संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः ९ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः ९ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ९ Translation - भाषांतर श्रीराम उवाच ।भगवन्तत्वधर्मज्ञ प्रतिष्ठामलमागतम् ।यल्लोके तद्वद ब्रह्मन्दैव नाम किमुच्यते ॥१॥श्रीवसिष्ठ उवाच ।पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् ।फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम् ॥२॥दैवं न किंचित्कुरुते न भुङ्ते न च विद्यते ।न दृश्यते नाद्रियते केवलं कल्पनेदृशी ॥३॥सिद्धस्य पौरुषेणेह फलस्य फलशालिना ।शुभाशुभार्थसंपत्तिर्दैवशब्देन कथ्यते ॥४॥पौरुषोपनता नित्यमिष्टानिष्टस्य वस्तुनः ।प्राप्तिरिष्टाप्यनिष्टा वा दैवशब्देन कथ्यते ॥५॥भावी त्ववश्यमेवार्थः पुरुऽषार्थैकसाधनः ।यः सोऽस्मिँल्लोकसंघाते दैवशब्देन कथ्यते ॥६॥ननु राघव लोकस्य कस्यचित्किंचिदेव हि ।दैवमाकाशरूपं हि करोति न करोति च ॥७॥पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये ।इदमित्थं स्थितमिति योक्तिस्तद्दैवमुच्यते ॥८॥इत्थं ममाभवद्बुद्धितिथ मे निश्चयो ह्यभूत् ।इति कर्मफलप्राप्तौ योक्तिस्तद्दैवमुच्यते ॥९॥इष्टानिष्टफलप्राप्ताविदमित्यस्य वाचकम् ।आश्वासनामात्रवचो दैवमित्येव कथ्यते ॥१०॥श्रीराम उवाच ।भगवन्सर्वधर्मज्ञ यत्प्राक्कर्मोपसंचितम् ।तद्दैव दैवमित्युक्तमपमृष्ट कथं त्वया ॥११॥श्रीवसिष्ठ उवाच॥साधु राघव जानासि शृणु वक्ष्यामि तेऽखिलम् ।दैवं नास्तीति ते येन स्थिरा बुद्धिर्भविष्यति ॥१२॥या मनोवासना पूर्व बभूव किल भूरिशः ।सैवेयं कर्मभावेन नृणां परिणतिं गता ॥१३॥जन्तुर्यद्वासनो राम तत्कर्ता भवति क्षणात् ।अन्यकर्मान्यभावश्चेत्येतन्नैवोपपद्यते ॥१४॥ग्रामगो ग्राममाप्नोति पत्तनार्थी च पत्तनम् ।यो यो यद्वासनस्तत्र स स प्रयतते सदा ॥१५॥यदेव तीव्रसंवेगाद्दृढं कर्म कृतं पुरा ।तदेव दैवशब्देन पर्यायेणेह कथ्यते ॥१६॥एवं कर्मस्थकर्माणि कर्मप्रौढा स्ववासना ।वासना मनसो नान्या मनो हि पुरुषः स्मृतः ॥१७॥यदैवं तानि कर्माणि कर्म साधो मनो हि तत् ।मनो हि षुरुषस्तस्माद्दैव नास्तीति निश्चयः ॥१८॥एष एव मनोजन्तुर्यद्यत्प्रयतते हितम् ।कृतं तत्तदवाप्नोति स्वत एव हि दैवतः ॥१९॥मनश्चित्तं वासना च कर्म दैवं च निश्चयः ।राम दुर्निश्चयस्यैताः संज्ञाः सद्भिरुदाहृताः ॥२०॥एवंनामा हि पुरुषो दृढभावनया यथा ।नित्यं प्रयतते राम फलमाप्नोत्यलं तथा ॥२१॥एवं पुरुषकारेण सर्वमेव रधूद्वह ।प्राप्यते नेतरेणेह तस्मात्स शुभदोऽस्तु ते ॥२२॥श्रीराम उवाच ।प्राक्तनं वासनाजालं नियोजयति मां यथा ।मुने तथैव तिष्ठामि कृपणः किं करोम्यहम् ॥२३॥श्रीवसिष्ठ उवाच ।अत एव हि राम त्वं श्रेयः प्राप्नोषि शाश्वतम् ।स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ॥२४॥द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते ।प्राक्तनो विद्यते राम द्वयोरेकतरोऽथ वा ॥२५॥वासनौघेन शुद्धेन तत्र चेदद्य नीयसे ।तत्क्रमेण शुभेनैव पदप्राप्स्यसि शाश्वतम् ॥२६॥अथ चेदशुभो भावस्त्वां योजयति संकटे ।प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता बलात् ॥२७॥प्राज्ञश्चेतनमात्रस्त्वं न देहस्त्वं जडात्मकः ।अन्येन चेतसा तत्ते चेत्यत्वं क्वेव विद्यते ॥२८॥अन्यस्त्वां चेतयति चेत्तं चेतयति कोऽपरः ।क इमं चेतयेत्तस्मादनवस्था न वास्तवी ॥२९॥शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥३०॥अशुभेषु समाविष्टं शुभेष्वेवावतारय ।स्वं मनः पुरुषार्थेन बलेन बलिनां वर ॥३१॥अशुभाच्चालितं याति शुभं तस्मादपीतरत् ।जन्तोश्चित्तं तु शुवित्तन्मुहूश्चतूयेद्गलात् ॥३२॥समता सांत्वनेनाशु न द्रागिति शनेशनेः ।पौरुषेणैव यत्नेन पालयेच्चित्तबालकम् ॥३३॥वासनौघस्त्वया पूर्वमभ्यासेन घनीकृतः ।शुभो वाप्यशुभो वापि शुभमद्य घनीकुरु ॥३४॥प्रागभ्यासवशाद्याता यदा ते वासनोदयम् ।तदाभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन ॥३५॥इदानीमपि ते याति घनतां वासनानघ ।अभ्यासवशतस्तस्माच्छुभाभ्यासमुपाहर ॥३६॥पूर्वे चेद्धनतां याता नाभ्यासात्तव वासना ।वर्धिष्यते तु नेदानीमपि तात सुखी भव ॥३७॥संदिग्धायामपि भृशं शुभामेव समाहर ।अस्यां तु वासनावृद्धौ शुभाद्दोषो न कश्चन ॥३८॥यद्यदभ्यस्यते लोके तन्मयेनैव भूयते ।इत्याकुमारं प्राज्ञेषु दृष्टं संदेहवजितम् ॥३९॥यूभासना युक्तस्तदत्र भव भूतये ।परं पोरुषमाश्रित्य विजित्येन्द्रियपञ्चकम् ॥४०॥अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः ।गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥४१॥ततः पक्वकषायेण नूनं विज्ञातवस्तुना ।शुभोप्यसौत्वया त्याज्यो वासनौघो निराधिना ॥४२॥यदतिसुभगमार्यसेवितंच्छुभमनुसृत्य मनोज्ञभावबुद्ध्या ।अधिगमय पदं सदा विशोकतदनु तदप्यवमुच्य साधु तिष्ठ ॥४३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे कर्मविचारो नाम नवमः सर्गः ॥९॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP