चिदाकाशः स्वकोटरे ।जगल्लक्ष्मीसहस्राणि धत्ते कृत्वाथ पश्यति ॥४९॥विततता हृदयस्य महामते-र्हरिहराञ्जजलक्षशतैरपि ।तुलनमेति न मुक्तिमतो यतःप्रविततास्ति निरुत्तमवस्तुनः ॥५०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे ग्रन्थसंख्यादिवर्णनं नाम सप्तदशः सर्गः ॥१७॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP