संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः १६ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः १६ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् ।सर्वत्रोपकरोतीह साधुः साधुसमागमः ॥१॥साधुसङ्गतरोर्जातं विवेककुसुमं सितम् ।रक्षन्ति ये महात्मानो, भाजनं ते फलश्रियः ॥२॥शून्यमाकीर्णतामेति मृतिरप्युत्सवायते ।आपत्संपदिवाभाति विद्वज्जनसमागमे ॥३॥हिममापत्सरोजिन्या मोहनीहारमारुतः ।जयत्येको जगत्यस्मिन्साधुः साधुसमागमः ॥४॥परं विवर्धनं बुद्धेरज्ञानतरुशातनम् ।समुत्सारणमाधीनां विद्धि साधुसमागमम् ॥५॥विवेकः परमो दीपो जायते साधुसंगमात् ।मनोहरोज्ज्वलो नूनमासेकादिव गुच्छकः ॥६॥निरपायां निराबाधां निर्वृतिं नित्यपीवरीम् ।अनुत्तमां प्रयच्छन्ति साधुसङ्गविभूतयः ॥७॥अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः ।मनागपि न संत्याज्या मानवैः साधुसंगतिः ॥८॥साधुसंगतयो लोके सन्मार्गस्य च दीपिकाः ।हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः ॥९॥यः स्नातः शीतसितया साधुसंगतिगङ्गया ।किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥१०॥नीरागाश्छिन्नसंदेहा गलितग्रन्थयोऽनघ ।साधवो यदि विद्यन्ते किं तपस्तीर्थसंग्रहैः ॥११॥विश्रान्तमनसो धन्याः प्रयत्नेन परेण हि ।दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः ॥१२॥सत्समागमसौन्दर्यशालिनी धीमतां मतिः ।कमलेवाप्सरोवृन्दे सर्वदैव विराजते ॥१३॥तेनामलविचारस्य पदस्याग्रावचूलिता ।प्रथिता येन धन्येन न त्यक्ता साधुसंगतिः ॥१४॥विच्छिन्नग्रन्थयस्तज्ज्ञाः साधवः सर्वसंमताः ।सर्वोपायेन संसेव्यास्ते ह्युपाया भवाम्बुधौ ॥१५॥ते एते नरकाग्नीनां संशुष्केन्धनतां गताः ।यैर्दृष्टा हेलया सन्तो नरकानलवारिदाः ॥१६॥दारिद्र्यं मरणं दुःखमित्यादिविषयो भ्रमः ।संप्रशाम्यत्यशेषेण साधुसंगमभेषजैः ॥१७॥संतोषः साधुसङ्गश्च विचारोऽथ शमस्तथा ।एत एव भवाम्भोधावुपायास्तरणे नृणाम् ॥१८॥संतोषः परमो लाभः सत्सङ्गः परमा गतिः ।विचारः परमं ज्ञानं शमो हि परमं सुखम् ॥१९॥चत्वार एते विमला उपाया भवभेदने ।यैरभ्यस्तास्त उत्तीर्णा मोहवारिभवार्णवात् ॥२०॥एकस्मिन्नेव वै तेषामभ्यस्ते विमलोदये ।चत्वारोऽपि किलाभ्यस्ता भवन्ति सुधियां वर ॥२१॥एकोऽप्येकोऽपि सर्वेषामेषां प्रसवभूरिह ।सर्वसंसिद्धये तस्मात्यत्नेनैकं समाश्रयेत् ॥२२॥सत्समागमसंतोषविचाराः सुविचारितम् ।प्रवर्तन्ते शमस्वच्छे वाहनानीव सागरे ॥२३॥विचारसंतोषशमसत्समागमशालिनि ।प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा ॥२४॥विचारशमसत्सङ्गसंतोषवति मानवे ।प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या गुणा इव ॥२५॥सत्सङ्गसंतोषशमविचारवति सन्मतौ ।प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः ॥२६॥तस्मादेकतमं नित्यमेतेषां रघुनन्दन ।पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद्गुणम् ॥२७॥परं पौरुषमाश्रित्य जित्वा चित्तमतङ्गजम् ।यावदेको गुणो नान्तस्तावन्नास्त्युत्तमा गतिः ॥२८॥पौरुषेण प्रयत्नेन दन्तैर्दन्तान्विचूर्णयेत् ।यावन्नाभिनिविष्टं ते मनो राम गुणार्जने ॥२९॥देवो भवाथ यक्षो वा पुरुषः पादपोऽथ वा ।तावत्तव महाबाहो नोपायोऽस्तीह कश्चन ॥३०॥एकस्मिन्नेव फलदे गुणे बलमुपागते ।क्षीयन्ते सर्व एवाशु दोषा विवशचेतसः ॥३१॥गुणे विवृद्धे वर्धन्ते गुणा दोषजयप्रदाः ।दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशनाः ॥३२॥मनोमोहवने ह्यस्मिन्वेगिनी वासनासरित् ।शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु ॥३३॥सा हि स्वेन प्रयत्नेन यस्मिन्नेव निपात्यते ।कूले तेनैव वहति यथेच्छसि तथा कुरु ॥३४॥पुरुषयत्नजवेन मनोवनेशुभतटानुगतां क्रमशः कुरु ।वरमते निजभावमहानदी-महह तेन मनागपि नोह्यसे ॥३५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे सदाचारनिरूपणं नाम षोडशः सर्गः ॥१६॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP