संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः २ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः २ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः २ Translation - भाषांतर विश्वामित्र उवाच ।तस्य व्यासतनूजस्य मलमात्रोपमार्जनम् ।यथोपयुक्तं ते राम तावदेवोपयुज्यते ॥१॥ज्ञेयमेतेन विज्ञातमशेषेण मुनीश्वराः ।स्वदन्तेऽस्मै न यद्भोगा रोगा इव सुमेधसे ॥२॥ज्ञातज्ञेयस्य मनसो नूनमेतद्धि लक्षणम् ।न स्वदन्ते समग्राणि भोगवृन्दानि यत्पुनः ॥३॥भोगभावनया याति बन्धो दार्ढ्यमवस्तुजः ।तयोपशान्तया याति बन्धो जगति तानवम् ॥४॥वासनातानवं राम मोक्ष इत्युच्यते बुधैः ।पदार्थवासनादार्ढ्यं बन्ध इत्यभिधीयते ॥५॥स्वात्मतत्त्वाभिगमनं भवति प्रायशो नृणाम् ।मुने विषयवैरस्यं कदर्थादुपजायते ॥६॥सम्यक्पश्यति यस्तज्ज्ञो ज्ञातज्ञेयः स पण्डितः ।न स्वदन्ते बलादेव तस्मै भोगा महात्मने ॥७॥यशःप्रभृतिना यस्मै हेतुनैव विना पुनः ।भुवि भोगा न रोचन्ते स जीवन्मुक्त उच्यते ॥८॥ज्ञेयं यावन्न विज्ञातं तावत्तावन्न जायते ।विषयेष्वरतिर्जन्तोर्मरुभूमौ लता यथा ॥९॥अतएव हि विज्ञातज्ञेयं विद्धि रघूद्वहम् ।यदेनं रञ्जयन्त्येता न रम्या भोगभूमयः ॥१०॥रामो यदन्तर्जानाति तद्वस्त्वित्येव सन्मुखात् ।आकर्ण्य चित्तविश्रान्तिमाप्नोत्येव मुनीश्वराः ॥११॥केवलं केवलीभावविश्रान्तिं समपेक्षते ।रामबुद्धिः शरल्लक्ष्मीः खलु विश्रमणं यथा ॥१२॥अत्रास्य चित्तविश्रान्त्यै राघवस्य महात्मनः ।युक्तिं कथयतु श्रीमान्वसिष्ठो भगवानयम् ॥१३॥रघूणामेष सर्वेषां प्रभुः कुलगुरुः सदा ।सर्वज्ञः सर्वसाक्षी च त्रिकालामलदर्शनः ॥१४॥वसिष्ठ भगवन्पूर्वं कच्चित्स्मरसि यत्स्वयम् ।आवयोर्वैरशान्त्यर्थं श्रेयसे च महाधियाम् ॥१५॥निषधाद्रेर्मुनीनां च सानौ सरलसंकुले ।उपदिष्टं भगवता ज्ञानं पद्मभुवा बहु ॥१६॥येन युक्तिमता ब्रह्मन्ज्ञानेनेयं हि वासना ।सांसारी नूनमायाति शमं श्यामेव भास्वता ॥१७॥तदेव युक्तिमज्ज्ञेयं रामायान्तेनिवासिने ।ब्रह्मन्नुपदिशाशु त्वं येन विश्रान्तिमेष्यति ॥१८॥कदर्थना च नैवैषा रामो हि गतकल्पषः ।निर्मले मुकुरे वक्त्रमयत्नेनैव बिम्बति ॥१९॥तज्ज्ञानं स च शास्त्रार्थस्त्वद्वैदग्ध्यमनिन्दितम् ।सच्छिष्याय विरक्ताय साधो यदुपदिश्यते ॥२०॥अशिष्यायाविरक्ताय यत्किंचिदुपदिश्यते ।तत्प्रयात्यपवित्रत्वं गोक्षीरं श्वदृताविव ॥२१॥वीतरागभयक्रोधा निर्माना गलितैनसः ।वदन्ति त्वादृशा यत्र तत्र विश्राम्यतीह धीः ॥२२॥इत्युक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः ।मुनयस्ते तमेवार्थं साधुसाध्वित्यपूजयन् ॥२३॥अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः ।ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भगवान्मुनिः ॥२४॥श्रीवसिष्ठ उवाच ।मुने यदादिशसि मे तदविघ्नं करोम्यहम् ।कः समर्थः समर्थोऽपि सतां लङ्घयितुं वचः ॥२५॥अहं हि राजपुत्राणां रामादीनां मनस्तमः ।ज्ञानेनापनयाम्याशु दीपेनेव निशातमः ॥२६॥स्मराम्यखण्डितं सर्व संसारभ्रमशान्तये ।निषधाद्रौ पुरा प्रोक्तं यज्ज्ञानं पद्मजन्मना ॥२७॥वाल्मीकिरुवाच ।इति निगदितवानसौ महात्मापरिकरबन्धगृहीतवक्तृतेजाः ।अकथयदिदमज्ञतोपशान्त्यैपरमपदैकविबोधनं वसिष्ठः ॥२८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे विश्वामित्रवाक्यं नाम द्वितीयः सर्गः ॥२॥ N/A References : N/A Last Updated : July 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP